नित्य
nityaवि · adj.In 16 kośas: 24 synonym verses, 3 as a nānārtha head word, 30 as a meaning of another word.
नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः ।दूरेऽतिदूरे दविष्ठं दवीयोऽथ सनातनम् ॥ १४५२ ॥शाश्वतानश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् ।स्थास्नु स्थेष्ठं तत्कूटस्थं कालव्याप्येकरूपतः ॥ १४५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
genderविadj.
अनारतं त्वविरतं संसक्तं सततानिशे ।नित्यानवरताजस्रासक्ताश्रान्तानि संततम् ॥ १४७१ ॥
अनुष्टुप्
genderविadj.
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
genderविadj.
सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् ।धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
अनुष्टुप्
genderविadj.
सततं सन्ततमनिशं नित्यमजस्रं च शश्वदश्रान्तम् ।अविरतमनवरतं स्यादेकार्थमनारतमसक्तम् ॥ ६९८ ॥
आर्या
genderविadj.
अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः ।सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥ १३१ ॥
अनुष्टुप्
genderविadj.
सततेऽनारताश्रान्तसंतताविरतानिशम् ।नित्यानवरताजस्रमव्ययं स्याद्भरः पुमान् ॥ १७ ॥
अनुष्टुप्
genderअindecl.
पुलाकश्चपलं क्षिप्रं झम्पासंपातपाटवम् ।अजस्रं नित्यमनिशमश्रान्तं सततं तथा ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
तिरोहितं गूहितं च रुद्धमाच्छादितं च तत् ।अवकी[लित?]मुत्तालमुच्चण्डमवलम्बितम् ।अनश्वरं तु शाश्वतं सनातनं सदातनंध्रुवं च नित्यमक्षयं स्थिरं त्वकम्पमुच्यते ॥
अनुष्टुप्two metres in one verse
genderविadj.
वैमानिका यज्ञभुजो जरामरणवर्जिताः ।अनिद्राः खचरा नित्याः कनकाचलवासिनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नित्यं त्वनश्वर स्थेयः स्थिरे स्थेष्ठमतिस्थिरम् ।स्थास्नु[52] कूटस्थमित्येवं सर्वकालैकरूपगम् ॥ ३४१ ॥
अनुष्टुप्
genderविadj.
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
भगं नित्यं च नीरूपं मूलस्थानं च शाश्वतम् ।ब्राह्मीरन्ध्रं च संपूर्णं वियद्विः खगमङ्गणम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
शाश्वते नित्य आधारसदातनसनातनाः ।चिरन्तनो ध्रुवः पूर्णनिरन्तनपरन्तनाः ॥ ६९६ ॥
अनुष्टुप्
genderविadj.
विप्रकृष्टं परं दूरं ध्रुवं नित्यं च शाश्वतम् ।चञ्चलं चपलं लोलं तरलं चटुलं चलम् ॥ १०३ ॥
अनुष्टुप्
genderविadj.
सनातनं ध्रुवं नित्यं शाश्वतिकञ्च शाश्वतम् ।अनश्वरं प्रसिद्धं वै सप्तमन्तु सदातनम् ॥ २६४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
genderविadj.
genderविadj.
सततं सन्तताश्रान्तं नित्यानवरतानिशम् ।अनारतञ्चाविरतमजस्रं नित्यमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
सदातनः सनातनो ध्रुवश्च नित्यशाश्वतौ ।वशीकृतोऽनुकूलितः सुखाकृतः प्रियाकृतः ॥ १६८१ ॥
पञ्चचामरम्
genderविadj.
नूत्ने त्वभिनवो नव्यो नवीनो नूतनो नवः ।शाश्वते त्वमृतो नित्यः सनातनसदातनौ ॥ ८८ ॥
अनुष्टुप्
genderविadj.
नित्यानवरताजस्रसतताश्रांतसंतताः ।अनारतं चाविरतमसक्तं चानिशं नपुम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
नित्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् निजअब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ Amarakośa 3.3.32
- धरणिकोश निजआजिः समावनौ युद्धे प्रजा संता[19]नलोकयोः । रुजा भङ्गे च रोगे च निजमात्मीयनित्ययोः ॥ Dharaṇikośa 7.1.1
- धरणिकोश ध्रुवध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ Dharaṇikośa 22.3.2
- धरणिकोश प्रभुभूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः । प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥ Dharaṇikośa 23.1.1
- कोषकल्पतरु शश्वत्पुनःसहार्थयोर्नित्ये शश्वद्भूम्नि तथा क्वचित् । प्रश्नेऽपि कूपत् साक्षात्तु भवेत्प्रत्यक्षतुल्ययोः ॥ ८८ ॥ Koṣakalpataru 5.1.88
- कोषकल्पतरु अवश्यम्कथं प्रकारोद्भवसंभ्रमार्थे संभावनानिश्चययोः किमु स्यात् । भृशं प्रकर्षे पुनर[245b]र्थके च नित्ये त्ववश्यं च विनिश्चयेऽपि ॥ ११ ॥ Koṣakalpataru 5.1.11
- कोषकल्पतरु निजछागे विधाविन्दुमतीधवेऽजो व्रजोऽध्वगोष्ठप्रकरेषु न स्त्री । निजं तु नित्ये त्रिषु तु स्वकीये ध्वजोऽङ्ककेत्वोरपि मेहनेऽस्त्री ॥ २१ ॥ Koṣakalpataru 6.7.21
- कोषकल्पतरु सिद्धना देवयोनौ तपसा समृद्धे नित्ये प्रसिद्धे फलिते च सिद्धः । पुंस्यातपेऽथ त्रिषु दीप्त इद्धं समृद्धसंपन्नगतं च ऋद्धम् ॥ ५४ ॥ Koṣakalpataru 6.20.54
- कोषकल्पतरु विभुकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
- नानार्थार्णवसंक्षेप अक्षचक्रधारककाष्ठेऽथ क्ली सौवर्चल इन्द्रिये । अजयस्त्वाह नित्येऽपि तत्र स्याद्भेद्यलिङ्गकम् ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.5.19
- नानार्थार्णवसंक्षेप ध्रुवधीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः । औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.649
- नानार्थार्णवसंक्षेप विभुअजयस्त्वाह मूल्येऽपि हठात्कारितकारिणि । विभुस्तु ना कुबेरेऽर्के त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1255
- नानार्थार्णवसंक्षेप प्रमाणप्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 3.3.45
- नानार्थार्णवसंक्षेप अमृतत्रिस्त्वप्र(ती?मी)त एकान्तसुन्दरे स्वादुनित्ययोः । हृद्ये चाथाक्षरः पुंसि विरिञ्चे विष्णुखड्गयोः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 4.5
- परमानन्दीयनाममाला निजप्रापणे च नये नीतिर्निजो नित्यस्वकीययोः ॥ २५९ ॥ Paramānandīyanāmamālā 5.18.259
- शब्दरत्नावली निजध्वजः स्याच्शौण्डिके पुंसि पताकायान्तु न स्त्रियाम् । खटवाङ्गमेद्रचिह्नेषु स्याद्गर्वदर्पयोरपि ॥ निजः स्वीये च नित्ये च वाच्यलिङ्गन्तु कुत्रचित् । न्युब्जो दर्भस्रुचि क्लीबं कर्मरङ्गफलेऽपि च ॥ Śabdaratnāvalī 7.8.11
- शब्दरत्नावली आभीक्ष्णआभीक्ष्णमत्यर्थे नित्ये च तद्युक्ते क्रियायां त्रिषु । इन्द्राणीसिन्धुवारेस्याच्शच्याञ्च करणे स्त्रियाम् ॥ Śabdaratnāvalī 7.15.25
- शब्दरत्नावली प्रमाणप्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे । प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥ Śabdaratnāvalī 7.15.46
- शब्दरत्नावली सिद्धनित्ये त्रिषु च निष्पन्ने व्यवहारेऽपि कुत्रचित् । स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि च न द्वयोः ॥ Śabdaratnāvalī 7.19.19
- शब्दरत्नावली सनातनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली ध्रुवतर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु । स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि ॥ गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः । नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् ॥ नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने । पक्वं विनाशाभिमुखे तथा परिणते त्रिषु ॥ प्लवो ना विहगे भेके निषादे भेलके कपौ । शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥ Śabdaratnāvalī 7.29.13
- शब्दरत्नावली निन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
- शब्दरत्नावली अवश्यम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर अमृतअयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः । अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥ Śabdaratnākara 4.1.2037
- त्रिकाण्डशेष अभीक्ष्णअभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति । स्त्री बन्धे सिन्धुवारे च चक्षुर्दर्शनमीक्षणम् ॥ १२१ ॥ Trikāṇḍaśeṣa 3.3.121
- त्रिकाण्डशेष सिद्धश्राद्धं निवापे श्रद्धालौ त्रिषु साधुर्धनिन्यपि । स्कन्धः सङ्घेऽपि सिद्धस्तु नित्यनिष्पन्दनाकिषु ॥ २२४ ॥ Trikāṇḍaśeṣa 3.3.224
- त्रिकाण्डशेष विभुभूर्भूमौ स्थानमात्रे च भमृक्षे भृगुजे पुमान् । रम्भा कदल्यप्सरसोर्विभुः स्यात्स्वामिनित्ययोः ॥ २८९ ॥ Trikāṇḍaśeṣa 3.3.289
- वैजयन्ती निजधृष्णुर्धृष्टे प्रगल्भे च कुटिले बंधुरे नतम् । न्यक्षं कृत्स्ने निकृष्टे च निजमात्मीयनित्ययोः ॥ ९ ॥ Vaijayantī 6.4.9
- वैजयन्ती ध्रुवध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः । क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥ Vaijayantī 6.5.44
- वैजयन्ती अमृतक्लीबो ना त्वमरे स्त्री तु गुलूच्यां मद्यभिक्षयोः । आमलक्यां हरीतक्यां त्रिषु तु स्वादुनित्ययोः ॥ ८ ॥ Vaijayantī 7.5.8