करक
karakaपुं · masc.In 23 kośas: 46 synonym verses, 12 as a nānārtha head word, 8 as a meaning of another word.
घनोपलस्तु करकः काष्ठाशा दिग्धरित्ककुप् ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
वार्धान्यां तु गलन्त्यालूः कर्करी करकोऽथ सः ॥ १०२१ ॥
अनुष्टुप्
genderपुंmasc.
एतस्य कलिका गन्धफली स्यादथ केसरे ।बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
धारासम्पात आसारो वातास्तं वारिसीकरः ।दुर्दिनं मेघतिमिरं करकः स्याद्घनोपलः ।चलन्नवाभ्रमाला च बुधैः कादम्बिनी स्मृता ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कर्करी करकः प्रोक्तो वर्धनी च गलन्तिका ।गर्गरी मन्थनी प्रोक्ता मणिकः स्यादलिञ्जरः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
वृष्टिर्वर्षं वर्षणं च शीकरस्त्वम्भसः कणः ।घनोपलस्तु करकः पुञ्जक्यामटवीति च ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
वर्षोपले निगदिताः करका करकः करः ।रात्रिंचरो रात्रिचरः क्रव्यात् क्रव्याद उच्यते ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वर्षो वृष्टिर्वर्षणं च घनाघनमणिर्मणिः ।वाटिका वटिकश्च स्यात्करकः पुञ्जिकापि च ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
तपस्या तु तपो जप्यं जाप्यं जापो जपः पुनः ।कमण्डलुश्चैत्यमुखः करकः कुण्डिकः स्त्रियाम् ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
चरुः पुमान्स्त्रियां नन्दानन्दिरालूर्गलन्तिका ।वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
मधूत्तरो नालिकेरो बद्धकूर्चफलश्च सः ।ह्रस्वमृद्वोश्चापि फलः करकोऽस्य फलास्थनि ॥ ६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
मधुबीजो रक्तबीजो दालिमः फलखाडवः ।करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
स्यादस्त्रियामथ पुनः करकस्तु युगच्छदः ।स्यान्महापीतकान्तेभ्यः पुष्पोऽपि कनकान्तकः ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
सुरभिर्भ्रमरानन्दो मद्यामोदश्च शारदी ।करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥ २४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अम्भोबीजस्य पर्यायः स्याद्द्वयोः करकः करः ।क्लीबे बीजोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोरकालीककरकपानकानां समन्ततः ।विशेषकस्य चषककण्ठाकाभ्यां ततोऽपि च ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मेघास्थि बीजोऽब्धिकफः करका स्यात्त्रिलिङ्गका ।पृष्वा तु स्यात्स्त्रियां धाराङ्कुर-शीकर-सीकराः ॥वातास्तमप्यथावर्षेऽवग्राहोऽवग्रहमथ ।अन्तर्द्धिर्व्यवधिः पुंसि स्त्र्यन्तर्धा व्यवधाऽपिधा ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ह (wrong syllable)
genderविadj.
लकुचो लिकुचः क्षुद्रपनसो ग्रन्थिमत्फलः ।पीतनो सौ**साक्षौ गर्भस्त्वेतस्य कण्टका ।लिङ्गत्रये दाडिमः स्यात्सारश्च करकोऽस्त्रियाम् ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सौ (syllables merged)
genderपुंक्लीm. n.
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
हरीतकविभीतकामलकवच्च भल्लातका-ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले ।स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका-र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥
पृथ्वीmetre not read in every line
genderपुंस्त्रीक्लीm. f. n.
दाडिमे कुट्टिमः कीरवल्लभः फलषाण्डवः ।करको दन्तबीजश्चाथोड्रपुष्पे जपा जवा ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रचापे मणिधनुश्चित्रं वल्मिकसंभवम् ।करको वर्षपाषाणो दन्तभेदी विमुक्तकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
छन्ने तु करको वृक्षो मल्लिकाकुसुमप्रियः ।स्त्रीप्रियो वञ्चुलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
नीहारश्च तुषारश्च हिमं च मिहिका स्त्रियाम् ।घनोपलस्तु करको हिमानी तु हिमोच्चयः ॥ ३५० ॥
अनुष्टुप्
genderपुंmasc.
कङ्केल्लिस्तु तथाशोकः केसरो बकुलः समौ ।दाडिमे करकः पुंसि ------------------------ ॥ ५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्वतस्त्रिलिङ्गः करकोऽब्दवाचकःप्राणेषु जीवः शललः शले तु ।केदारवाची वलजोऽनुतर्षेस्वतस्त्रिलिङ्गः सरकोऽपि दृष्टः ॥ १७४ ॥
upajati mixed
genderविadj.
वसुधः करकः कीनः कीरः कन्दोऽनकः शुभः ।गन्धर्वनगरं देवः संवर्तो रसदोऽभ्रजित् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
धारासारो धोरणिश्च सीकरोऽम्बुकणः स्मृतः ।घनोपलस्तु पार्जन्यः करका करकोऽपि च ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
रम्भा तु कदली मोचा समौ करकदाडिमौ ।गन्धसारो मलयजः श्रीखण्डश्चन्दनद्रुमः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
करकस्तोयडीम्भो वै बीजोदकमिरावरम् ।मेघास्थिपुञ्जिका चैव मेघकफ इराम्बरम् ॥ १७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 घ (wrong syllable)
genderपुंmasc.
पालुरालूर्गलन्ती च कर्करी करकः पुनः ।वार्धानी चेति प्रोक्तं वै जलस्य लघुपात्रकम् ॥ १७५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderपुंmasc.
करकः करका चेति सप्तवृष्टिशिलाह्वये ।मेघच्छन्नदिनं यत्तु दुदिनं वार्दलञ्च तत् ।आच्छादनञ्च च्छदनमन्तर्धानं पिधानवत् ॥
अनुष्टुप्
genderपुंmasc.
स्वाद्वम्लः करकश्चापि पिण्डीरफल इत्यपि ।तगरः सितपुष्पः स्यात् कालपर्णः कटुच्छदः ॥
अनुष्टुप्
genderपुंmasc.
काली वृष्ट्यां वर्षणं स्याद्वर्षं तद्विघ्नके त्ववात् ।ग्रह-ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 प (wrong syllable)
genderपुंस्त्रीक्लीm. f. n.
करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः ।कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
विशालत्वक् कटुक्षीरः करको दाडिमो द्वयोः ।फलपूरो बीजपूरो रुचको मातुलुङ्गकः ॥ ४९३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
समौ करङ्ककरकौ विधानं स्यादुदञ्चनम् ।शालाजिरो वर्धमानः शरावं पुंनपुंसकम् ॥ ८९९ ॥
अनुष्टुप्
genderपुंmasc.
करकं गोमयच्छत्रे गोग्रन्थिः शुष्कगोमयम् ।करीषश्छगणो हम्भा रेभणं च गवां ध्वनौ ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
वर्षोऽस्त्री वर्षणं वृष्टिः शीकरोऽस्त्र्यंभसः कणः ।घनोपलस्तु करकः पुञ्जिका मटचीति च ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
आम्रे कामाङ्गमाकन्दौ चूतो वेलोंऽङ्गनाप्रियः ।करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोत्पले कर्णिकारः परिव्याधोऽथ भण्डिले ।कपीतनः शिरीपश्च करके दाडिमी त्रयी ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
ऋचीषं पिष्टपचनं मल्लो मल्ली च कोशिका ।वर्धनी तु गलन्त्यालुः कर्करी करकोऽपि च ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
धरण्यां करकोत्पाटावुद्भिज्जे पाण्डुवर्णकः ।मारिर्मसूरी रुग्भेदाः शूलाद्या विद्रधिर्न षण् ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
करको वृष्टिपाषाणे करकश्च कमण्डलौ ।दाडिमे च करङ्के च करेऽपि करकः स्मृतः ॥
अनुष्टुप्
करङ्के तु पुमानाम्रे दाडिमेऽप्येतयोस्तु नप् ।फले स्त्रीपुंसयोस्तु स्यात् करका जलदोपले ॥ ३१६ ॥
अनुष्टुप्
कृष्णत्वे च हिमान्यां च गौरीकाल्योश्च कालिका ।वर्षोपले स्त्री करका करङ्के करकोऽस्त्रियाम् ॥ ७ ॥
अनुष्टुप्
meaningsकरङ्क
करक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कुसुम्भस्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥ Amarakośa 3.3.136
- कोषकल्पतरु दाडिमएलायां करके च दाडिम इति त्रय्यामथो भेषजे गोधूमो नरि नागरङ्ग उदितो व्रीहेर्विभेदेऽपि च । व्याया[34a]मो नरि पौरुषे श्रमविधौ स्याद्दुर्गसंचारके सर्पे पाशिनि कुक्कुरे नरि विलोमः स्यात्प्रतीपेऽन्यवत् ॥ ९१ ॥ Koṣakalpataru 6.25.91
- कोषकल्पतरु कमण्डलुतथा कलालापगताथ न स्त्री कमण्डलुः स्यात्करकेऽथ पुंसि । प्लक्षेऽक्षमाला तु किलाक्षसूत्रे वसिष्ठपत्न्यामपि संप्रदिष्टा ॥ ८० ॥ Koṣakalpataru 6.28.80
- नानार्थार्णवसंक्षेप कर्करीस्त्रियां स्यात् करकेऽथ क्ली कङ्कणं करभूषणे । तथा भूषणमात्रे च सूत्रे त्वजय उक्तवान् ॥ ३२६ ॥ Nānārthārṇavasaṃkṣepa 4.326
- शिवकोष दाडिमगोधूमः स्यान्नागरङ्गशूकधान्यप्रभेदयोः । दाडिमस्तु त्रिलिङ्गं स्यादेलायां करकेऽपि च ॥ ३३६ ॥ Śivakoṣa 20.2.336
- शब्दरत्नावली करऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली पादचत्वरस्यात्पादचत्वरश्छागे सैकते पिप्पलेऽपि च । करके दुष्टशीले च परदोषैकवक्तरि ॥ Śabdaratnāvalī 7.27.149
- शब्दरत्नावली वायुफलरतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च । भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥ तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च । बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च ॥ सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे । सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि ॥ सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि । हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः ॥ हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि । हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥ Śabdaratnāvalī 7.28.113