All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
पातालकाण्डः · आतङ्कवर्गः (1/3)
इति नारकवर्गः ।
आतङ्क-तङ्कावस्त्रीकावम आम-गदामयाः ।श्वयीचिरुपतापश्चामन-रोगौ च रुग्रुजे ॥ १ ॥
3.3.1 · p. 306
अनुष्टुप्
पाप्माबाधो विकारश्च यक्ष्मा यक्ष्मश्च जन्म(क्ष्म?)वत् ।व्याधिर्ना दुःखमाकल्पं मान्द्यं खिद्रोऽप्यपाटवम् ॥ २ ॥
3.3.2 · p. 306
अनुष्टुप्
प्रतीकार्यस्तु साध्योऽसौ याप्यस्त्वाजीवितस्थितिः ।असाध्यः क्षेत्रिया दोषा वात-पित्त-कफास्त्रयः ॥ ३ ॥
3.3.3 · p. 306
अनुष्टुप्
शारीरा मनसस्तु स्याद्द्वौ दोषौ हि रजस्तमः ।संसर्गः संनिपातश्च तद्द्वित्रिक्षयकोपतः ।रसाद्याः समला दूष्याश्चयो वृद्धिः स्वधाम्नि या ॥ ४ ॥
3.3.4 · p. 306
अनुष्टुप्
पक्वाशयाद्या वातस्य स्थानं नाभ्यादयः पुनः ।पित्तस्य श्लेष्मणस्तु स्यादुरःप्रभृतिकं स्थलम् ॥ ५ ॥
3.3.5 · p. 306
अनुष्टुप्
उन्मार्गगामिता कोपः परस्थानगतिः पुनः ।प्रसरः स्थानसंस्थानं व्याप्तिर्या परवेश्मनाम् ॥ ६ ॥
3.3.6 · p. 306
अनुष्टुप्
व्यक्तिस्तु रोगप्राकट्यं भेदेन सहिता इमे ।चयादयो दोषगतिः निमित्तं तु निदानकम्[151b] ॥ ७ ॥
3.3.7 · p. 306
अनुष्टुप्
उत्थानायतने हेतुः प्रत्ययश्च निगद्यते ।प्राग्रूपं भाविरोगस्य ज्ञापकं लक्षणं हि यत् ॥ ८ ॥
3.3.8 · p. 306
अनुष्टुप्
संस्थानं व्यञ्जनं लिङ्गं लक्षणं रूपमित्यपि ।आकृतिः स्यादुपशयो व्याधेर्यः शमकारकः ॥ ९ ॥
3.3.9 · p. 306
अनुष्टुप्
पोषकर्तानुपशयः संप्राप्तिर्जातिरागतिः ।दोषाणां समवेतानां विकल्पोंऽशांशकल्पना ॥ १० ॥
3.3.10 · p. 306
अनुष्टुप्
व्याधिना जनितो रोग उपद्रव इति स्मृतः ।शाखा त्वगसृगाद्यं स्याद्बहिर्मार्गश्च सा स्मृता ॥ ११ ॥
3.3.11 · p. 306
अनुष्टुप्
कोष्ठाद्यमन्तर्मार्गः स्यात्संधयस्तु शिरोमुखाः ।रुजादिवृद्धिः संरम्भोऽथोपद्रवविहीनता ॥ १२ ॥
3.3.12 · p. 307
अनुष्टुप्
अल्पवेगः स्त्रियां तूषा भवेच्चिमिचिमायनम् ।उत्क्लेशः पाकतो मन्दा दोषाणां स्वाशयाच्च्युतिः ॥ १३ ॥
3.3.13 · p. 307
अनुष्टुप्
हृल्लासो हृदयादीषद्व्यथः पट्वम्बुनिर्गमः ।तृप्त्यैवान्नास्पृहातृप्तिररुचिः स्यादरोचकः ।;l[7270}अश्रद्धान्नारोचकोऽथाविपाकोऽन्नापचिः स्त्रियाम् ।ज्वरो रोगपतिर्दक्षाध्वरध्वंसी तथान्तकः ।ओजोशनस्तथा क्रोधो रुद्रोर्ध्वनयनोद्भवः ॥ १५ ॥
3.3.15 · p. 307
अनुष्टुप्metre not read in every lineLatin letters: l
[152a]संतापकः स्त्री जूर्जूर्त्तिर्वातिकस्तु स वातजः ।पैत्तिकः पित्तजन्मासौ श्लैष्मिकस्तु बलासजः ॥ १७ ॥
3.3.17 · p. 307
अनुष्टुप्
ज्वरः स्यात्प्रकृतिसमसमवेतः स्वहेतुना ।तुल्यो विकृतिविषमसमवेतोऽन्यथा भवेत् ॥ १८ ॥
3.3.18 · p. 307
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्प्र (wrong syllable); pāda 3, syllable 4 कृ (wrong syllable)
नित्यज्वरः स श्वयथुर्भवेद्वातबलासकी ।सांसर्गिको द्वंद्वजः स्यात्त्रिचयोत्थस्त्रिदोषजः ।स्यात्सांनिपातिकश्चाथ संधिगाद्या हि तद्भिदः ॥ १८ ॥
3.3.18 · p. 307
अनुष्टुप्
नृणां ज्वरो [ज्वरा]ह्वः स्यात्पाकलः करिणामसौ ।हयानामभितापः स्यादुष्ट्राणामलसो मतः ॥ १९ ॥
3.3.19 · p. 307
अनुष्टुप्
महिषाणां हरिद्रोऽसावीश्वरोऽनडुहामयम् ।रासभानां खोरकः स्यान्मृगाणां तु मृगामयः ॥ २० ॥
3.3.20 · p. 307
अनुष्टुप्
शुनामलर्कोऽजाव्योस्तु स प्रलेपकनामकः ।उष्णीषसंज्ञः सर्पाणामन्नानां चूर्णको मतः ॥ २१ ॥
3.3.21 · p. 307
अनुष्टुप्
कुङ्कुमाह्वस्तु गोधूमे भूमौ तूषाभिधो मतःयथर्तु वृद्धदोषोत्थः प्राकृतो वैकृतः परः ।अपक्वदोषः सामोऽसौ निरामस्तु ततोऽन्यथा ॥ १९ ॥
3.3.19 · p. 307
अनुष्टुप्
संततो नि[152b]त्यवृत्तिः स्याद्विषमः सततादिकः ।सततोऽह्नि द्विरावृत्त्याथान्येद्युष्को दिने सकृत् ॥ २० ॥
3.3.20 · p. 308
अनुष्टुप्metre not read in every line
स्यात्प्रात्यहिकनामाथ तृतीयेऽह्नि तृतीयकः ।चतुर्थकश्चतुर्थेऽह्नि द्व्याहिक-त्र्याहिकौ पुनः ॥ २१ ॥
3.3.21 · p. 308
अनुष्टुप्
क्रमाद्विपर्ययौ प्रोक्तौ तृतीयकचतुर्थयोः ।शीतकस्तु स शीतादिरुष्णकस्तूष्णपूर्वकः ॥ २२ ॥
3.3.22 · p. 308
अनुष्टुप्
विशिष्टस्तु स शीतादिः शुद्धः शीतादिवर्जितः ।अन्तर्दाहतृषायुक्तो ज्वरो गम्भीर उच्यते ॥ २३ ॥
3.3.23 · p. 308
अनुष्टुप्
ज्वरितो ज्वरवाञ्जूर्णो ज्वरी च परलिङ्गकः ।दाहः सर्वाङ्गसंताप ओषस्त्वरतिघर्मवान् ।प्लोषोऽर्चिषेव दग्धाङ्गे विदाहः संधिपाणिषु ॥ २४ ॥
3.3.24 · p. 308
अनुष्टुप्
रक्तपित्तं पित्तरक्तदोषो नासादिभिः स्रवन् ।तदूर्ध्वगाम्यपानादिस्राव्यधोगं प्रकीर्तितम् ॥ २५ ॥
3.3.25 · p. 308
अनुष्टुप्
काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥
3.3.26 · p. 308
अनुष्टुप्
उपेक्षितः प्रतिश्यायो दुष्टपी[153a]नस उच्यते ।नस्या रोगाः पूतिनास-नासानाहादयः परे ॥ २७ ॥
3.3.27 · p. 308
metre not recognised
कफोपरुद्धगमनः पवनः श्वास उच्यते ।श्वासभेदाः क्षुद्रकः स्याच्छिन्नश्च तमकस्तथा ॥ २८ ॥
3.3.28 · p. 308
अनुष्टुप्
महानूरद्ध्वः प्रतमको द्विधा हिक्का च हिक्कितम् ।भेदाः क्षुद्रा च यमला गम्भीरा महतीति च ॥ २९ ॥
3.3.29 · p. 308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यमला वेगिनी प्रोक्ता परिणामवती समा ।रोगराजो राजयक्ष्मा यक्ष्मा जक्ष्मा च यक्ष्मवत् ॥ ३० ॥
3.3.30 · p. 309
अनुष्टुप्
क्षयः शोषश्चाथ भवेत्स्वरभेदः स्वरक्षयः ।प्रच्छर्दिका वमिश्छर्दिः स्त्रियां छर्द्दिस्तु पुंसि न ॥ ३१ ॥
3.3.31 · p. 309
अनुष्टुप्
वमथुर्वमतिश्चाथापक्वाहारे त्वजीर्णकम् ।आमं कफाद्विदग्धं तु पित्तात्स्यादम्लपित्तकम् ॥ ३२ ॥
3.3.32 · p. 309
अनुष्टुप्
अम्लकस्त्वम्ल उद्गारः सान्तर्द्दाहः सतृङ्व्यथः ।धूमायनं शिरोग्रीवाकण्ठतालुषु धूमकः ॥ ३३ ॥
3.3.33 · p. 309
अनुष्टुप्
विष्टब्धाख्यं तदनिलदुर्गत्योः शूलमस्त्रियाम् ।आध्मा आध्मानमानाह उदरापूर इत्यपि ॥ ३४ ॥
3.3.34 · p. 309
अनुष्टुप्
उदावर्तस्तु वाता[153b]दिस्रोतोरोधः प्रकीर्त्यते ।उद्गारः स्यादूर्ध्ववात आटोपस्त्वत्र निस्वनः ॥ ३५ ॥
3.3.35 · p. 309
metre not recognised
विष्टम्भी स्यादलसको विसूची तु मलव्यथा ।अजीर्णभेदोऽन्नविषं स्त्रियामुक्ता विलम्बिका ॥ ३६ ॥
3.3.36 · p. 309
अनुष्टुप्
जाठरोऽग्निः समः प्रोक्तो यो भुक्तं भेषजं तथा ।चतुर्भिः पचति द्वाभ्यां प्रहराभ्यामनुक्रमम् ॥ ३७ ॥
3.3.37 · p. 309
अनुष्टुप्
स तीक्ष्णः शीघ्रपाकी स्यान्मन्दस्तु चिरपाचकः ।अथानियतपाकोऽग्निर्विषमः परिकीर्तितः ॥ ३८ ॥
3.3.38 · p. 309
अनुष्टुप्
मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् ।विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् ॥ ३८ ॥
3.3.38 · p. 309
अनुष्टुप्
विरुद्धमशनं तत्स्याद्विरुद्धद्रव्यभोजनम् ।संकीर्णानां गृहे भुक्तिः संकीर्णाशनमुच्यते ॥ ३९ ॥
3.3.39 · p. 309
अनुष्टुप्
हृद्रोगः पुंसि हृद्रुक्स्त्री संन्यासो मद्यपानजः ।गुदाङ्कुरोऽर्शमर्शश्च तद्वांस्त्रिष्वर्शसः स्मृतः ॥ ४० ॥
3.3.40 · p. 310
अनुष्टुप्
विबन्धो वातविड्रोधो ग्रहणी रुक्प्रवाहिका ।चर्मकीलं चर्मशङ्कुरतीसारस्तु विट्स्रुतिः ॥ ४१ ॥
3.3.41 · p. 310
अनुष्टुप्
स्यादतीसारकी भेद्यलिङ्गोऽतीसारपीडितः ।मूत्राघा[154a]तो मूत्रकृच्छ्रमश्मरी-शर्करे समौ ॥ ४२ ॥
3.3.42 · p. 310
अनुष्टुप्metre not read in every line
वाताष्ठीला-वातकुण्डलिकाद्या मूत्रजा गदाः ।मेहः प्रमेहो याप्योऽसौ मधुमेहः प्रकीर्तितः ॥ ४३ ॥
3.3.43 · p. 310
अनुष्टुप्
शराविका कच्छपिका जालिनी विनतालजी ।मसूरिका सर्षपिका पुत्रिणी च विदारिका ॥ ४४ ॥
3.3.44 · p. 310
अनुष्टुप्
द्वंद्वे विद्रधिरेताः स्युः पिटिका दशमेहिनाम् ।कुरण्डो वर्धा वृद्धिः स्त्री गुल्मोऽस्त्री जठरोपलः ॥ ४५ ॥
3.3.45 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्धा (wrong syllable)
पक्वाशयादधःशूले तून्यन्या तु प्रतूनिका ।कुक्षिरोगः स्यादुदरं तत्तु वै जलतां गतम् ॥ ४६ ॥
3.3.46 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
दकोदरं परिस्रावि तच्च रन्ध्रोदरं तदा ।पाण्डुस्तु मृद्गदोऽथ स्याद्धारिद्रः कामला द्वयोः ॥ ४७ ॥
3.3.47 · p. 310
अनुष्टुप्
स्यात्कुम्भकामला सैव यदि शोफसमन्विता ।हलीमकः स्यादलसः श्वयथुः शोथ-शोफकौ ॥ ४८ ॥
3.3.48 · p. 310
अनुष्टुप्
त्रिषु शूनः शोफयुतो विसर्पी तु विसर्पवत् ।तद्भेदास्त्वग्निवीसर्प-ग्रन्थिवीसर्पकादयः ॥ ४९ ॥
3.3.49 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शो (wrong syllable)
कुष्ठोऽस्त्री त्वग्गदोऽथ स्यात्किलासं श्वि[154b]त्रदारुणे ।अपरिस्रावि तद्भेदाः कापालं मण्डलादि च ॥ ५० ॥
3.3.50 · p. 310
अनुष्टुप्metre not read in every line
त्वक्पुष्प-सिध्मनी सिध्मं पादस्फोटो विपादिका ।विपादिकालस्तु विपादिकायुक्तो विशेष्यवत् ।पाम-पामे स्त्रियौ कच्छूः खसो ना स्त्री विचर्चिका ॥ ५१ ॥
3.3.51 · p. 311
अनुष्टुप्
खर्जूस्तु कण्डूः कण्डूया क्लीबे कण्डूयनं तथा ।दर्दूर्दद्रूस्तथा दद्रूर्दद्रुरुच्छूनमण्डला ॥ ५२ ॥
3.3.52 · p. 311
अनुष्टुप्
पामनः पामरः पामायुतः कच्छुर इत्यपि ।दद्रुणो दद्रुरोगी स्यात्पामनाद्या विशेष्यवत् ॥ ५३ ॥
3.3.53 · p. 311
अनुष्टुप्
शतारुषी शतारुः स्यादपतानोऽपतन्त्रकः ।बाह्यायामो धनुःस्तम्भो वेगी च स निगद्यते ॥ ५४ ॥
3.3.54 · p. 311
अनुष्टुप्
एकायामोऽर्द्दितं क्लीबे भवेत्पक्षवधः पुनः ।एकाङ्गरोगः सर्वाङ्गरोगः सर्वाङ्गवातजः ॥ ५५ ॥
3.3.55 · p. 311
अनुष्टुप्
विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता ।वातरोगविशेषाः स्त्री विश्वाची चावबाहुकम् ॥ ५६ ॥
3.3.56 · p. 311
अनुष्टुप्
गृध्रसीक्रोष्टुशीर्षश्च पादहर्षादयः परे ।ऊरुस्तम्भस्त्वाढ्यवातो[155a] वातकी वातरुग्युतः ॥ ५७ ॥
3.3.57 · p. 311
अनुष्टुप्metre not read in every line
खुडं वातबलासाढ्यरोगौ स्तो वातशोणितम् ।विस्फोटकः स्फोटकः स्याद्गण्डोऽपि पिटकस्त्रिषु ॥ ५८ ॥
3.3.58 · p. 311
अनुष्टुप्
क्षणनुर्ना व्रणोऽस्त्री स्यात्क्षतं दुष्क(त्वक्क)ण्डुरोऽपि च ।ईर्मेर्मणी अर्वरुषी शुष्के त्वत्र कचः पुमान् ॥ ५९ ॥
3.3.59 · p. 311
अनुष्टुप्
व्रणसम्मार्जनं झाटः खाटिः शुष्कव्रणस्थलम् ।किणो रूढव्रणपदमथ नाडीव्रणः पुमान् ॥ ६ ॥
3.3.6 · p. 311
अनुष्टुप्
गतिर्नाडिश्च नालिः स्त्री पृष्ठग्रन्थिः पुनर्गडुः ।उपपायु तु सीवन्यां यो व्रणः स भगंदरः ॥ ६१ ॥
3.3.61 · p. 311
अनुष्टुप्
भगंदरविशेषाः स्युः शतपोनादयः परे ।श्लीपदं पादवल्मीकमस्त्रियां पादगण्डिरः ॥ ६२ ॥
3.3.62 · p. 312
अनुष्टुप्
अर्बुदोऽस्त्री महाग्रन्थिर्गण्डमालापची च सा ।युवगण्डो वरण्डः स्यात्स्त्रियां तु मुखदूषिका ॥ ६३ ॥
3.3.63 · p. 312
अनुष्टुप्
हनुसंधिसमुद्भूतः शोफः पाषाणगर्द्दभः ।जडल्यः कालकः पिप्लु***[स्तिलक]स्तिलकालकः ॥ ६४ ॥
3.3.64 · p. 312
अनुष्टुप्
क्षुद्ररोगविशेषाः स्युर्मसूरी चाजगल्लि[155b]का ।इन्द्रविद्धा मण्डला च कक्षा तूक्ताग्निरोहिणी ॥ ६५ ॥
3.3.65 · p. 312
metre not recognised
नीलिका स्याज्जतुमणिर्भवेत्कोठस्तु मण्डलम् ।वालरोगोऽत्ययः क्षीरालसकं च नपुंसके ॥ ६६ ॥
3.3.66 · p. 312
अनुष्टुप्
बालग्रहाः स्कन्दमुखा आविष्टस्त्रिषु तद्वशः ।तथोन्मादयुगुन्मत्तोऽथोन्मदिष्णुस्तु सोन्मदः ॥ ६७ ॥
3.3.67 · p. 312
अनुष्टुप्
स्मृत्यपायस्त्वपस्मारोऽपस्मारी त्रिषु तद्युतः ।कृच्छ्रोन्मीलः पक्ष्मशातः पक्ष्मरोगाः परेऽपि च ॥ ६८ ॥
3.3.68 · p. 312
अनुष्टुप्
नेत्रपुष्पं तु शुक्र स्यात्तिमिरं दृगपाटवम् ।लिङ्गनाशो दृगान्ध्यं स्याद्दिवान्धाद्यास्तु दृग्गदाः ॥ ६९ ॥
3.3.69 · p. 312
अनुष्टुप्
आभिष्यन्दोऽक्षिकोपः स्यादधिमन्थः स वृद्धिमान् ।सर्वाक्षिरोगाः शुष्काक्षिपाककाम्लोषितादयः ॥ ७० ॥
3.3.70 · p. 312
अनुष्टुप्
शीतादो दालनोऽथाधिदन्तो वर्द्धन इत्यपि ।अधिजिह्वोपजिह्वौ तु जिह्वारोगौ प्रकीर्तितौ ॥ ७१ ॥
3.3.71 · p. 312
अनुष्टुप्
गलाङ्कुरो रोहिणी स्याच्छालूकस्तु गलार्गलः ।शताङ्कुरा शतघ्नी स्याद्गलगण्डो गलार्बुदम्[156a] ॥ ७१ ॥
3.3.71 · p. 312
अनुष्टुप्
मुखदौर्गन्ध्यकर्तोर्ध्वगुद उक्तो मुखामयः ।अर्धावभेदकस्त्वर्धशिरोरोग उदीरितः ॥ ७२ ॥
3.3.72 · p. 313
अनुष्टुप्
शिरःकम्पः शिरस्तापः सूर्यावर्तादयोऽपरे ।केशघ्नं त्विन्द्रलुप्तं स्यात्खलतिः क्रमकेशहृत् ॥ ७३ ॥
3.3.73 · p. 313
अनुष्टुप्
उपदंशो गुह्यरोगोऽथावमन्थः कफास्रजः ।अन्तर्मुखी सूचिमुखीत्याद्या योनिगदाः पृथक् ।ग्लान-ग्लास्नू त्वामयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तो रुग्ण * * * * * * ॥ ७५ ॥
3.3.75 · p. 313
अनुष्टुप्metre not read in every line
मूर्छितौ मूर्त-मूर्छालौ यूकालो बहुयूककः ।वार्तो निरामयः कल्य उल्लाघो निर्गदश्च सः ॥ ७६ ॥
3.3.76 · p. 313
अनुष्टुप्
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
3.3.77 · p. 313
अनुष्टुप्
अष्टाङ्ग आयुर्वेदः स्यादब्जो धन्वन्तरिः स्मृतः ।वैद्यनाथश्चाथ भवेच्चिकित्सा स्त्री चिकित्सितम् ॥ ७८ ॥
3.3.78 · p. 313
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे ।तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥
3.3.79 · p. 313
अनुष्टुप्metre not read in every line
प्रवाहिकातस्तु भवेदव्ययं तच्चिकित्सने ।संतर्पणं बृंहणं स्याल्लङ्घनं त्वपतर्पणम् ।शोधनं दोषनिर्हारि शमनं दोषशान्तिकृत् ॥ ८० ॥
3.3.80 · p. 313
अनुष्टुप्
कोष्ठशुद्धिर्वि रेकः स्याच्छिरोरेकस्तु नावनम् ।स्नेहनस्यो ह्रस्वमात्रो मर्षोऽन्यः प्रतिमर्षकः ॥ ८१ ॥
3.3.81 · p. 313
अनुष्टुप्
कल्काद्यैरवपीडः स्याद् ध्मानश्चूर्णैर्विरेचनैः ।प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात् ॥ ८२ ॥
3.3.82 · p. 314
अनुष्टुप्
यावत्पतत्यसौ बिन्दुरथ पर्येति दक्षिणम् ।जानु यावत्कराग्रं स्वं तावन्मात्रा प्रकीर्तिता ॥
3.3.86 · p. 314
अनुष्टुप्
आस्थापनं निरूहः स्याद्बस्तिकर्म च सम्मतम् ।फलवर्त्तिर्गुदे क्षेप्या वर्त्तिर्मलविशोधिनी ॥ ८४ ॥
3.3.84 · p. 314
अनुष्टुप्
अन्वासनं स्नेहवस्तिरनुवासोऽनुवासनम् ।ह्रस्वमात्रा स्नेहवस्तिर्मात्रावस्तिः प्रकीर्तितः ॥ ८५ ॥
3.3.85 · p. 314
अनुष्टुप्
मूत्रस्रोतः प्रयोज्योऽसौ भवेदुत्तरवस्तिकः ।निरूहान्वासयोरर्हौ निरूह्यान्वास्यकौ त्रिषु ॥ ८६ ॥
3.3.86 · p. 314
अनुष्टुप्
पञ्चकर्म वमी रे[157a]को निरूहोऽन्वासनावने ।संसर्जनं तु संसर्गी प्रोक्तः पेयादिकक्रमः ॥ ८७ ॥
3.3.87 · p. 314
अनुष्टुप्metre not read in every line
षडङ्गं शृतशीताम्बु घनाद्यैस्तृप्यति ज्वरः ।वचाकिण्वादिभिस्तूष्णैरुपनाहोऽनुलेपनम् ॥ ८८ ॥
3.3.88 · p. 314
अनुष्टुप्
संस्तरः प्रस्तरस्वेदो नाग्ना(ड्या?)ख्यो धूम * क्रतः ।पिण्डस्वेदः संकराख्यो भेदास्ते त्रय ऊष्मणः ॥ ८९ ॥
3.3.89 · p. 314
metre not recognisednearly अनुष्टुप्
प्रतिसारणमङ्गुल्या घर्षणं वदनादिषु ।पिण्डो रसक्रिया चूर्णस्तिस्रोऽञ्जनविकल्पनाः ॥ ९० ॥
3.3.90 · p. 314
अनुष्टुप्
विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते ।प्रत्यञ्जनं तीक्ष्णतमे चूर्णे नेत्रप्रसादनः ॥ ९१ ॥
3.3.91 · p. 314
अनुष्टुप्
रसक्रियावलेहः स्यात्पिण्डस्तु गुटिका मता ।आश्च्योतनं त्वक्षिसेकस्तस्य कालो निशा मता ॥ ९२ ॥
3.3.92 · p. 314
अनुष्टुप्
पाण्डुकं नवकं तुल्यलोहचूर्णं नवायसम् ।रसस्तु स्वरसोऽथासौ स्थितो रात्रिंदि( द्र )वे हिमः ॥ ९३ ॥
3.3.93 · p. 315
अनुष्टुप्
कल्को विनीयो वाःपिष्टश्चूर्णः पिष्टः शिलादिभिः ।[157b]यत्र कल्कः सिद्धतैले क्षेप्यः कल्कोऽतिगन्धवान् ॥ ९० ॥
3.3.90 · p. 315
अनुष्टुप्metre not read in every line
शृतः क्वाथः पादशेषोऽथानायासकृतो हि यः ।फाण्टोऽभिषुत*[पू]तो स्त्री गुटी तु वटिका द्वयोः ॥ ९५ ॥
3.3.95 · p. 315
अनुष्टुप्
रसः कल्कः शृतः शीतः फाण्टश्चेति कषायकाः ॥ ९६ ॥
3.3.96 · p. 315
कुटीप्रावेशिकं तत्स्याद्वातातपनिषेधयुक् ।वातातपसहं वातातपिकं च विशेष्यवत् ॥ ९८ ॥
3.3.98 · p. 315
अनुष्टुप्
चन्द्रोदयस्तु मकरध्वजनामा रसः स्मृतः ।स्वास्थ्यं त्वनामयं वार्तमारोग्यं सह्यमित्यपि ॥ ९९ ॥
3.3.99 · p. 315
अनुष्टुप्
भिषक्सहाय-भेषजामयाविनश्चतुर्गुणाः ।चिकित्सितस्य पादकाश्चिकित्सकैर्निरूपिताः ॥ १०० ॥
3.3.100 · p. 315
पञ्चचामरम्
श्रीविश्वनाथरचिते कोषकल्पतराविह ।पातालादित्रिवर्ग्यायं पातालस्कन्ध ईरितः ॥ १०१ ॥
3.3.101 · p. 315
अनुष्टुप्
श्री । इति श्रीविश्वनाथकृते कोषकल्पतरौ
पातालकाण्डस्तृतीयः ॥ ३ ॥
Part 2
कोषकल्पतरुः
[द्वितीयो भागः]संख्यावन्तोऽपि संख्यातुं यस्याः कर्माणि ने[158a]शते ।माया रमायाः पत्युः सा भवताद्भावुकाय नः ॥ १ ॥
3.3.1 · p. 1
अनुष्टुप्metre not read in every line
विशेष्यगैः प्रकीर्णैश्च धातुलिङ्गाव्ययैरपि ।प्राग्वर्गसंश्रितैर्वर्गैः सामान्यस्कन्ध उच्यते ॥ २ ॥
3.3.2 · p. 1
अनुष्टुप्
भेद्यं विशेष्यं तद्यादृग्लिङ्गसंख्यासमन्वितम् ।भेदकं तस्य तद्वत्स्यादजहल्लिङ्गकान्विना ॥ ३ ॥
3.3.3 · p. 1
अनुष्टुप्
सुकृती पुण्यवान्धन्यः श्रेयस्वी शंकरश्च सः ।हृदयालुर्हृदयिकश्चेद्धृद्यो हृदयी तथा ॥ ३ ॥
3.3.3 · p. 1
अनुष्टुप्
भवेत्सहृदयश्चाथ प्रगल्भः प्रतिभान्वितः ।प्रौढः प्रत्युत्पन्नमतिः पुनस्तत्कालबुद्धिमान् ।दूरदर्शी [ दीर्घदर्शी ] दीर्घपश्यश्च स स्मृतः ।सुदृक्सुदृश्वा सत्पश्यो भवेच्छोभनदर्शिनि ॥ ५ ॥
3.3.5 · p. 1
अनुष्टुप्
प्रवीणो निपुणोऽभिज्ञो विज्ञो वैज्ञानिकः पटुः ।छेको विदग्धो निष्णातः कुशलश्चतुरः कृती ॥ ६ ॥
3.3.6 · p. 1
अनुष्टुप्
शिक्षितः स्यात्कृतमुखः कृतकर्मा च दक्षवत् ।विशारदः पाटविको भवेद्विज्ञानिकश्च सः ॥ ७ ॥
3.3.7 · p. 1
अनुष्टुप्
पटीयांश्च पटिष्ठश्च पटोः स्यादतिशायने ।पटिमा पुंसि भावेऽस्य पटुता पाटवं तथा ॥कुशलस्य तु भावे स्यात्कौ[158b]शल्यं कौशलं नपुम् ।नदीष्णस्तु नदीस्नानकुशलः परिकीर्तितः ॥व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतश्च समार्थकाःवदो वदावदो वक्ता वग्नुश्च गदयित्नुवत् ॥ ८ ॥
3.3.8 · p. 1
अनुष्टुप्metre not read in every line
प्रवाग्वचक्रुः समुखो वावदूकोऽतिवक्तरि ।वाचोयुक्ति[ पटु ]र्वाग्मी वागीशो वाक्पतिः सुगीः ।स्याज्जल्पाकस्तु वाचाटो वाचालो बहुगर्ह्यवाक् ।तुण्डिलो मुखराबद्धमुख-दुर्मुखका अपि ॥ १० ॥
3.3.10 · p. 2
अनुष्टुप्
गर्ह्यवादी कद्वदोऽथ यद्वदः स्यादनुत्तरः ।अथोऽधरो हीनवादी लोहलस्त्वस्फुटब्रुवः ॥ ११ ॥
3.3.11 · p. 2
अनुष्टुप्
कासूर्विकलवादी स्याच्छिष्टवाणिस्तु गद्गदः ।मिम्मिणो नासिकावादी रतूः स्यात्सत्यभाषकः ॥ १२ ॥
3.3.12 · p. 2
अनुष्टुप्
वशंवदो वशोक्तिः स्याच्छंवदस्तु शुभब्रुवः ।प्रियंवदस्तु शक्लः स्यात्कुवादः कुचरः कुगीः ।रवणः शब्दनस्तुल्यौ मूको वाचा विवर्जितः ॥ १३ ॥
3.3.13 · p. 2
अनुष्टुप्
एडमूकानेडमूकौ वक्तुं श्रोतुमशिक्षिते ।तूष्णींशीलस्तु तूष्णी[159a]कोऽथास्वरः परुषस्वरः ॥ १४ ॥
3.3.14 · p. 2
metre not recognised
ज्ञाता तु विदुरो विन्दुर्यथाजातस्तु बालिशः ।देवानांप्रिय-मूर्खाज्ञ-मूढ-वैधेय-पामराः ॥ १५ ॥
3.3.15 · p. 2
अनुष्टुप्
मन्दो लिगुरमेधाश्च मुहिरो वठरो जडः ।बालो मातृमुखो मातृशासितो मुग्ध-हस्तकौ ॥ १६ ॥
3.3.16 · p. 2
अनुष्टुप्
जाल्मोऽसमीक्ष्यकारी स्यात्खट्वारूढो निषिद्धकृत् ।रमकोत्कमकौ चोभौ विलासी जहकः पुनः ।महोद्यमो महोत्साहो मान्यः पूज्यः प्रतीक्ष्यवत् ॥ १७ ॥
3.3.17 · p. 2
अनुष्टुप्