कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nighaṇṭuśeṣa

निघण्टुशेष Nighaṇṭuśeṣa

401 verses · 3,129 words tagged · 646 marked doubtful (dashed)

वृक्षकाण्डः (2/2)

क्षुद्राम्रे स्यात्कृमितरुर्लाक्षावृक्षो जतुद्रुमः ।सुकोशको घनस्कन्धः कोशाम्बुश्च सुरक्तकः ॥ १२३ ॥
1.123 · p. 68
अनुष्टुप्
टङ्को नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः ।जम्ब्वां महाफला राजजम्बूर्नीलाम्बुजच्छदा ॥ १२४ ॥
1.124 · p. 68
अनुष्टुप्
सुगन्धिपत्रा सान्या तु काकजम्बूः कुजम्बुका ।उशीरपत्रा नादेयी वैदेशी काकवल्लभा ॥ १२५ ॥
1.125 · p. 69
अनुष्टुप्
मदने श्वसनो राठः शल्यको विषनाशनः ।करहाटो मरुबकः पिण्डी पिण्डीतकः फलः ॥ १२६ ॥
1.126 · p. 70
अनुष्टुप्
सूर्यपुत्रः कर्कटको विषगन्धो विषोदरः ।मत्स्यान्तकफलो राजपुत्रकः कफवर्धनः ॥ १२७ ॥
1.127 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कुब्जके कामुकः श्यामसारः फुल्लो निमिद्रुमः ।निचुले तु नदीकान्तोऽम्बुजो हिज्जल इज्जलः ॥ १२८ ॥
1.128 · p. 71
अनुष्टुप्
गन्धपुष्पो गुच्छफलोऽम्बुजातः कच्छपाल्यपि ।वेतसे विदुलः शीतो नदीकूलप्रियो रथः ॥ १२९ ॥
1.129 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गु (wrong syllable)
अभ्रपुष्पः पत्रमाली वाणी वञ्जुलोऽपि च ।स्यादम्बुवेतसे भीरुर्नादेयी बालभीरुकः ॥ १३० ॥
1.130 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (syllables merged)
विदुलो मञ्जरी नम्रः परिव्याधो निकुञ्जकः ।वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः ॥ १३१ ॥
1.131 · p. 72
अनुष्टुप्
श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः ।शीधुवृक्षः श्वेतवृक्षः सेतुरश्मरिकारिपुः ॥ १३२ ॥
1.132 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
अङ्कोटे स्यात्पीतसारो दीर्धकीलो निकोचकः ।अङ्कोल्लकस्ताम्रफलो रेचको गन्धपुष्पकः ॥ १३३ ॥
1.133 · p. 74
अनुष्टुप्
भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः ।भौतिको भूतरुड्भूरिस्नेहः शोफकरो धनुः ॥ १३४ ॥
1.134 · p. 74
अनुष्टुप्
अभिमुखी बहुपत्रो भल्ली सूर्याग्निसंज्ञकः ।अरिष्टे स्यात्कृष्णबीजो रक्षाबीजोऽर्थसाधनः ॥ १३५ ॥
1.135 · p. 74
metre not recognisednearly अनुष्टुप्
शुभनामा शीतफेनः फेनिलो गर्भपातनः ।निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः ॥ १३६ ॥
1.136 · p. 75
अनुष्टुप्
पिचुमन्दो यवनेष्टः शक्रेष्टः शुकमालकः ।अरिष्टो हिङ्गुनिर्यासो नेता नियमनोऽपि च ॥ १३७ ॥
1.137 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
महानिम्बे निम्बरकः कार्मुको विषमुष्टिकः ।रम्यकः क्षीबको वृक्काऽक्षिपीलुः केशमुष्टिकः ॥ १३८ ॥
1.138 · p. 77
अनुष्टुप्
पीलौ स्रंसी सहस्राङ्गी शीतः करभवल्लभः ।गुल्मारिर्गुडफलश्च तस्मिंस्तु गिरिसंभवे ॥ १३९ ॥
1.139 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
अक्षोटः कर्परालश्च फलस्नेहो गुहाश्रयः ।पारावाते तु साराम्लः कृतमालः परावतः ॥ १४० ॥
1.140 · p. 78
अनुष्टुप्
आरेवतः सारफलो महापारावतो(?ते) महान् ।कपोताण्डतुल्यफलो रुद्राक्षे तु महामुनिः ॥ १४१ ॥
1.141 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण्ड (wrong syllable)
स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः ।षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शङ्करः ॥ १४२ ॥
1.142 · p. 79
metre not recognised
माधवस्त्वेकवदनो विजयी शस्त्रधारणः ।पुत्रञ्जीवे त्वक्षफलः कुमारजीवनामकः ॥ १४३ ॥
1.143 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
करञ्जे स्यान्नक्तमालः पूतिकश्चिरिबिल्वकः ।करजः श्लीपदारिश्च प्रकीर्णः कलिनाशकः ॥ १४४ ॥
1.144 · p. 79
अनुष्टुप्
पूतिकरञ्जो गौरश्च सुमना घृतपर्णकः ।भेदास्त्वस्य त्रयस्तत्र षड्ग्रन्थे हस्तिवारणी ॥ १४५ ॥
1.145 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ति (wrong syllable)
मर्कट्यां तु कृतमाल उदकीर्यः प्रकीर्यकः ।अङ्गारवल्ल्यां शार्ङ्गस्था कासघ्नी करतालिका ॥ १४६ ॥
1.146 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
रोहीतके रोहितको रोही दाडिमपुष्पकः ।रोहेडकः सदापुष्पो रोचनः प्लीहरक्तहा ॥ १४७ ॥
1.147 · p. 81
अनुष्टुप्
कट्फले तु सोमवल्कः कैडर्यो गोपभद्रिका ।कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि ॥ १४८ ॥
1.148 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
दाडिमे कुट्टिमः कीरवल्लभः फलषाण्डवः ।करको दन्तबीजश्चाथोड्रपुष्पे जपा जवा ॥ १४९ ॥
1.149 · p. 82
अनुष्टुप्
धातक्यां स्याद्धातुपुष्पी बर्हिपुष्प्यग्निपुष्पिका ।ताम्रपुष्पी सुभिक्षा च कुञ्जरा मद्यपाचनी ॥ १५० ॥
1.150 · p. 82
अनुष्टुप्
सल्लक्यां वल्लकी ह्रादा सुवहा सुस्रवा रसा ।अश्वमूत्री कुन्दरुकी गजभक्षा महेरणा ॥ १५१ ॥
1.151 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका ।एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बरः ॥ १५२ ॥
1.152 · p. 83
अनुष्टुप्
पञ्चाङ्गुलो वर्द्धमान आमण्डो रुचको रुचुः ।व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः ॥ १५३ ॥
1.153 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व्या (wrong syllable)
गन्धर्वहस्तकश्चञ्चुरदण्डो हस्तिपर्णकः ।उरुवूको हस्तिकर्णः शुक्लो रक्तश्च स द्विधा ॥ १५४ ॥
1.154 · p. 84
अनुष्टुप्
किम्पाके तु महाकालः काकर्दः काकमर्दकः ।काम्पिल्यके तु कपिलो रक्ताङ्गो रक्तचूर्णकः ॥ १५५ ॥
1.155 · p. 85
अनुष्टुप्
चन्द्राह्वयो रेचनकः कर्कशाह्वः पटोदकः ।कतके छेदनीयोऽम्बुप्रसादनफलः कतः ॥ १५६ ॥
1.156 · p. 85
अनुष्टुप्
कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ।सा तु वन्या भारद्वाजी भद्रा चन्दनबीजिका ॥ १५७ ॥
1.157 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
वन्दायां स्यात्तटरुहा शेखरी पादरोहिणी ।वृक्षादनी वृक्षरुहा जयन्ती कामपादपः ॥ १५८ ॥
1.158 · p. 87
अनुष्टुप्
स तु क्षीरवृक्षभवो नन्दीमुखो जयद्रुमः ।आटरूषे वृषो वासा वासिका वाजिदन्तकः ॥ १५९ ॥
1.159 · p. 87
अनुष्टुप्metre not read in every line
भिषग्माता सिंहमुखः सिंहिका सिंहपर्णका ।तुम्बरौ सानुजः सौरः सारसो वनजोऽग्निकः ॥ १६० ॥
1.160 · p. 87
अनुष्टुप्
तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ।कदल्यां तु हस्तिविषा रम्भा मोचांशुमत्फला ॥ १६१ ॥
1.161 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्ती (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
काष्ठीलाल वारणबुसा स्यात्कोलीरस इत्यपि ।तगरे कालानुसार्यं वक्राख्यो नहुषो नृपः ॥ १६२ ॥
1.162 · p. 89
metre not recognisednearly अनुष्टुप्
तूले नूदं ब्रह्मचारु ब्रह्मण्यं ब्रह्मकाष्ठकम् ।ब्रह्मनिष्ठं च यूपं च क्रमुकं ब्रह्मचारि च ॥ १६३ ॥
1.163 · p. 90
अनुष्टुप्
मुष्कके मूषको घण्टा झातलो मोक्षमुञ्चकौ ।पाटलिर्गोलिहः क्षारश्रेष्ठः, कृष्णः सितश्च सः ॥ १६४ ॥
1.164 · p. 90
अनुष्टुप्
वंशे यवफलो वेणुः शतपर्वा तृणध्वजः ।मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः ॥ १६५ ॥
1.165 · p. 91
अनुष्टुप्
गाङ्गेरुक्यां विश्वदेवा झषा ह्रस्वगवेधुका ।खञ्जारिष्टा नागबला स्वरगन्धनिकेत्यपि ॥ १६६ ॥
1.166 · p. 91
अनुष्टुप्
दार्वी दारुहरिद्रायां हरिद्रुः कण्टकेरुका ।पीतद्रुमः पीतदारुः पीतनं पीतचन्दनम् ॥ १६७ ॥
1.167 · p. 92
अनुष्टुप्
पर्जनी च कण्टकिनी कालीयकः पचम्पचा ।ग्रन्थिपर्णे श्लिष्टपर्णं विकीर्णं शीर्णरोमकम् ॥ १६८ ॥
1.168 · p. 92
metre not recognised
हरितं कुक्कुरं पुष्पं शुकगुच्छं शुकच्छदम् ।स्थौणेयकं वह्निचूडमारामं ग्रन्थिकाऽपि च ॥ १६९ ॥
1.169 · p. 93
अनुष्टुप्
स्पृक्कायां ब्राह्मणी पङ्कमुष्टिका पिशुना वधूः ।समुद्रान्ता मरुन्माला निर्माल्या देवपुत्रिका ॥ १७० ॥
1.170 · p. 93
अनुष्टुप्
लङ्कोयिका कोटिवर्षा देवी पङ्कजमुष्टिका ।गोमी स्वर्णलतेन्द्राणी मरुन्माला लता लघुः ॥ १७१ ॥
1.171 · p. 93
अनुष्टुप्
विडङ्गे केरलाऽमोघा तण्डुलश्चित्रतण्डुला ।भस्मकः कृमिहा जन्तुघातको मृगगामिनी ॥ १७२ ॥
1.172 · p. 95
अनुष्टुप्
इन्द्राक्षे ऋषभो वीरः श्रीमान् वृषभनामकः ।धूर्वहो गोपतिः शृङ्गी बन्धुरः पृथिवीपतिः ॥ १७३ ॥
1.173 · p. 95
अनुष्टुप्
ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं वसु ।ऋषिसृष्टा सुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी ॥ १७४ ॥
1.174 · p. 96
अनुष्टुप्
पद्मके मालकः पीतरक्तश्चारुश्च सुप्रभः ।सुरभिः शीतवीर्यश्च पाटलः पीतवर्णकः ॥ १७५ ॥
1.175 · p. 96
अनुष्टुप्
कङ्कुष्ठे स्यात् काककुष्ठः पुलकः काकपालकः ।रेचनः शोधनो ह्रासो विडङ्गो रङ्गदायकः ॥ १७६ ॥
1.176 · p. 97
अनुष्टुप्
परूषके स्यादल्पास्थि परुषो नीलपर्णकः ।परापरः परुश्चेरुः परिमण्डल इत्यपि ॥ १७७ ॥
1.177 · p. 97
अनुष्टुप्
खर्जूरे त्वग्रजः पिण्डी निःश्रेणिः स्वादुमस्तकः ।खर्जूरिकायां स्याद्भूमिखर्जूरी काकपर्कटी ॥ १७८ ॥
1.178 · p. 98
अनुष्टुप्
तले तलो लेख्यपत्रस्तृणराजो ध्वजद्रुमः ।नालिकेरे रसफलो लाङ्गली कूर्चकेसरः ॥ १७९ ॥
1.179 · p. 99
अनुष्टुप्
दाक्षिणात्यो दृढफलो नालिकेलो लतातरुः ।पूगे क्रमुकगूवाकखपुरा नीलवल्कलः ॥ १८० ॥
1.180 · p. 99
अनुष्टुप्
घोण्टाऽस्य फलमुद्वेगं चिक्के तत्त्र तु चिक्कणम् ।हिन्ताले तु तृणराजो राजवृक्षो लताङ्कुरः ॥ १८१ ॥
1.181 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलापि च ।केतके तु रजःपुष्पो जम्बूलः क्रकचच्छदः ॥ १८२ ॥
1.182 · p. 101
अनुष्टुप्
खर्जूरतालखर्जूरीतालीहिन्तालकेतकाः ।क्रमुको नालिकेरश्च स्युरेते तृणपादपाः ॥ १८३ ॥
1.183 · p. 101
अनुष्टुप्