दोष
doṣaपुं · masc.In 12 kośas: 7 synonym verses, 5 as a nānārtha head word, 22 as a meaning of another word.
genderपुंmasc.
अपकारो भवेद्द्रोहो दोष आदीनवो मतः ।कषायं तुवरं प्रोक्तं सुरुङ्गा सन्धिरुच्यते ॥ ७७१ ॥
अनुष्टुप्
genderपुंmasc.
प्रतीकार्यस्तु साध्योऽसौ याप्यस्त्वाजीवितस्थितिः ।असाध्यः क्षेत्रिया दोषा वात-पित्त-कफास्त्रयः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
आस्रव आश्रवो दोषस्तथाऽऽदीनव उच्यते ॥ २५०० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
असंस्काराः कचाः श्लिष्टाः व्रतिनस्ते जटा सटा ।दोषा वातादयो वायुः पित्तं श्लेष्मा कफः समौ ॥ १०९२ ॥
अनुष्टुप्
genderपुंmasc.
क्लेशायासौ जुगुप्सा तु हृणीया हृणिया घृणा ।ऋतिः कुत्साप्युपक्रोशो गर्हा दोषश्च गर्हणा ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
दोषो वातादिके दुष्टौ गुणस्य प्रतियोगिनि ।ना दोषा तु भुजायां स्त्री स्यात् त्वाकारान्तमव्ययम् ॥ ६२६ ॥
अनुष्टुप्
दोष as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् व्यसनव्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥ Amarakośa 3.3.120
- नामलिङ्गानुशासनम् अत्ययअत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १५० ॥ Amarakośa 3.3.150
- हलायुधकोशः (अभिधानरत्नमाला) कलङ्कक्लीवो विक्रमहीनेऽपि समयेऽपि कटः स्मृतः । कलङ्कं लाञ्छने दोषेऽप्यद्रिः प्रोक्तो रवावपि ॥ ८२० ॥ Abhidhānaratnamālā (Halāyudha) 5.820
- धरणिकोश कण्टककण्टकः क्षुद्रशत्रौ स्यान्मीनादीनां [च] कीकसे । दोषे नैयायिकादीनां रोमाञ्चे पादपाङ्गजे ॥ Dharaṇikośa 1.3.7
- धरणिकोश अत्ययप्रणयः प्रेमणि ख्यातो याच्ञाविश्रम्भयोरपि । अत्ययोऽतिक्रमे कृच्छ्रे दोषे च नाशदण्डयोः ॥ Dharaṇikośa 25.2.21
- धरणिकोश आदीनवआदीनवः परिक्लिष्टो दोषश्चादीनवो मतः । शीतशिवं मधुरिका शमी सैन्धवशैलजम् । आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥ Dharaṇikośa 28.2.24
- धरणिकोश दंशनाशः पलायने प्रोक्तो निधनानुपलम्भयोः । दंशः स्यात्खण्डने दोषे दंशश्च वनमक्षिका ॥ Dharaṇikośa 29.2.5
- धरणिकोश प्रदोषअभीषुः प्रग्रहे भासि प्रदोषः कालदोषयोः । प्रत्युषौ प्रभातवसू शैलूषौ बिल्वनर्तकौ ॥ Dharaṇikośa 30.1.3
- कोषकल्पतरु प्रत्यवतिकृच्छ्रदोषातिक्रमेषु दण्डने प्रतितः पुनः । प्रसिद्धौ शपथे ज्ञाने विश्वासस्य च हेतुषु ॥ २५ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु अत्ययविश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ Koṣakalpataru 6.26.61
- कोषकल्पतरु विवरन मन्दिरं ना सदने पुरेऽन्त्ये पुमान्समुद्रे विवरं तु गर्त्ते । स्याच्छिद्ररन्ध्रप्रतिमं च दोषे पूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥ Koṣakalpataru 6.27.7
- कोषकल्पतरु आदीनवप्राचेतसे स्यादपलापहार्दे- प्यपह्नवः स्याच्च पराभवस्तु । तिरस्कृतौ भङ्गविनाशयोश्चा- थादीनवो दोषदुरन्ततान्ते ॥ ३४ ॥ Koṣakalpataru 6.29.34
- नानार्थार्णवसंक्षेप अत्ययछन्दोभेदेऽन्वयस्त्वन्ववायेऽनुगमने तथा । सम्बन्धे चात्ययस्तु स्यान्मरणे दोषदण्डयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.2.2
- नानार्थार्णवसंक्षेप प्रदोषप्रदोषस्तु पुमान् दोषे रात्रे प्रथमयामके । त्रिस्तु प्रकृष्टदोषादौ प्रमदा तु स्त्रिया स्त्रियाम् ॥ ११०८ ॥ Nānārthārṇavasaṃkṣepa 4.1108
- नानार्थार्णवसंक्षेप अनुबन्धक्रोधेऽपि सज्जनः प्राह दोषेऽप्यमरदत्तकः । अथानुद्वेष इत्येष दीर्घद्वेषानुबन्धयोः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
- परमानन्दीयनाममाला अत्ययअजिरं दर्दुरे काये विषये प्राङ्गणे तथा । अत्ययोऽतिक्रमे दोषे कृच्छ्रे दण्डविनाशयोः ॥ २४ ॥ Paramānandīyanāmamālā 5.1.24
- परमानन्दीयनाममाला कण्टककण्टको नरके शाखिकण्टके दोषवैरिणोः । कुमुदो दिग्गजे दैत्ये भुजंगे कैरवे कपौ ॥ १२१ ॥ Paramānandīyanāmamālā 5.7.121
- शब्दरत्नावली अत्ययअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नावली प्रदोषनहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे । निकषः शानफलके स्त्रियां राक्षसमातरि ॥ निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने । परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥ प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे । प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥ Śabdaratnāvalī 7.31.21
- शब्दरत्नाकर अत्ययस्त्री कलत्रे केसरिणो मालिन्ये वाच्यलिङ्गकम् । प्रत्ययोऽतिक्रमे दण्डे मरणे कृच्छ्रदोषयोः ॥ २०३४ ॥ Śabdaratnākara 4.1.2034
- वैजयन्ती अत्ययअविनौ विहगाध्वर्यू अरत्नी हस्तकूर्परौ । अत्ययोऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयोः ॥ १ ॥ Vaijayantī 7.1.1
- वैजयन्ती प्रदोषप्रसादौ स्वाच्छयानुरोधौ पर्यायोऽवसरे क्रमे । प्रदोषौ दोषरात्र्यंशौ प्रणिधिः प्रार्थने चरे ॥ ५५ ॥ Vaijayantī 7.1.55