कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रक्तबीज

raktabījaपुं · masc.

In 3 kośas: 7 synonym verses.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 21 · p. 2
जम्बुवृक्षे सुवासः स्यात्फले तस्य विसारकम् ।चिञ्चायां रक्तबीजं स्यात् वृक्षाम्लं तत्फलं मतम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.76 · p. 257
मधुबीजो रक्तबीजो दालिमः फलखाडवः ।करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.19 · p. 363
रक्तबीजप्रभृतयो वैप्रचित्ता अथापरे ।निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 143
रक्तबीजो रक्तपुष्पः कुट्टिमः फलखाडवः ।शुकप्रियो दन्तबीजो हिण्डीरो दालिमी त्रिषु ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 153
अरिष्टो रक्तबीजश्च पीतफेनश्च फेनिलः ।रक्ताफलः सुमङ्गल्यो गर्भपात्यर्थसाधनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 182
छत्रा स्यादथ शालेय आसाजः सालकोऽपि सः ।शाली च शालिनी रक्तबीजो मेहनिवारणः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 192
अन्तर्जाश्च बहिर्जाश्च पुलका उभयेऽपि ते ।अणुः कृमिः कीकसः स्यात्काष्ठलेखकरो घुणः ॥कोशकारः कीटतन्तुर्गुणिमध्यः पलोधरः ।उद्दंशो मत्कुणो रक्तबीजः खट्वाकृमिश्च सः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.