All kośas › Amarakośa
नामलिङ्गानुशासनम् Amarakośa
2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)
द्वितीयं काण्डम् · भूमिवर्गः
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
2.1.1
अनुष्टुप्
भूस्त्रीभूमिस्त्रीअचलास्त्रीअनन्तास्त्रीरसास्त्रीविश्वम्भरास्त्रीस्थिरास्त्रीधरास्त्रीधरित्रीस्त्रीधरणिस्त्रीक्षोणिस्त्रीज्यास्त्रीकाश्यपीस्त्रीक्षितिस्त्रीसर्वंसहास्त्रीवसुमतीस्त्रीवसुधास्त्रीउर्वीस्त्रीवसुन्धरास्त्रीगोत्रास्त्रीकुस्त्रीपृथिवीस्त्रीपृथ्वीस्त्रीक्ष्मास्त्रीअवनिस्त्रीमेदिनीस्त्रीमहीस्त्रीविपुलास्त्रीगह्वरीस्त्रीधात्रीस्त्रीगोस्त्रीइलास्त्रीकुम्भिनीस्त्रीक्षमास्त्रीभूतधात्रीस्त्रीरत्नगर्भास्त्रीजगतीस्त्रीसागराम्बरास्त्री
त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥
2.1.6
अनुष्टुप्
शाद्वलः शादहरिते सजम्बाले तु पङ्किलः ।जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥
2.1.10
अनुष्टुप्
देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः ।स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥
2.1.12
अनुष्टुप्
अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
2.1.15
अनुष्टुप्
द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ।दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ॥ १९ ॥
2.1.19
अनुष्टुप्