कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दविष्ठ

daviṣṭhaवि · adj.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1453 · p. 55
नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः ।दूरेऽतिदूरे दविष्ठं दवीयोऽथ सनातनम् ॥ १४५२ ॥शाश्वतानश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् ।स्थास्नु स्थेष्ठं तत्कूटस्थं कालव्याप्येकरूपतः ॥ १४५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.118
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.9 · p. 23
अनन्तरं स्यादपटान्तरं चसंसक्तमत्रा[173a]व्यवधानलग्ने ।स्याद्विप्रकृष्टं च परं च दूरंदवीय उक्तं च दविष्ठतुल्यम् ॥ ९ ॥
उपजातिःmetre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.340 · p. 94
अत्यन्तनिकटे नेदिष्ठं दूरे दवीयो मतम् ।दविष्टं त्वतिदूरे स्याच्छाश्वतं ध्रुवमित्यपि ॥ ३४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वी (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2640 · p. 426
अतिदूरे दविष्ठं स्याद् दवीयोऽपि प्रयुज्यते ॥ २६४० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.23 · p. 165
सुदूरन्तु दविष्टं स्याद् दवीयश्चापि तद्भवेत् ।वर्तुले निस्तलं वृत्तं मण्डलायितमित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.50 · p. 253
सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् ।अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderविadj.