All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · भूमिवर्गप्रकाशः
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां पातालवर्गप्रकाशः ॥
भूमिर्भूमी रसानन्ता धरणिर्धरणी धरा ।क्षौणिः क्षौणी क्षितिः क्षोणिः क्षोणी विश्वम्भरा ध्रुवा ॥
3.1.1 · p. 46
अनुष्टुप्
धारिणी मेदिनी गोत्रा रत्नगर्भा वसुन्धरा ।क्ष्मा मही पृथिवी पृथ्वी महाकान्ता जगद्वहा ॥
3.1.2 · p. 46
अनुष्टुप्
भूतधात्री वसुमती क्षमा कुः सागराम्बरा ।उर्वी भूखनी ज्या च काश्यपी वसुधा सहा ॥
3.1.4 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 उ (syllables merged)
अचलाऽचलकीला गौरब्धिद्वीपा द्विरा स्थिरा ।इडा स्यादिडिका चेति इला स्यादिलिकेति च ॥
3.1.5 · p. 46
अनुष्टुप्
मृन्मृत्तिका मृदा सैव मृत्सा मृत्स्ना च शोभना ।ऊर्वरा स्यादुर्वरा च सर्वशस्यवती मही ॥
3.1.6 · p. 46
अनुष्टुप्
उष ऊषश्च कथितो या भवेत् क्षारमृत्तिका ।ईरिणस्त्विरिणं वाच्यलिङ्गावूर्षवदूषरौ ॥
3.1.7 · p. 46
अनुष्टुप्
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
3.1.8 · p. 46
अनुष्टुप्metre not read in every line
ईशानकोणादारभ्य यावत् पश्चिमकोणकम् ।एतस्मादवधेर्देशो यो भवेत् पूर्वदक्षिणः ॥
3.1.10 · p. 46
अनुष्टुप्
तत् प्रत्यन्तदेशस्तु प्रत्यन्तो म्लेच्छदेशवत् ।अस्यैव मध्यदेशस्तु मध्यदेशस्तु मध्यमः ॥
3.1.12 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 तत् (syllables merged)
आर्यावर्तपुण्यभूमी हिमवद्विन्ध्यमध्यमे ।नीवृत् स्त्री मण्डलं राज्यं भवेत् जनपदेऽपि च ॥
3.1.13 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त (wrong syllable)
देशप्रदेशविषयास्तथा राष्ट्रोपवर्तनम् ।आगोष्ठात् त्रिषु नड्वांस्तु नड्वलो नडसंयुते ॥
3.1.14 · p. 46
अनुष्टुप्
कुमुदाढ्ये कुमुद्वान् स्याद् वेतस्वान् वेतसान्विते ।शाद्वलः शादहरिते पङ्कयुक्ते तु पङ्किलः ॥
3.1.15 · p. 46
अनुष्टुप्
जलप्रायप्रदेशः स्यादनूपः कच्छ इत्यपि ।शर्करा स्त्रीकर्परांशे सिकता वालुका स्मृता ॥
3.1.16 · p. 46
अनुष्टुप्
शार्करः शर्करावांश्च देशे च शर्करावति ।सैकतः सिकतावांश्च देशे च सिकतावति ॥
3.1.17 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शार्करिलः सैकतिलः शर्करा सिकता अपि ।देश एव चतुष्कं स्यादित्याह मधुमाधवः ॥
3.1.18 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्क (wrong syllable)
देवनद्यम्बुसम्पन्नब्रीहिपालितदेशयोः ।क्रमात् देवमातृकः स्यान्नदीमातृक इत्यपि ॥
3.1.19 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
राजन्वान् सुमहाराजदेशेऽन्यत्र तु राजवान् ।अथ गोष्ठं च गोस्थानं गोस्थानकमपि क्वचित् ॥
3.1.20 · p. 47
अनुष्टुप्
भूतपूर्वन्तु गोस्थानं गौष्ठीनं तत् प्रकीर्तितम् ।पर्यन्तभूमिः शैलादेर्भवत् परिसरो मतः ।आलिः स्त्रियां पुमान् सेतुस्तथा पिण्डिलसञ्चरौ ॥
3.1.21 · p. 47
अनुष्टुप्
वल्मीकोऽस्त्री वल्मिकश्च कुलकः कूलकोऽपि च ।वामलूरः शक्रमूर्धा नाकुः स्यात् क्रिमिशैलकः ॥
3.1.22 · p. 47
अनुष्टुप्
सत्पथस्त्वतिपन्थाश्च सुपन्थाः सुपथोऽपि च ।कुपथः कापथो व्यध्वो दुरध्वो विपथोऽपि च ॥
3.1.25 · p. 47
अनुष्टुप्
असत्पथः कदध्वा च भवेत् कुत्सितवर्त्मनि ।अपन्थास्त्वपथञ्चैव पथशून्ये भवेद्द्वयम् ॥
3.1.26 · p. 47
अनुष्टुप्
शृङ्गाटकञ्च शृङ्गाटं चतुष्पथमुदाहृतम् ।प्रान्तरं प्रान्तशून्यञ्च दूरशून्यपथि द्वयम् ॥
3.1.27 · p. 47
अनुष्टुप्
महारण्यं महादुर्गपथि कान्तारमस्त्रियाम् ।स्त्रीः गव्यूतिः क्रोशयुग्मं नल्वो हस्तचतुःशतम् ॥
3.1.28 · p. 47
अनुष्टुप्
घण्टापथः संशरणं राजद्वारगते पथि ।तपनिक्षार(?)मित्युक्तं पुराभ्यन्तरसत्पथे ॥
3.1.29 · p. 47
अनुष्टुप्
नववर्षाणि मेदिन्या भारतादीनि भारतम् ।नवभूमिः(?) किम्पुरुषस्तथा हरिवर्षन्तथा ॥भद्राश्वमुत्तरकुरुहिरन्मयमिलावृतम् ।केतुमालं क्रमादेतान्यवधेयानि सूरिभिः ॥
3.1.30 · p. 47
अनुष्टुप्metre not read in every line
जम्बुप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ।सप्त द्वीपा निगदिताः क्रमादेते मनीषिभिः ॥
3.1.31 · p. 48
अनुष्टुप्
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैरमी ।समुद्राः सप्त विख्याताः सप्तद्वीपसमावृताः ॥
3.1.32 · p. 48
अनुष्टुप्
हिमवान् हेमकूटश्च निषधो मेरुरेव च ।चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥
3.1.33 · p. 48
अनुष्टुप्
अथ देशविशेषाः स्युर्ब्रह्मावर्तस्तपोवटः ।कुरुक्षेत्रं प्रयागश्च वारेन्द्रः पौण्ड्रवर्धनः ॥
3.1.34 · p. 48
अनुष्टुप्
कुशस्थली सोमतीर्थः कामरूपः शशस्थली ।अन्तर्वेदिस्तीरभुक्तिर्विदेहा मिथिला च सा ॥
3.1.35 · p. 48
अनुष्टुप्
पलाशषण्डो मगधश्च पलाशोऽन्धक इत्यपि ।दासेरकस्त्रिगर्तः स्यादवन्ती चेदिमानवत् ॥
3.1.37 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गया गयश्च वारणायुर्वनयुर्यदुसात्वतम् ।चोलो दशार्हः कुकुरो दरदा दरदोऽपि च ।उड्र उत्कल उक्कः स्याद् गौडो वङ्गश्च कीकटः ॥
3.1.38 · p. 48
अनुष्टुप्metre not read in every line
तुरुष्कः खाशिकष्टङ्क् वाह्लीको वाह्लिकश्च सः ।ताम्रलिप्तिस्तमोलिप्ती वेलाकूलं तमालिका ॥
3.1.39 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
साकेतं कोसलायोध्या तथा चोत्तरकोशला ।नागाङ्को हास्तिनपुरं हस्तिनं हस्तिनापुरम् ॥
3.1.40 · p. 48
अनुष्टुप्
गजाह्वयं गजाह्वञ्च गज … मेव च ।प्राजापत्यः प्रयागः स्यात् कौशाम्बी वत्सपत्तनम् ॥
3.1.41 · p. 48
अनुष्टुप्metre not read in every line
द्वारावती द्वारवती द्वारकावनमालिनी ।द्वारका चाब्धिनगरी द्वारिकापि च कुत्रचित् ॥
3.1.42 · p. 48
अनुष्टुप्
मथुरा स्यान्मधुपुरी मथुरा मधुरा च सा ।वाराणसी जित्वरी स्यात्तथा काशी तपस्थली ॥
3.1.43 · p. 48
अनुष्टुप्
चम्पावती मालिनी स्याच्चम्पा चम्पापुरी तथा ।अथ पुष्पपुरं पौष्पी तथा पाटलिपुत्रकम् ॥
3.1.45 · p. 48
अनुष्टुप्
आग्नेयं शोणितपुरं देवीकोट्टतमावनम् ।कोटिवर्षं वाणपुरं कोट्टवीपुरमित्यपि ॥
3.1.46 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अथ सिन्धुः सिन्धुखेलस्तुरुण्डः पारदण्डकः ।पारसीकः पारसिको यवनो जवनोऽपि च ॥
3.1.47 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
कोङ्कीनः कौङ्किनः कोङ्कः पौण्ड्रः स्यात् पौण्ड्रवर्धनः ।काम्पील्योऽपि च काम्पिल्यः कम्पीलः काम्पिलोऽपि च ॥
3.1.48 · p. 49
अनुष्टुप्
कर्णाटनाटतेलङ्गहेरम्बहट्टगुर्जराः ॥
3.1.49 · p. 49
कलिङ्गकोलकोलाञ्चभोटाङ्गखम्भ-कुञ्जराः ॥
3.1.50 · p. 49
अन्ये च देशा बहवो ज्ञेया लोकोपचारतः ॥
3.1.51 · p. 49