जवा
javāस्त्री · fem.In 11 kośas: 10 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.
genderस्त्रीfem.
जपा जवा कुरुवकौ प्रोक्तौ कुरवकावपि ।प्रतिहासः प्रतीहासो वसूको वसुको वसुः ॥ ११८ ॥
अनुष्टुप्
genderस्त्रीfem.
मध्यंदिनस्त्रिसन्धिस्तु संधीवेली सदाफलः ।स सन्धिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥ २७३ ॥
अनुष्टुप्
genderस्त्रीfem.
ओड्रका प्रातिका सूर्यप्रिया चापि यवा पुनः ।अस्यास्तु कुसुमे वज्रपुष्पं स्याद्भमरी त्वपि ॥ २७४ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
द्वयोः सहचरी चाथ नील आर्त्तगलो भवेत् ।जपा जवा ओड्रपुष्पं वज्रपुष्पं तिलस्य तत् ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
दाडिमे कुट्टिमः कीरवल्लभः फलषाण्डवः ।करको दन्तबीजश्चाथोड्रपुष्पे जपा जवा ॥ १४९ ॥
अनुष्टुप्
genderस्त्रीfem.
औड्रपुष्पं जपापुष्पमोड्रपुष्पं जपा जवा ।
अनुष्टुप्
genderस्त्रीfem.
ओड्रपुष्पं रक्तपित्तं जवापुष्पं जवा यवा ।स्यात् पुष्पं वज्रपुष्पञ्च तिलपुष्पे निगद्यते ॥
अनुष्टुप्
genderस्त्रीfem.
वेणी जयन्ती भूरुण्डीशिवमल्लीसहा जवा ।गम्भारी बदरी जातीपाटला नवमालिका ॥
अनुष्टुप्
genderस्त्रीfem.
माधवीलता माधव्यथोड्रपुष्पे जपा जवा ।मालत्यां तु जातिर्जाती सुमनाऽबन्त-सन्तगा ॥ १७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable); pāda 3, syllable 5 जा (wrong syllable)
genderस्त्रीfem.
धूर्ते नरे स्यादपि वृक्षभेदेजवो रये वेगिनि वाच्यलिङ्गः ।स्त्री त्वोड्रपुष्पेऽथ लवो विलासेलेशे छिदायामपि रामपुत्रे ॥ ९० ॥
उपजातिः
meaningsओड्रपुष्प
शब्दस्याथ जवः पुंसि वेगे त्रिषु तु तद्वति ।जवा तु स्त्री रक्तपुष्पस्तम्बभेदे जपाह्वये ॥ ४५३ ॥
अनुष्टुप्
चार्वी धनदभार्यायां स्त्री ज्योत्स्नाबुद्धिदीप्तिषु ।जवो वेगे वेगवति स्यादोड्रकुसुमे जवा ॥
अनुष्टुप्
meaningsओड्रकुसुम
जवा as a meaning in nānārtha verses
- शिवकोष नादेयीनादेयी नीरवानीरे भूजम्बूनागरङ्गयोः । जवायामम्बुपिपल्यां जयन्त्या सैन्धवेऽद्वयोः ॥ ३५५ ॥ Śivakoṣa 21.2.355
- शब्दरत्नावली पिण्डपुष्पपिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले । बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः ॥ मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः । विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥ Śabdaratnāvalī 7.21.22
- त्रिकाण्डशेष पिण्डपुष्पपादुकायां स्त्रियां वृक्षे पादपीठे च पादपः । पिण्डपुष्पौ जवाशोकौ पुष्यं कुसुम आर्त्तवे ॥ २७७ ॥ Trikāṇḍaśeṣa 3.3.277