वात
vātaपुं · masc.In 22 kośas: 25 synonym verses, 3 as a nānārtha head word, 41 as a meaning of another word.
वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनिलश्वसनाः समीरणः ।वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ ॥मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ ॥
metre not recognised
genderपुंmasc.
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
आर्या
genderपुंmasc.
गौरी तस्य प्रियायां स्यात्सुखा स्यात्तस्य पत्तने ।वातो वायुर्जगत्प्राणो मातरिश्वा समीरणः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
जातुधानो यातुधानो जातूधानश्च दृश्यते ।वातिर्वाता च वातः स्यान्मारुतो मरुतो मरुत् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वातो वायुर्जगत्प्राणः शुष्मिणः श्वसनोनिलः ।गन्धवाहो गन्धवहो गन्धगन्धिलचोरकः ॥ १२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
हयो वातश्च साध्यानां नवको गण ईरितः ।अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
अपि वातो महावायुर्निदाघसमयानिले ।चारार्थाद्वायुपर्यायो झञ्झा प्रावृड्भवेऽनिले ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
प्रतीकार्यस्तु साध्योऽसौ याप्यस्त्वाजीवितस्थितिः ।असाध्यः क्षेत्रिया दोषा वात-पित्त-कफास्त्रयः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
पवनः पवमानश्च वायुर्वातोऽनिलो मरुत् ।समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
श्रीमद्गढमलाङ्गोद्भूस्तेजोवर्गमरूपयत् ।वायुःसमीरणो वातो मातरिश्वा प्रभञ्जनः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
नभस्वाननिलो वातः पवमानः सदागतिः ।मातरिश्वा जगत्प्राणः पृषदश्वोऽग्निसख्यभृत् ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
वायुः समीरणो वातः समीरो मारुतो मरुत् ।गन्धवाहो गन्धवहो मातरिश्वा प्रभञ्जनः ॥ १०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
वायुर्वाहो वहो वातः प्रकम्पनः प्रभञ्जनः ।पवनः पवमानश्च दैत्यदेवः सुरालयः ॥ १९३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्प (wrong syllable)
genderपुंmasc.
नभस्वान् श्वसनो वातः पवमानः स्वकम्पकः ।अक्षतिः कम्पलक्ष्मा च श्वसी निश्वावको हरिः ॥
अनुष्टुप्
genderपुंmasc.
जगत्प्राणो-जगत्प्राणौ गन्धाद्वाहि-वाह-वहाः ।वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥ ११८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वीते वातं यतं चोक्ते, वरत्रायां सया पया ।कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥
अनुष्टुप्
genderक्लीneut.
पवनसमीरसमीरणमारुतपृषदश्ववायुगन्धवहाः ।स्पर्शनपवमानानिलवातमरुच्छ्वसनमातरिश्वानः ॥ १२५ ॥
गीतिः
genderपुंmasc.
श्रीकण्ठः केशवः कण्ठो निवृत्तिश्च स्वरादिकः ।अ-कारो मातृकाद्यश्च वात इत्यपि कीर्त्तितः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
genderपुंmasc.
स्वराद्यो मातृकाद्यश्च वातः कण्ठोऽमृतेश्वरः ।विश्वेश्वरो निवृत्तिश्च श्रीकण्ठः केशवो लघुः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
अथ कादिमते प्रोक्ता संज्ञा भूतलिपेः क्रमात् ।वातो मरुच्चरः प्राणो वायुर्नादो रयो जवी ।व्याप्तं स्पर्शो वायुजानां संज्ञा प्रोक्ता मनीषिभिः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वातः-अ, मरुत्-आ, चरः-ए, प्राणः-क, वायुः-ख, नादः-ट, रयः-त, जवी-प, व्याप्तं-य, स्पर्शः-ष
genderपुंmasc.
वातो वायुर्जगत्प्राणः शुषिलः श्वसनोऽनिलः ।गन्धवाहो गन्धवहो मातरिश्वा समीरणः ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
वाश्रस्तु पुरुषे शब्दे सङ्घाते च पुमानथ ।वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि त्रि तु ॥ १२२७ ॥
अनुष्टुप्
meaningsवायु
कृतवाने क्रियायां तु वातेः क्लीबमथ त्रिषु ।वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥
अनुष्टुप्
वात as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् दोषदोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे । Amarakośa 3.3.438
- धरणिकोश आशुगनिःसङ्गौ संहतोत्सृष्टावाशुगो बाणवातयोः । तुरगो घोटके चित्ते विहगाः पक्षिणो ग्रहाः ॥ Dharaṇikośa 3.1.6
- धरणिकोश समीरणसमीरणः स्मृतो वाते समीरणः फणिज्झके । नारायणो हृषीकेशे नारायणी शतावरी ॥ Dharaṇikośa 14.2.30
- धरणिकोश सदागतिअभिशस्तिर्याच्ञायामभिशापे च कीर्तिता । सदागतिः स्मृतो वाते सदागतिः सदीश्वरे ॥ Dharaṇikośa 15.2.67
- धरणिकोश हरिहरिर्वातांशुचन्द्रार्कशुकभेकयमाहिषु । विष्ण्विन्द्रकपिसिंहेषु पिङ्गपिष्टप्रभेदयोः ॥ Dharaṇikośa 26.3.19
- धरणिकोश गन्धवहगन्धवहः स्मृतो वाते नासा गन्धवहा स्मृता । पितमहाः पितृपिता परमेष्ठी पितामहः ॥ Dharaṇikośa 32.2.14
- कोषकल्पतरु सरट्लघ्वट् वायौ लघौ त्रय्यां सरट् स्याद्वातमेघयोः । पुरटोऽङ्घ्रौ सुवर्णेऽन्त्ये देवटो देवशिल्पिनि ॥ Koṣakalpataru 6.10.45
- कोषकल्पतरु समीरणस्याच्छाटके चाथ समीरणः स्या- द्वाते फणिज्जे पथिके च पुंसि । स्यात्पर्वरीणं दलनाडिकायां रसे दलादेर्घृतकम्बलेऽपि ॥ ५८ ॥ Koṣakalpataru 6.15.58
- कोषकल्पतरु वहतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
- कोषकल्पतरु वानअपक्वमृद्भाजनकेऽथ वानं स्यूतौ कटे शुष्कफले च शुष्के । तरंगवातोदकसंप्लवेषु भवेत्सुरङ्गागतिसौरभेषु ॥ ८६ ॥ Koṣakalpataru 6.21.86
- कोषकल्पतरु अनिलअथानिलः स्याद्वसुवातवाची खण्डे तु वल्के त्वचि रोहितादेः । क्लीबे प्रदिष्टं शकलं च राग- वस्तुन्यथ स्याद्गरलं स्त्रियां न ॥ ९६ ॥ Koṣakalpataru 6.28.96
- कोषकल्पतरु ववाते प्रचेतस्यपि वोऽन्यवत्स्या- द्धिमेऽव्ययं स्यादिवतुल्यकार्थे । षष्ठ्यादिकान्तस्य च युष्मदः स्या- त्तथा बहुत्वेऽप्यथ विः खगे स्यात् ॥ ८७ ॥ Koṣakalpataru 6.29.87
- कोषकल्पतरु अतसवाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ Koṣakalpataru 6.31.87
- नानार्थार्णवसंक्षेप आत्मन्व्यसने बन्धके चेति चतुर्ष्वर्थेषु कीर्तितः । आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 2.2.12
- नानार्थार्णवसंक्षेप च्यूपचरुः स्थाल्यां हव्यपाके मेघेऽथ च्यूपवाग्रवौ । वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 2.2.51
- नानार्थार्णवसंक्षेप वेगवीर्ये सोमविशेषेऽथ वेगः किम्पाकरहसोः । प्रवाहे च प्रभावे च वाते रेतसि चाप्यथ ॥ ११५ ॥ Nānārthārṇavasaṃkṣepa 2.2.115
- नानार्थार्णवसंक्षेप दानुत्रिर्द्वे तु यजमाने स्याद् दानुस्तु त्रिषु दातरि । द्वयोस्तु यजमाने ना त्वर्के वातेऽप्यथो नपि ॥ ५९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.592
- नानार्थार्णवसंक्षेप अनेधस्बृहस्पतावङ्गिरस प्रोक्तवानथ कथ्यते । अनेहा काल इन्द्रे चाप्यनेधास्त्वग्निवातयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 3.2.11
- नानार्थार्णवसंक्षेप पवमानपञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे । पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥ Nānārthārṇavasaṃkṣepa 6.358
- नानार्थार्णवसंक्षेप सौगन्धिकगन्धद्रव्ये गन्धकाख्ये वातौ तु स्यान पुमानसौ । सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 6.689
- परमानन्दीयनाममाला यमूर्बन्धवेश्मनोर्योऽथ ब्रह्मवातयमेषु च । यं जले या रमायात्रोः खट्वाङ्गरथयोरपि ॥ ३५ ॥ Paramānandīyanāmamālā 1.35
- शब्दरत्नावली सदागतिसदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे । सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥ सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च । सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥ समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च । समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥ Śabdaratnāvalī 7.16.175
- शब्दरत्नावली शीकरशिलीन्ध्रो वृक्षभेदे स्याच्छत्राककरकासु च । शिलीन्ध्री मृत्तिकागण्डूपदी विहङ्गिकासु च । शीकरः शरले वात क्षिप्तनीरकणेऽपि च ॥ Śabdaratnāvalī 7.27.106
- शब्दरत्नावली अनिलअनलो वसुभिद्वह्न्योरनिलो वाजिवातयोः । अर्गलस्त्रिषु कल्लोले चान्तर्दण्डकपाटयोः ॥ Śabdaratnāvalī 7.28.40
- शब्दरत्नावली पाचलपाचलं पाचने वह्नौ राधनद्रव्यवातयोः । पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे । पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥ Śabdaratnāvalī 7.28.75
- शब्दरत्नाकर आत्मन्आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ Śabdaratnākara 4.1.1872
- शब्दरत्नाकर खेचरखिङ्खिरो वरुणे क्रोष्टौ खेचरोर्कादिवातयोः । पूगे तदीयनिर्यासे खपुरः पूगवेष्टके ॥ २०८३ ॥ Śabdaratnākara 4.1.2083
- शब्दरत्नाकर पवमानमुनिभेदे राजभेदे क्लीबे तु सितपंकजे । स्त्रियां सुराङ्गनाभेदे पवमानोऽग्निवातयोः ॥ २२१३ ॥ Śabdaratnākara 4.1.2213
- शब्दरत्नाकर विश्वकर्मन्वृषाकपिस्तु वैकुण्ठे हरेऽर्केऽग्नौ विभावसुः । विश्वकर्मा द्युकक्ष्णि स्यादर्यम्णि हरिवातयोः ॥ २२२३ ॥ Śabdaratnākara 4.1.2223
- तन्त्राभिधान फपवने पः समाख्यातः पाः पाने पाश्च पातरि । कफे वाते फ-कारः स्यात्तथाह्वाने प्रकीर्त्तितः ॥ २४ ॥ Tantrābhidhāna 3.24
- त्रिकाण्डशेष प्राणबोले वाते बले प्राणः पूर्णे पुं भूम्नि चासुषु । पर्णं पक्षे च पत्रे च प्रोक्षणं सेचने वधे ॥ १३३ ॥ Trikāṇḍaśeṣa 3.3.133
- त्रिकाण्डशेष जगत्सूर्यावर्तेऽपि जामाता ना वाते पिष्टपे जगत् । जातिश्छन्दसि मालत्यां चुल्ल्यां जातीफले कुले ॥ १५७ ॥ Trikāṇḍaśeṣa 3.3.157
- त्रिकाण्डशेष पवनपाकस्थाने कुलालस्य वाते च पवनः पुमान् । हरीतकी राक्षसी च पूतनाऽथ वदालके ॥ २४७ ॥ Trikāṇḍaśeṣa 3.3.247
- त्रिकाण्डशेष स्पर्शनसुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः । स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥ Trikāṇḍaśeṣa 3.3.270
- वैजयन्ती आत्मन्यत्नेऽर्केऽग्नौ मतौ वातेऽप्याखू सूकरमूषिकौ । आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानबंधयोः ॥ ७ ॥ Vaijayantī 6.1.7
- वैजयन्ती पविप्रेषणे मर्दने प्रैषः पुंखः श्वेतशरांगयोः । पवी वातास्त्रधारे च पाकपोतौ शिशावपि ॥ ३३ ॥ Vaijayantī 6.1.33
- वैजयन्ती विधुविधी तु दैवकालौ च वाजी त्वश्वे शरे खगे । विधुर्निशाकरे काले विष्णौ वातेऽग्निरक्षसोः ॥ ५५ ॥ Vaijayantī 6.1.55
- वैजयन्ती हरिसूनं पुष्पे सुतायां स्त्री स्नेहोऽस्त्री द्रवहार्दयोः । विष्णुचन्द्रेन्द्रवातार्कयमाश्वांशुशुकाग्निषु ॥ ९९ ॥ Vaijayantī 6.5.99
- वैजयन्ती अपांगर्भवह्निवातावपांगर्भौ गुह्यगूधाववस्करौ । कूर्मेशेऽब्धावकूपारोऽवलेपो लेपगर्वयोः ॥ १५ ॥ Vaijayantī 8.1.15
- वैजयन्ती पवमानद्वारद्वार्स्थौ प्रतीहारौ स्तनांभोदौ पयोधरौ । काशे नडे पोटगलः पवमानोऽग्निवातयोः ॥ २७ ॥ Vaijayantī 8.1.27
- वैजयन्ती ककाश्चित्तात्मार्कधीधातृवाता मूर्ध्नि सुखेऽप्सु कम् ॥ ३६ ॥ Vaijayantī 8.5.36