कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घण्टापथ

ghaṇṭāpathaपुं · masc.

In 9 kośas: 7 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.987 · p. 39
द्विपथं तु चारपथो गजाद्यध्वा त्वसंकुलः ॥ ९८६ ॥घण्टापथः संसरणं श्रीपथो राजवर्त्म च ।उपनिष्क्रमणं चोपनिष्करं च महापथः ॥ ९८७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.18
घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.100 · p. 19
घण्टापथः संसरणं श्रीपथः स्यान्महापथः ।राजपर्यायमार्गार्थः स पुरस्योपनिष्करम् ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.61 · p. 118
चत्वरं च द्विपाध्वा तु मार्गो यः स्यादसंकुलः ।घण्टापथो राजमार्गः श्रीपथश्चोप[6a]निष्क्रमः ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1691 · p. 272
घण्टापथो महापयः श्रीपथो राजवर्त्म च ॥ १६९१ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.29 · p. 47
घण्टापथः संशरणं राजद्वारगते पथि ।तपनिक्षार(?)मित्युक्तं पुराभ्यन्तरसत्पथे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1814 · p. 220
प्रान्तरं ग्रामयोर्मध्यं ग्रामसीमोपशल्यकम् ।घण्टापथः संसरणं समे वयुनवर्त्मनी ॥ १८१४ ॥
अनुष्टुप्
genderपुंmasc.

घण्टापथ as a meaning in nānārtha verses