कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

यान्ताः · यश्लोकः

॥ यश्लोकः ॥

क्रिया कृत्ये चिकित्सायां चेष्टायां कर्म[75]पूजयोः ।उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ॥
25.3.1 · p. 157
अनुष्टुप्
कृत्या स्याद्देवताभेदे कृत्यं विद्विष्टकार्ययोः ।क्रियायां च स्मृता कृत्या कृत्यास्तव्यानीयादयः ॥
25.3.2 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नी (wrong syllable)
कुल्या नदी कुल्यमस्थि कुल्या नीरप्रणालिका ।कुलस्यापि हितः कुल्यः कुल्यश्च कुलसंभवः ॥
25.3.3 · p. 157
अनुष्टुप्
जया दुर्गा सखी चास्या जयन्ती च जया स्मृता ।गणिकापि जया प्रोक्ता जयस्तु विजयः स्मृतः ॥
25.3.4 · p. 158
अनुष्टुप्
जन्या मातृवयस्या स्याज्जन्या च जननी प्रिया ।जननीयजनित्रोश्च जन्यं निर्वादयुद्धयोः ॥
25.3.5 · p. 158
अनुष्टुप्
गृह्या शाखान्तरे प्रोक्ता गृह्यमत्ययपक्षयोः ।गृह्यान्वदन्ति विद्वांसो गृहासक्तमृगाण्डजान् ॥
25.3.6 · p. 158
अनुष्टुप्
दायो दानं विनिर्दिष्टं यौतुकादिधनं तथा ।विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः ॥
25.3.7 · p. 158
अनुष्टुप्
तार्क्ष्ये शैलाञ्जनं ज्ञेयं तार्क्ष्यः स्याद्गरुडाश्वयोः ।तार्क्ष्यो रथेऽश्वकर्णाख्यवृक्षे च रविसारथौ ॥
25.3.8 · p. 158
अनुष्टुप्
योग्यं वदन्ति योगार्हं योग्यामभ्यसनं तथा ।प्रवीणोपायिनौ योग्यौ योग्यमप्यौषधान्तरम् ॥
25.3.9 · p. 158
अनुष्टुप्
हृद्यं स्याद्धृद्भवं हृद्यं हृद्धितं तत्प्रियं च यत् ।वशीकरणमन्त्रोऽपि वैदिको मन्त्र इष्यते ॥
25.3.10 · p. 159
अनुष्टुप्
गव्यं ज्या गोहितं गव्यं गव्या गोनिकुरुम्बकम् ।रागद्रव्यं च गव्याख्यं गव्यं क्षीरादिकं गवाम् ॥
25.3.11 · p. 159
अनुष्टुप्
द्रव्यं स्याद्भेषजे भव्ये द्रव्यं द्रविणमुच्यते ।… ॥
25.3.12 · p. 159
अनुष्टुप्metre not read in every line
सत्यं युगे च लोके स तपोलोकात्परस्तु यः ।सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥
25.3.13 · p. 159
अनुष्टुप्
कल्यं प्रभातं सज्जं च [76] कल्यो नीरोगदक्षयोः ।कल्याणी वाक्च कल्या स्यात्कल्या कादम्बरी मता ॥
25.3.14 · p. 159
अनुष्टुप्
वाच्यं वक्तव्यमित्येते वर्तेते प्रतिपादने ।वाचार्हे कुत्सिते हीने दूषणे चापि कीर्त्यते ॥
25.3.15 · p. 159
अनुष्टुप्
मङ्गल्यं मङ्गले साधौ मङ्गल्यश्च मसूरकः ।मङ्गल्या च वचा रुद्रा मल्लिगन्धागुरुस्तथा ॥
25.3.16 · p. 160
अनुष्टुप्
गाङ्गेयं कनकं प्रोक्तं गाङ्गेयं च कशेरुकम् ।गाङ्गेयं मुस्तकं प्राहुर्गाङ्गेयो भीष्म उच्यते ॥
25.3.17 · p. 160
अनुष्टुप्
क्षेत्रियोऽसाध्यरोगः स्यात्क्षेत्रियः पारदारिकः ।अन्यदेहचिकित्सार्हे क्षेत्रियं क्षेत्रजे तृणे ॥
25.3.18 · p. 160
अनुष्टुप्
विषयो यस्य यो ज्ञातः स तस्य कविभिः स्मृतः ।इन्द्रियार्थे जनपदे विषयो गोचरेऽपि च ॥
25.3.19 · p. 160
अनुष्टुप्
निकायश्च निवासे स्यात्सङ्गे चैकानुसेविनी ।असंहतपदार्थानामेकत्रकरणेऽपि च ॥
25.3.20 · p. 160
अनुष्टुप्
कषायो रुधिरे विष्टे रसभेदे सुगन्धिके ।क्वाथे द्रव्येऽङ्गरागे च श्योनाके चेति सप्तसु ॥
25.3.21 · p. 161
अनुष्टुप्
प्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा ।ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥
25.3.22 · p. 161
अनुष्टुप्
समयः शपथः कालः सिद्धान्ताचारयोरपि ।संगते च क्रियाकारे समयो वारणी मता ॥
25.3.23 · p. 161
अनुष्टुप्
पौरुषेयपदं विद्यात्पुंसो वधविकारयोः ।पुरुषेण कृते कार्ये पुरुषाणां कदम्बके ॥
25.3.24 · p. 161
अनुष्टुप्