दुष्ट
duṣṭaपुं · masc.In 8 kośas: 5 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.
दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च ।पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम् ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
वैर्यारातिरमित्रोऽरिर्द्विट् सपत्नो द्विषद्रिपुः ।भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्वेषी खलोऽहितः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
दुष्टानिष्टमतिः सङ्कसुकस्त्वस्थिर उच्यते ।मौनशीले तु तूष्णीकस्तूष्णींशीलोऽपि कथ्यते ॥ १०० ॥
अनुष्टुप्
genderविadj.
दुर्जने हिंसकः पापः क्रूरो व्यंसकपोलिकौ ।नृशंसः पिशुनो दुष्टो धूर्तो वञ्चक इत्यपि ॥ ६६६ ॥
अनुष्टुप्
genderविadj.
उद्वान्तो निर्मदो मत्तः प्रभिन्नो गर्जितो गजः ।व्यालो दुष्टोऽथ गम्भीरवेदी शिक्षापराङ्मुखः ॥ ७१५ ॥
अनुष्टुप्
genderपुंmasc.
दुष्ट as a meaning in nānārtha verses
- धरणिकोश व्याधगाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः । मुग्धः स्यात्सुन्दरे मूढे स्निग्धे वत्सलचिक्कणे ॥ Dharaṇikośa 18.1.3
- धरणिकोश वक्रइन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु । वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥ Dharaṇikośa 26.2.14
- कोषकल्पतरु दहनवसन्तवृक्षे रतिनायके च धत्तूरवृक्षे मदनस्तुरुष्के । भल्लातके स्याद्दहनो हुताशे दुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥ Koṣakalpataru 6.21.15
- परमानन्दीयनाममाला चक्रशस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः । दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥ Paramānandīyanāmamālā 5.11.177
- परमानन्दीयनाममाला भ्रामकभूतीकं तु यवान्यां स्वाद्भूतृणे कटुलौषधे । भ्रामकः फेरवे दुष्टे दृषद्भेदे रवेर्भ्रमे ॥ ३३५ ॥ Paramānandīyanāmamālā 5.20.335
- शब्दरत्नावली अमतिअमतिः पुंसि काले च दुष्टे हिमकरेऽपि च । स्यादर्हन् क्षपणके बुद्धे मान्ये शिष्टे पुमानयम् ॥ Śabdaratnāvalī 7.16.77
- शब्दरत्नावली व्याललीला स्त्री रसनालक्ष्म्योर्लोलञ्चलसतृष्णयोः । व्यालो दुष्टे गजे सर्पे खलश्वापदयोरपि ॥ Śabdaratnāvalī 7.28.34
- शब्दरत्नावली रेफरेफाः क्रूरेऽधमे दुष्टे कृपणे च पुमानयम् । रोदश्च रोदसी चोभे द्यावाभूम्योर्दिविक्षितौ ॥ Śabdaratnāvalī 7.32.30
- शब्दरत्नावली अव्यथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36