कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ज्येष्ठामूलीय

jyeṣṭhāmūlīyaपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.23 · p. 2
वैशाखे तूत्सरो ज्येष्ठमासे तु खरकोमलः ।ज्येष्ठामूलीय इति च कार्तिके सैरकौमुदौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.60 · p. 412
आषाढपूर्वजो ज्येष्ठामूलीयः शुक्रमस्त्रियाम् ।श्रावणानुज आषाढ आशाढोऽषाढ इत्यपि ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.149 · p. 21
उच्छरश्चैव वैशाखे ज्येष्ठस्तु खरकोमलः ।मलः शुक्रस्तथा ज्येष्ठामूलीयः खरकस्तथा ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.30 · p. 19
कौमुदः कार्तिको मासः फाल्गुनालस्तु फाल्गुनः ।ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.84 · p. 23
ज्येष्ठामूलीय ईजानो ज्येष्ठश्च खरकोमलः ।ते शुक्रे स्युरथाषाढे शुचिः श्रावणिके नभाः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.