सन्निधि
sannidhiपुं · masc.In 10 kośas: 6 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.
नीवाकस्तु प्रयामः स्यात्सन्निधिः सन्निकर्षणम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
समीपं सविधं पार्श्वं ससीममऽन्तिकं पुनः ।सनीडं सन्निकर्षश्च सन्निकृष्टं च सन्निधिः ॥ २६३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
अथ प्रयामनिवाकौ धान्यादतिशयादरे ।समीपार्थे सन्निधिः स्यात् सन्निधं सन्निकर्षणम् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
genderपुंmasc.
सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् ।अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धनपे शिल्पिभेदे चेत्यजयः सन्निधिः पुनः ।सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥
अनुष्टुप्
धनपे शिल्पिभेदे चेत्यजयः सन्निधिः पुनः ।सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥
अनुष्टुप्
सम्बाधः सङ्कटे योनौ भये नरकवर्त्मनि ।सन्निधिर्ना सन्निधाने भवेदिन्द्रियगोचरे ॥
अनुष्टुप्
सन्निधि as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) ईशोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते । ई दुःखभावने क्रोधे प्रत्यक्षे सन्निधावपि ॥ ८७५ ॥ Abhidhānaratnamālā (Halāyudha) 5.875
- शब्दरत्नाकर एए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि । ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥ Śabdaratnākara 5.1.2251
- वैजयन्ती ऐआ प्रगृह्यः स्मृतौ वाक्य आस्तु सन्तापकोपयोः । ऐ दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ॥ २ ॥ Vaijayantī 8.7.2