कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

त्र्यक्षरकाण्डः · अर्थवल्लिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः

अधमौ गर्हितन्यूनावभीकौ निर्भयाभिकौ ।प्रत्यक्षेऽधिकृतेऽध्यक्षमखिलं गर्ह्यकृत्स्नयोः ॥ १ ॥
7.4.1 · p. 254
अनुष्टुप्
आविद्धौ क्षिप्तकुटिलावादृतौ सादरार्चितौ ।विपन्नप्राप्तावापन्नावाभीलौ कष्टभीषणौ ॥ २ ॥
7.4.2 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्ता (wrong syllable)
आप्लुतौ स्नातकस्नातावाहतं गुणिते हते ।आयस्तः कुपिते क्षिप्ते क्लेशिते तेजितेऽपि च ॥ ३ ॥
7.4.3 · p. 254
अनुष्टुप्
इरिणं तूषरस्थाने भूभागे च निराश्रये ।उदारो महति ख्याते दक्षिणे दानशौण्डके ॥ ४ ॥
7.4.4 · p. 254
अनुष्टुप्
उद्धृतं भुक्तनिर्मुक्ते तुलिते चाप्यथोच्छ्रितम् ।वृद्धे तुङ्गे समुत्पन्नेऽप्युदितौ कथितोद्गतौ ॥ ५ ॥
7.4.5 · p. 254
अनुष्टुप्
उदूढावूढपृथुलावुत्तमौ प्रवरान्तिमौ ।महत्युदात्त उच्चोक्तेऽप्युपोढो निकटोढयोः ॥ ६ ॥
7.4.6 · p. 254
अनुष्टुप्
अभ्यस्तेऽप्युचितं न्याय्येऽप्युषितं स्थितदग्धयोः ।उत्तालो द्रुत उत्तानेऽप्युत्कटो मत्त उद्भटे ॥ ७ ॥
7.4.7 · p. 254
अनुष्टुप्
करालो दन्तुरे तुंगे विशाले विकृतेऽपि च ।कर्कशः प्रखरस्पर्शे निर्दये साहसिन्यपि ॥ ८ ॥
7.4.8 · p. 254
अनुष्टुप्
द्वौ कनिष्ठकनीयांसौ यून्यत्यल्पेऽनुजेऽपि च ।क्षुल्लका नीचनिः स्वाल्पाः कलितो ज्ञातबद्धयोः ॥ ९ ॥
7.4.9 · p. 254
अनुष्टुप्
कल्माषौ कृष्णमिश्रौ च कुहकोऽपीर्ष्यया युते ।क्षेत्रियं दुष्प्रतीकारे व्याधौ क्षेत्रोद्भवे तृणे ॥ १० ॥
7.4.10 · p. 254
अनुष्टुप्
देहान्तरचिकित्सार्हे गरले पारदारिके ।चतुरौ दक्षधीमन्तौ जघन्योऽन्त्यकुपूययोः ॥ ११ ॥
7.4.11 · p. 254
अनुष्टुप्
जरठः कठिने जीर्णे तलिनो विरलाल्पयोः ।पशुः कालेऽपि निश्शृंगो नरोऽश्मश्रुश्च तूपरौ ॥ १२ ॥
7.4.12 · p. 255
अनुष्टुप्
दुर्विधो निर्धने नीचे निहतो न्यक्स्वरे हते ।निर्ग्रन्थः श्रमणे निस्स्वे निरस्तस्तु निराकृते ॥ १३ ॥
7.4.13 · p. 255
अनुष्टुप्
निष्ठ्यूते प्रास्तवान्ते च वचने च द्रुतोदिते ।निवातो दृढसन्नाहे निर्वातेऽप्याश्रयेऽपि च ॥ १४ ॥
7.4.14 · p. 255
अनुष्टुप्
निर्दयः परदोषोक्तिपरे निष्ठुरभाषिणि ।प्रणाय्योऽसम्मतेऽपि स्यादनभिष्वंगवत्यपि ॥ १५ ॥
7.4.15 · p. 255
अनुष्टुप्
प्रतीतो भूषिते ख्याते ज्ञाते प्रत्ययिते बुधे ।प्रार्थितं त्वभियुक्ते स्यान्निहिते याचितेऽपि च ॥ १६ ॥
7.4.16 · p. 255
अनुष्टुप्
पिण्डिलः स्थूलजंघे च गणनाकुशलेऽपि च ।प्रतीक्ष्यौ प्रतिपाल्यार्च्यौ प्रथमौ प्रवरादिमौ ॥ १७ ॥
7.4.17 · p. 255
अनुष्टुप्
प्रहतौ क्षुण्णव्युत्पन्नौ प्रयतौ पूतसंस्कृतौ ।सव्यायत्तौ प्रसव्यौ द्वौ प्रवृद्धौ प्रसृतैधितौ ॥ १८ ॥
7.4.18 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्ण (wrong syllable)
पिण्डितौ घनसंख्यातौ प्रसिद्धौ ख्यातभूषितौ ।पेशलौ चारुचतुरौ पूर्णश्रेष्ठौ तु पुष्कलौ ॥ १९ ॥
7.4.19 · p. 255
अनुष्टुप्
मिश्रास्निग्धौ च परुषौ प्रगाढो गहने दृढे ।पामरोऽपशदेऽज्ञे च बालिशो बालमूर्खयोः ॥ २० ॥
7.4.20 · p. 255
अनुष्टुप्
बीभत्सौ क्रूरविकृतौ बहलौ सान्द्रपुष्कलौ ।बन्धुरौ नम्रसुन्दरौ भंगुरौ वक्रनश्वरौ ॥ २१ ॥
7.4.21 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द (wrong syllable)
भावितौ लब्धवासितौ भुजिष्यौ स्वैरिकिङ्करौ ।मधुरौ स्वादुसुन्दरौ मूर्च्छितौ मूढसोच्छ्रयौ ॥ २२ ॥
7.4.22 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 सि (wrong syllable); pāda 3, syllable 7 न्द (wrong syllable)
विधुतौ त्यक्तकंपितौ विदितौ ज्ञातसंश्रुतौ ।विलीनौ लीनविद्रुतौ वेल्लितौ धूतकुञ्चितौ ॥ २३ ॥
7.4.23 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable); pāda 3, syllable 7 द्रु (wrong syllable)
विगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ ।विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥
7.4.24 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्पृ (wrong syllable)
विकृतौ रोगिदूरूपौ विशदो धवले शुचौ ।वल्लभौ दयिताध्यक्षौ वरिष्ठोऽतिवरेऽत्युरौ ॥ २५ ॥
7.4.25 · p. 256
अनुष्टुप्
पृथौ कराले विकटो विसृतं विगते तते ।वदान्यो वल्गुवाग्दात्रोर्वरीयान् सत्तमेऽत्युरौ ॥ २६ ॥
7.4.26 · p. 256
अनुष्टुप्
विवशस्त्वस्वतन्त्रात्माप्यरिष्टेन च दुष्टधीः ।विधुरः पत्न्यपेते स्यात् क्लिष्टविश्लिष्टयोरपि ॥ २७ ॥
7.4.27 · p. 256
अनुष्टुप्
संस्कृतं लक्षणोपेते कृत्रिमे निर्मलीकृते ।मिश्रीकृते च संसृष्टं शुद्धे च वमनादिभिः ॥ २८ ॥
7.4.28 · p. 256
अनुष्टुप्
साधीयोऽनुमतेऽत्यर्थं सत्तमे शोभनेऽपि च ।तथ्यपथ्यार्थवाक्येऽपि सूनृतोऽथ क्षमे हिते ॥ २९ ॥
7.4.29 · p. 256
अनुष्टुप्
संबद्धेऽपि समर्थः स्यात् स्तिमितं स्तंभवत्यपि ।
7.4.30 · p. 256