All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
पातालकाण्डः · जलाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां पातालकाण्डे सरीसृपाध्यायः
सलिलं मलिनं तोयं मरुलं मेघजं कतम् ।नीरं वारि पयोंऽभोऽर्णो मेघपुष्पं कुलीनसम् ॥ १ ॥
4.2.1 · p. 154
अनुष्टुप्
वार्नपुंसि स्त्रियो भूमन्यापो घनरसः पुमान् ।वल्लूरं तु सितं तोयमतिक्षारं तु किट्टिमम् ॥ ३ ॥
4.2.3 · p. 154
अनुष्टुप्
काचिमं स्यादतिस्वच्छमूतं कलुषमाविलम् ।शीतलं स्वादुनि जले द्राग्भृतं तत्क्षणोद्धृतम् ॥ ४ ॥
4.2.4 · p. 154
अनुष्टुप्
जलाशया जलाधारास्ते त्वगाधजला ह्रदाः ।अखातं देवखाते स्यात्पुष्करिण्यां तु खातकम् ॥ ५ ॥
4.2.5 · p. 154
अनुष्टुप्
आधारस्तु तटाकोऽस्त्री कासारः सरसी सरः ।आवाहो दीर्घिका वापी वेशन्तरत्वल्पपल्वले ॥ ६ ॥
4.2.6 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्धुरब्धः प्रहिः कूपश्चुण्डी चौण्डश्च चूतकः ।अवखातस्तु कीर्णः स्यादुत्कीर्णश्च पुरी स्त्रियाम् ॥ ७ ॥
4.2.7 · p. 154
अनुष्टुप्
विकिरः स्यात्कीर्णजल उद्भिदस्तु जलोद्गमः ।पीनाहस्तु स्त्रियां नेमिः कूपस्य मुखबन्धनम् ॥ ८ ॥
4.2.8 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्की (wrong syllable)
आहावश्च निपानञ्च कूपपार्श्वजलाश्रयः ।प्रदरस्तूदपानोऽस्त्री बद्धांबु स्रोतसो धृतम् ॥ ९ ॥
4.2.9 · p. 154
अनुष्टुप्
रत्नाकरो जलनिधिः समुद्रो मकरालयः ।उदन्वान्वरुणावासः सरितांपतिरप्पतिः ॥ ११ ॥
4.2.11 · p. 154
अनुष्टुप्
सरित्पतिरकूपारः पारावारोऽब्धिरर्णवः ।मितद्रुः संवरः पेरुः स्तंभी स्तंभिर्महोदधिः ॥ १२ ॥
4.2.12 · p. 155
अनुष्टुप्
कूलेऽस्य वेला मर्यादा पूर्णिर्वेलांबुवर्धनम् ।डिंडीरोंऽबुकफः फेनो बुद्बुदस्थासकौ समौ ॥ १३ ॥
4.2.13 · p. 155
अनुष्टुप्
भंगस्तरंगो वीचिः स्त्री तस्मिंस्त्वेव महत्यषण् ।ऊर्मिः कल्लोल उल्लोलो लहर्युत्कलिकेति च ॥ १४ ॥
4.2.14 · p. 155
अनुष्टुप्
पोहित्थं तु प्रवहणं पोथश्चाप्यथ मंगिनी ।नौस्तरिस्तरणी वेटी द्रोणी काष्ठांबुवाहिनी ॥ १५ ॥
4.2.15 · p. 155
अनुष्टुप्
उडुपं तु प्लवो भेल आरोह्योऽसौ तरण्डकः ।केनिपातास्त्वरित्राणि पोलिन्दास्तु पुलिन्दकाः ॥ १६ ॥
4.2.16 · p. 155
अनुष्टुप्
कर्णं पृष्ठस्थितारित्रं नौशिरो मंगमस्त्रियाम् ।नावो दण्डः क्षेपणी स्त्री कूपस्तु गुणवृक्षकः ॥ १७ ॥
4.2.17 · p. 155
अनुष्टुप्
आतरस्तरपण्यं स्यात् सेकपात्रं तु सेचनम् ।सांयात्रिकः पोतवणिक् पोतवाहो नियामकः ॥ १८ ॥
4.2.18 · p. 155
अनुष्टुप्
कर्णधारस्तु निर्यामो नावारोहास्तु नाविकाः ।अगाधमतलस्पर्शमस्थानञ्च गभीरकम् ॥ १९ ॥
4.2.19 · p. 155
अनुष्टुप्
गंभीरञ्चाथ नौतार्यं नाव्यं स्यात्ते नव त्रिषु ।घट्टोऽवतारस्तीर्थोऽस्त्री प्रणाल्यक्ली पयोवहा ॥ २० ॥
4.2.20 · p. 155
अनुष्टुप्
सरणी हरणिर्भ्रूणिर्निर्गमद्वारि तु भ्रमः ।उद्धाटनं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ २१ ॥
4.2.21 · p. 155
अनुष्टुप्
नदी स्रोतस्विनी कुल्या स्रवन्ती निम्नगा सरित् ।हिरण्यवर्णा गिरिजा रोधोवक्त्रा पयस्विनी ॥ २२ ॥
4.2.22 · p. 155
अनुष्टुप्
तरंगिणी शैवलिनी तटिनी ह्रादिनी धुनी ।अब्धा कूलंकषा सिन्धुरापगा वाहिनी वहा ॥ २३ ॥
4.2.23 · p. 155
अनुष्टुप्
त्रिस्रोता जाह्नवी गंगा देवसिन्धुस्त्रिमार्गगा ।भागीरथी विष्णुपदी स्वर्वापी हरशेखरा ॥ २४ ॥
4.2.24 · p. 156
अनुष्टुप्
धर्मद्रवी त्रिमार्गा च पाताले भोगवत्यसौ ।यमस्वसा तु यमुना कालिन्द्यर्कात्मजा यमी ॥ २५ ॥
4.2.25 · p. 156
अनुष्टुप्
नर्मदा स्यात्सोमभवा रेवा मेखलकन्यका ।बाहुदा त्वर्जुनी सैता श्यामांगी सैतवाहिनी ॥ २६ ॥
4.2.26 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सो (wrong syllable)
तापी तु तपिनी शैब्या चन्द्रभासा तु चन्द्रिका ।शतद्रूस्तु शुतुद्री स्याद्विपाशा तु विपाट् स्त्रियाम् ॥ २७ ॥
4.2.27 · p. 156
अनुष्टुप्
गोदावरी तु गोदा स्यात् कावेरी त्वर्धजाह्नवी ।शरावती वेत्रवती तुंगभद्रा सरस्वती ॥ २८ ॥
4.2.28 · p. 156
अनुष्टुप्
ताम्रपर्णी कृष्णवर्णा गोमत्याद्याश्च निम्नगाः ।नदः सरस्वान् भिद्योद्ध्यौ कुल्या कर्षूः कृता नदी ॥ २९ ॥
4.2.29 · p. 156
अनुष्टुप्
वेणिर्धारा प्रवाहौघौ पूरस्तु जलबृंहणम् ।चक्राणि पुटभेदाः स्युरावर्तः पयसां भ्रमः ॥ ३० ॥
4.2.30 · p. 156
अनुष्टुप्
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।सञ्छेद्यं संगमो नद्योः संभेदोऽप्यथ रोधसि ॥ ३१ ॥
4.2.31 · p. 156
अनुष्टुप्
तीरं कूलं प्रपातश्च प्रान्ते कच्छस्तटी त्रयी ।पारावारे परात्रत्ये कूले पात्रं तदन्तरम् ॥ ३२ ॥
4.2.32 · p. 156
अनुष्टुप्
अस्त्री द्वीपोऽन्तरीपं क्ली पुलिनं तज्जलोत्थितम् ।सैकतं सिकताप्रायं सिकता भूम्नि वालुकाः ॥ ३३ ॥
4.2.33 · p. 156
अनुष्टुप्
उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् ।नीलोत्पलन्तु कन्दोष्ठं कन्दोब्जे कर्णभूषणम् ॥ ३४ ॥
4.2.34 · p. 156
अनुष्टुप्
इन्दीवरञ्च नीलाब्जं रक्तपाणिकमुत्पले ।वरोत्पलन्तु कल्हारं सौगन्धिकशिशुप्रिये ॥ ३५ ॥
4.2.35 · p. 156
अनुष्टुप्
कंसोत्पलं विगन्धि स्याद्वनजं वन्यकं जले ।पद्मोऽस्त्री पंकजं कंजं कुविलीनं सरोरुहम् ॥ ३६ ॥
4.2.36 · p. 157
अनुष्टुप्
सहस्रपत्रं नलिनं शतपत्रं कुशेशयम् ।बिसप्रसूनं राजीवं निर्लेपं बिसनाभिजम् ॥ ३८ ॥
4.2.38 · p. 157
अनुष्टुप्
पंकेरुहन्तामरसं कमलं दारदोलके ।रक्ते तु पद्मे कण्डारं बिसखंडमथोंऽबुजम् ॥ ३९ ॥
4.2.39 · p. 157
अनुष्टुप्
चारुनालं कोकनदं श्वेते तु शुचिकर्णिकम् ।पुण्डरीकं महापद्मं पवित्रं पुण्यगन्धिकम् ॥ ४० ॥
4.2.40 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
श्रीपुष्पं स्वर्णराजञ्च कुमुदं गर्दभाह्वयम् ।गन्धसोमं कुमुच्चन्द्रं कैरवञ्चाथ लोहिते ॥ ४१ ॥
4.2.41 · p. 157
अनुष्टुप्
अस्मिन् कोकनदं जारं सुनालं रक्तकुण्डलम् ।करहाटः शिफा कन्दं नाला नालमथ त्रिषु ॥ ४२ ॥
4.2.42 · p. 157
अनुष्टुप्
मृणाली शतपर्व क्ली बिसञ्च नलिनी पुनः ।बिसिनी पद्मिनीत्याद्याः पद्मस्तंबे सरस्यपि ॥ ४३ ॥
4.2.43 · p. 157
अनुष्टुप्
भवेत्पुटकिनी पद्मस्तंबमात्रे प्रकीर्तिता ।कुमुद्वती कुमुदिनी शालूकं कन्दमौल्पलम् ॥ ४४ ॥
4.2.44 · p. 157
अनुष्टुप्
संवर्तिका नवदलं पक्ष्म क्ली कुसुमच्छदः ।किंजल्कः केसरो न स्त्री बीजकोशो वराटकः ॥ ४५ ॥
4.2.45 · p. 157
अनुष्टुप्
कर्णिका कर्णिकं चाथ पद्माक्षं पद्मकर्कटी ।हठः कुंभी वारिपर्णी किंचोलस्त्वंगलोड्यकः ॥ ४६ ॥
4.2.46 · p. 157
अनुष्टुप्
शुक्लकारन्तु कृसरं वृष्यकन्दं कशेरु च ।शृंगाटकस्तु गरुलो दन्तबीजस्त्रिकण्टकः ॥ ४७ ॥
4.2.47 · p. 157
अनुष्टुप्
क्षीरबीजः क्षीरशुक्लस्तर्पणो जलकण्टकः ।चिंचोटिका स्यादवका स्वादुमुस्ता गरोलिका ॥ ४८ ॥
4.2.48 · p. 158
अनुष्टुप्
शैवलो जलशूरः स्यादवका जलनील्यपि ।शैवालञ्चाथ शेवालं चूर्णाभं लोहितं जले ॥ ४९ ॥
4.2.49 · p. 158
अनुष्टुप्