दन्तबीज
dantabījaपुं · masc.In 6 kośas: 5 synonym verses, 1 as a meaning of another word.
मधुबीजो रक्तबीजो दालिमः फलखाडवः ।करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
रक्तबीजो रक्तपुष्पः कुट्टिमः फलखाडवः ।शुकप्रियो दन्तबीजो हिण्डीरो दालिमी त्रिषु ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
दाडिमे कुट्टिमः कीरवल्लभः फलषाण्डवः ।करको दन्तबीजश्चाथोड्रपुष्पे जपा जवा ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
दन्तबीजः कुचफलो दाडिमः फलशाडवः ।अक्षोटकः फलस्नेहः कन्दरालो गुडाशयः ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
शुक्लकारन्तु कृसरं वृष्यकन्दं कशेरु च ।शृंगाटकस्तु गरुलो दन्तबीजस्त्रिकण्टकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
दन्तबीज as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप शृङ्गाटपुल्लिँङ्गं तु विजानीयात् स्तम्बे सलिलसम्भवे । दन्तबीज इति ख्याते शृङ्गारी तु पुमानयम् ॥ १८५३ ॥ Nānārthārṇavasaṃkṣepa 4.1853