कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ज्येष्ठ

jyeṣṭhaपुं · masc.

In 22 kośas: 31 synonym verses, 8 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.155 · p. 10
ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः ।श्रावणिकोऽथ नभस्यः प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः ।कार्तिकिको बाहुलोर्जौ द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.551 · p. 24
स्वजाते त्वौरसोरस्यौ मृते भर्तरि जारजः ।गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० ॥समानोदर्यसोदर्यसगर्भसहजा अपि ।सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र पृथ्वीकायः Abhidhānacintāmaṇipariśiṣṭa 4.1.158 · p. 6
त्रपुणि श्वेतरूप्यं स्यात्सठं सलवणं रजः ।परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.16
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ।आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.506 · p. 58
अग्रजः पूर्वजो ज्येष्ठः कनिष्ठोऽवरजोऽनुजः ।भ्रातृव्यो भ्रातृपुत्रः स्याद् भ्रात्रीयो भ्रातृजस्तथा ॥ ५०६ ॥
अनुष्टुप्
genderपुंmasc.
स्यात् फाल्गुनः फाल्गुनिकश्चैत्रे चित्रिकाचित्रको ।श्रावणः स्यात् श्रावणिको ज्यैष्ठे ज्येष्ठोऽपि वर्तते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable); pāda 3, syllable 5 श्रा (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.67 · p. 27
तद्भर्त्तरि तु शाल्यूढा शाल्यूढोऽपि सखाप्यथ ।भर्त्तुर्भर्ता लघुर्देवा देवरो दिविरोग्रजे ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.46 · p. 94
युधिष्ठिराद्यास्तेऽपि स्युर्ज्येष्ठाः कुन्तीसुतास्त्रयः ।पञ्चामी धर्मवाय्विन्द्रनासत्यानां सुताः क्रमात् ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.314 · p. 167
गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः ।व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथाम्लकः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.92 · p. 36
मैत्री स्यादनुराधायामनुराधस्तु तज्जनिः ।ऐन्द्री ज्येष्ठाऽथ तज्जातो ज्यैष्ठो ज्येष्ठश्च गद्यते ॥ ९२ ॥
अनुष्टुप्
genderविadj.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.59 · p. 15
चामरश्चामरं ज्येष्ठं बर्हिष्ठं जटिलं जटी ।शैलमूलं तु कच्चोरं पलाशो हिमजा शटिः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 43 · p. 21
कनीयान् अग्रजो ज्येष्ठः भ्रातृजानी स्वसाऽनुजा ।भर्त्तुः स्वसा ननान्दा स्यात् मातुलानी प्रियाम्बिका ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.141 · p. 22
वैशाखे राध इत्येवं ज्येष्ठे शुक्रोऽपि कथ्यते ।आषाढे च शुचिः श्रावणिकस्तु श्रावणो नभाः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.127 · p. 17
अनूराधा चानुराधा ज्येष्ठा ज्येष्ठश्च चिन्तितः ।मूला मूलं मूलिका च पूर्वाषाढा तु पूर्ववत् ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.55 · p. 4
कनिष्ठोऽग्रजनु? ज्येष्ठो देवरः पतिसोदरः ।धवः प्रियः पतिर्भर्त्ता वल्लभो दयितोऽसुपः? ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.149 · p. 21
उच्छरश्चैव वैशाखे ज्येष्ठस्तु खरकोमलः ।मलः शुक्रस्तथा ज्येष्ठामूलीयः खरकस्तथा ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.882 · p. 133
अग्रजश्चाऽऽग्रिमः पित्र्यः स्याज्ज्येष्ठः पूर्वजस्तथा ॥ ८८२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1801 · p. 294
कस्तीरं चक्रसंज्ञं च घनं ज्येष्ठं शठं रजः ।एतन्नामानि सर्वाणि मन्यन्ते पण्डितास्त्रपोः ॥ १८०१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.285 · p. 20
वैशाखे माधवो राधो ज्यैष्ठे ज्येष्ठश्च शुक्रवत् ।भवेदाषाट आसाटोऽप्यषाटः शुचिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.203 · p. 96
वर्षीयान् दशमी ज्यायान् अतिवृद्धे समं त्रयम् ।अथ ज्येष्ठः पूर्वजः स्यादग्रजोऽग्रिय इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.44 · p. 180
फल्गुनश्च फाल्गुनिको मधौ चैत्रः सचैत्रिकः ।शुक्रे तु ज्येष्ठा-मूलयोर्ज्येष्ठ-ज्येष्ठौ त्रयोप्यऽमी ॥ ४४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.250 · p. 34
ज्येष्ठे तु शुक्र आषाढे शुचिः श्रावणिके नभाः ।श्रावणोऽथ प्रोष्ठपदभाद्रभाद्रपदास्त्रयः ॥ २५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रो (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1143 · p. 141
ज्यायान् जीर्णश्च वर्षीयान् वृद्धसंघे तु वार्धकम् ।पूर्वजस्त्वग्रियो ज्येष्ठो ज्यायानग्रज इत्यपि ॥ ११४३ ॥
अनुष्टुप्
genderपुंmasc.
तस्य दूतस्तु चण्डः स्यात् सुखावरुणपट्टणे ।वायुर्मर्को विधूतः स्यात् सोमज्येष्ठौ धनाधिपे ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.84 · p. 23
ज्येष्ठामूलीय ईजानो ज्येष्ठश्च खरकोमलः ।ते शुक्रे स्युरथाषाढे शुचिः श्रावणिके नभाः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.6 · p. 26
मानसौकाः परिप्लावी वक्रांगो जालपादकः ।सूतिः संकुचितः शंकुर्ज्येष्ठः प्रास्थितधोरणौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.31 · p. 43
रङ्गं वङ्गं त्रपु क्षोभ्यं मृद्वङ्गं नागजीवनम् ।परासं सिंहलं ज्येष्ठं वक्राख्यं मुखभूषणम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.202 · p. 61
पालं तु पिंगलं वज्रं श्रीबेरं दीर्घरोमकम् ।चामरं चमकं ज्येष्ठं बर्हिष्ठं जटिलं जटा ॥ २०२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.145 · p. 135
पयो दुग्धं च पीथं च स्तन्यं पुंसवनं सरम् ।गव्यं ज्येष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.31 · p. 175
सहजः स्वसरो भ्राता कनिष्ठोऽवरजोऽनुजः ।पूर्वजस्त्वग्रजो ज्येष्ठः पितृव्याः सहजाः पितुः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.41
त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास ठार्धश्लोकः Dharaṇikośa 11.2.3 · p. 41
ज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः ।कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.57 · p. 186
कुष्ठं तु रोगेऽपि सुगन्धभेदेगोष्ठी ********* ।संलापसंसत्सु चरमे तु गोस्थले-ऽथाधमेऽप्यसारे च दुष्टः स्यात् ।प्रष्ठः पुरोगामिनि च प्रशस्येचण्डालिकासंज्ञक औषधे स्त्री ।ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्येमासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.488 · p. 84
समीरणे हुतवहे भेद्यलिङ्गं तु सत्वरे ।ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ ४८८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.489 · p. 84
त्रपुह्रीबेरयोस्तु क्ली स्याल्लोहे नीलिकाह्वये ।अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.194 · p. 186
ज्येष्ठो मासेऽग्रजे पूज्ये ज्येष्ठा स्थाद्गृहगोधिका ।नक्षत्रेऽप्यौषधीभेदे जनो लोके पृथग्जने ॥ १९४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.107 · p. 127
दात्यूहे कालकण्ठः स्याच्छिवखञ्जनयोरपि ।ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ॥ १०७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.7 · p. 228
ज्यायान् ज्येष्ठश्चाग्रजन्मन्यतिवृद्धातिशस्तयोः ।जात्यःश्रेष्ठे कुलीने च डिंभो बालिशबालयोः ॥ ७ ॥
अनुष्टुप्
meanings

ज्येष्ठ as a meaning in nānārtha verses