कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तूष्णींशील

tūṣṇīṃśīlaवि · adj.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.118 · p. 21
तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.70
तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.77 · p. 222
एडमूकोऽनेडमूको वक्तुं श्रोतुमसज्जिते ।तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥ ७७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.14 · p. 2
एडमूकानेडमूकौ वक्तुं श्रोतुमशिक्षिते ।तूष्णींशीलस्तु तूष्णी[159a]कोऽथास्वरः परुषस्वरः ॥ १४ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.100 · p. 113
दुष्टानिष्टमतिः सङ्कसुकस्त्वस्थिर उच्यते ।मौनशीले तु तूष्णीकस्तूष्णींशीलोऽपि कथ्यते ॥ १०० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.663 · p. 88
तूष्णींशीलश्च तूष्णीकः मूकार्थे कथ्यते बुधैः ॥ ६६३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.52 · p. 162
आमुष्यायणनिर्णीतौ प्रसिद्धपितृकोऽपि च ।निरुत्तरे तु तुष्णीकः तुष्णींशीलोऽपि कथ्यते ॥
अनुष्टुप्
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1630 · p. 196
तूष्णींशीलस्तु तूष्णीको नानारूपः पृथग्विधः ।स्वच्छन्दोऽपावृतः स्वैरी स्वतन्त्रो निरवग्रहः ॥ १६३० ॥
अनुष्टुप्
genderविadj.