कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कशेरु

kaśeruक्ली · neut.

In 7 kośas: 8 synonym verses, 1 as a nānārtha head word, 7 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 180
स्थलकन्दो ग्रामकन्दो महाकन्दस्तु माणकम् ।चिञ्चोटकं कशेर्वस्त्री वृषपर्वाथ तन्महत् ॥ ५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.63 · p. 114
अगुरुस्तिमिरं जठरंकर्पु(र्पू)रकृच्छ्रे कशेरुहेमादौ ।चन्द्रो वर्ध्रः सीसेसंदेहे द्वापरं कुकुन्दरवत् ॥ ६३ ॥
metre not recognised
genderपुंक्लीm. n.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderक्लीneut.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.99 · p. 223
आर्तवं पौतवं साध्वसं साहसकशेरुणी ।शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.262 · p. 100
अस्थि कुल्यं कीकसञ्च कङ्कालो देहकीकसे ।कशेरुका कशेरुः स्त्री पृष्ठास्थनि भवेद्द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.47 · p. 157
शुक्लकारन्तु कृसरं वृष्यकन्दं कशेरु च ।शृंगाटकस्तु गरुलो दन्तबीजस्त्रिकण्टकः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.115 · p. 182
पार्श्वस्य वंक्रिः पर्श्वस्त्री पृष्ठस्यास्थि कशेर्वना ।कर्परो ना करोटिः स्त्री कपालोऽस्त्री शिरोऽस्थनि ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.425 · p. 83
कशेरुः स्त्रीनपोः पृष्ठस्यास्थनि क्लीबकं पुनः ।स्तम्बप्रभेदे सजलपङ्करूढे कशेर्वथ ॥ ४२५ ॥
अनुष्टुप्

कशेरु as a meaning in nānārtha verses