कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

सामान्यविभागः (2/4)

गवां तु समवाये स्याद् गव्या गोत्रा द्वयं पुनः ।पाश्या च पाशसङ्घाते खल्या खलनरव्रजे ॥ २५८१ ॥
7.2581 · p. 416
अनुष्टुप्
तृण्या तृणसमूहे स्याद् धूम्या तु धूमवृन्दके ।खलादेः खलिनी तुल्या कुटुम्बिनी तु तद्गणे ॥ २५८२ ॥
7.2582 · p. 416
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 म्बि (wrong syllable)
जनता जनवृन्दे स्याद् बन्धुवृन्दे तु बन्धुता ।ग्रामता ग्रामवृन्दे वै गजौघे गजता तथा ॥ २५८३ ॥
7.2583 · p. 416
अनुष्टुप्
सहायमित्रवृन्दे हि सहायता च कथ्यते ।रथानां च समूहः स्यात् रथ्या च रथकट्यया ॥ २५८४ ॥
7.2584 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

* श्रेणीनामानि *

आलिश्चाऽऽली ततिः पङ्क्तिः श्रेणी श्रेणिश्च धोरणी ।वीथी वीथिस्तथा राजिरावलिरावली पुनः ॥ २५८५ ॥
7.2585 · p. 417
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
माला लेखेति सर्वाणि श्रेणिनामानि सन्ति वै ।
7.126 · p. 417
अनुष्टुप्

* युगलनामानि *

उभावुभे च द्वौ द्वे च द्वैतं द्वन्द्वं द्वयं तथा ॥ २५८६ ॥
7.2586 · p. 417
अनुष्टुप्
यमलं यामलं युग्मं युगलं जकुटं युगम् ।यमं च द्वितयं चेति नामानि युगलस्य वै ॥ २५८७ ॥
7.2587 · p. 417
अनुष्टुप्
पशु युग्मे गोयुगं स्यात् गोयुग्मेऽपि च गोयुगम् ।अश्वगोयुगमुच्येत अश्वद्वयं तथैव च ॥ २५८८ ॥
7.2588 · p. 417
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 द्व (wrong syllable)
षड्गवं स्यात्तु षट्त्वेऽर्थे गोषड्गवमित्यपि ।हस्तिषड्गवमश्वषड्गवं चेति विधीयताम् ॥ २५८९ ॥
7.2589 · p. 417
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 श्व (wrong syllable)
शतादिभ्यः परा सङ्ख्या परःपूर्वा प्रयुज्यते ।परःशताः कुञ्जरास्ते परःसहस्राः हस्तिनः ॥ २५९० ॥
7.2590 · p. 417
अनुष्टुप्metre not read in every line
परोलक्षाः सभालोकाः परःकोट्यश्च सन्ति वै ।पुनः परोऽर्बुदा ज्ञेया परःखर्वादयोऽपि वै ॥ २५९१ ॥
7.2591 · p. 417
अनुष्टुप्

* प्रचुरनामानि *

प्रभूतं प्रचुरं प्राज्यं पुष्कलं पुरहं पुरु ।पुरुहं पुरुहूश्चैव भूयिष्ठं बहुलं बहु ॥ २५९२ ॥
7.2592 · p. 417
अनुष्टुप्
अदभ्रं भूरि भूयश्च स्फिरं स्फारं तथैव च ।एतन्नामानि मन्यन्ते प्रचुरस्य हि पण्डितैः ॥ २५९३ ॥
7.2593 · p. 418
अनुष्टुप्

* अल्पनामानि *

अल्पं तुच्छं तनु स्तोकं क्षुद्रं क्षुल्लं तथा कृशम् ।अणु च तलिनं दभ्रं दश नामानि सन्ति वै ॥ २५९४ ॥
7.2594 · p. 418
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)

* सूक्ष्मनामानि *

श्लक्ष्णं च पेलवं सूक्ष्मं सूक्ष्मनामानि त्रीणि वै ।
7.136 · p. 418
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable); pāda 4, syllable 3 त्रु (wrong syllable)

* लेशनामानि *

कणो मात्रा लवो लेशस्त्रुटी त्रुटिर्निगद्यते ॥ २५९५ ॥
7.2595 · p. 418
metre not recognised

* लघुनामानि *

ह्रस्वं लघु च प्रख्यातं लघुकार्ये प्रयुज्यते ।
7.138 · p. 418
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)

* अत्यल्पनामानि *

अत्यल्पमल्पिष्ठं च स्यादल्पीयोऽणीयस्तथा ॥ २५९६ ॥
7.2596 · p. 418
metre not recognised
कनिष्ठञ्च कनीयश्च लिङ्गभेदो विशेष्यवत् ।
7.140 · p. 418
अनुष्टुप्

* दीर्घनाम *

दोर्घमाऽऽयतमाख्यातं लम्बार्थस्य हि वाचकम् ॥ २५९७ ॥
7.2597 · p. 418
अनुष्टुप्

* उच्चनामानि *

उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा ।उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥
7.2598 · p. 419
अनुष्टुप्metre not read in every line

* नीचनामानि *

न्यग्नीचं मन्थनं कुब्जं खर्वं च वामनं पुनः ।ह्रस्वं च सप्त नामानि नीचार्थे प्रथयन्ति वै ॥ २५९९ ॥
7.2599 · p. 419
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

* विशालनामानि *

विशङ्कटं विशालं च विस्तीर्णं विकटं महत् ।वरिष्ठं विपुलं व्यूढं वड्रं ततं तथा बृहत् ॥ २६०० ॥
7.2600 · p. 419
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
उरु गुरु बहु स्फारं पृथु च पृथुलं पुनः ।एतन्नामानि मन्यन्ते विशालस्य बुधैः सदा ॥ २६०१ ॥
7.2601 · p. 419
अनुष्टुप्metre not read in every line

* दैर्ध्यनामानि *

दैर्ध्यं प्रसिद्धमाऽऽयाम आनाहश्चापि मन्यते ।
7.146 · p. 419
अनुष्टुप्

* आरोहनामानि *

आरोहश्च तथोत्सेधः उच्छ्रयश्च समुच्छ्रयः ॥ २६०२ ॥
7.2602 · p. 419
अनुष्टुप्
उच्छ्राय उदयो नाम उच्चतायां प्रयुज्यते ।
7.148 · p. 419
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल (wrong syllable)

* विशालतानाम *

परिणाहो विशालता महदर्थे प्रयुज्यते ॥ २६०३ ॥
7.2603 · p. 419
अनुष्टुप्metre not read in every line

* विस्तारनामानि *

प्रपञ्चाऽऽभोगविस्तारव्यासाः विस्तारवाचकाः ।विस्तरो विग्रहः शब्दे समस्तपदस्फोटने ॥ २६०४ ॥
7.2604 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 द (wrong syllable)

* समासनामानि *

समासश्च समाहारः संक्षेपश्च संग्रहः ।
7.151 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* समस्तनामानि *

विश्वं सर्वं समस्तञ्च समग्रं सकलं समम् ॥ २६०५ ॥
7.2605 · p. 420
अनुष्टुप्metre not read in every line
अशेषमथ निःशेषं निखिलमखिलं तथा ।अनूनं न्यक्षमऽन्यूनं कृत्स्नं पूर्णं निगद्यताम् ॥ २६०६ ॥
7.2606 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 खि (wrong syllable)
अखण्डं चेति नामानि मन्यन्ते निखिलस्य वै ।
7.154 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* शकलनामानि *

अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥
7.2607 · p. 420
अनुष्टुप्metre not read in every line
भित्तं नेमश्च नामानि कथ्यन्ते शकलस्य वै ।
7.156 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* अंशनामानि *

अंशो भागश्च वण्टो वण्टकश्चापि मन्यते ॥ २६०८ ॥
7.2608 · p. 420
अनुष्टुप्metre not read in every line

* मलिननामानि *

मलीमसं तथा म्लानं मलिनं मलदूषितम् ।कच्चरं कल्मषं चैव कश्मलं कथ्यते तथा ॥ २६०९ ॥
7.2609 · p. 420
अनुष्टुप्

* पवित्रनामानि *

पवित्रं पावनं पुण्यं पूतं मेध्यं तथैव च ।
7.159 · p. 421
अनुष्टुप्

* उज्ज्वलनामानि *

उज्ज्वलं विमलं वीध्रं विशुद्धं विशदं शुचि ॥ २६१० ॥
7.2610 · p. 421
अनुष्टुप्
अवदातमनाविलं नामान्यष्टोज्ज्वलस्य वै ।निःशोध्यं त्वनवस्करं चोक्षं शोधितवस्तु च ॥ २६११ ॥
7.2611 · p. 421
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable); pāda 3, syllable 7 स्क (wrong syllable)

* शोधितनामानि *

निर्णिक्तं शोधितं धौतं मृष्टं क्षालितमित्यपि ।
7.162 · p. 421
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)

* अभिमुखनाम *

अभिमुखं प्रसिद्धं वै सम्मुखीनं निगद्यते ॥ २६१२ ॥
7.2612 · p. 421
अनुष्टुप्metre not read in every line

* पराङ्मुखनाम *

पराचीनं च प्रख्यातं प्रोक्तं पुनः पराङ्मुखम् ।
7.164 · p. 421
metre not recognised

* मुख्यनामानि *

मुख्यमऽग्रेसरं चाऽग्रं प्राग्र्योऽग्रणीस्तथाऽग्रिमम् ॥ २६१३ ॥
7.2613 · p. 421
metre not recognised
अग्रीयश्चाग्रियोऽग्र्यं वै प्रष्ठं प्राग्रहरं परम् ।प्रकृष्टं प्रमुखं चैव पुरोगं प्रवरं वरम् ॥ २६१४ ॥
7.2614 · p. 422
अनुष्टुप्
प्रधानं चोत्तमं जात्यमनुत्तममनुत्तरम् ।बर्य्यं चाऽनवरार्ध्यं वै परार्ध्थं ग्रामणीः पुनः ॥ २६१५ ॥
7.2615 · p. 422
अनुष्टुप्
प्रवर्हं च प्रवेकं वै वरेण्यं च प्रसिद्धकम् ।एतन्नामानि मुख्यस्य सर्वं विशेषणार्थकम् ॥ २६१६ ॥
7.2616 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)

* श्रेष्ठनामानि *

श्रेयः श्रेष्ठं पुष्कलञ्च सत्तममऽतिशोभनम् ।तथोत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ २६१७ ॥
7.2617 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त (wrong syllable)
सिंहशार्दूलनागाद्या उत्तमार्थे भवन्ति वै ।वृन्दारकस्तल्लजश्च मतल्लिका मचर्चिका ॥ २६१८ ॥
7.2618 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्लि (wrong syllable)
उद्घः प्रकाण्डशब्दश्च प्रशस्यार्थे प्रयुज्यते ।
7.171 · p. 422
अनुष्टुप्

* गौणार्थकाः शब्दाः *

गुणोपसर्जनोपाग्रमप्रधाने प्रयुज्यते ॥ २६१९ ॥
7.2619 · p. 422
अनुष्टुप्

* अधमनामानि *

अधममणकं गर्ह्यं निकृष्टं काण्डकुत्सिते ।अवद्यमपकृष्टञ्च प्रतिकृष्टं ब्रुवं पुनः ॥ २६२० ॥
7.2620 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
रेफो रेपोऽवमं पापं याप्यं याव्यं तथाऽर्व वै ।कपूयश्च कुपूयं च खेटं चेलं निगद्यते ॥ २६२१ ॥
7.2621 · p. 422
अनुष्टुप्
अपशब्दञ्च द्वाविंशाः शब्दाः सन्त्यधमार्थकाः ।विशेषणार्थकाः सर्वे रेफं विना भवन्ति ते ॥ २६२२ ॥
7.2622 · p. 423
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ञ्च (wrong syllable); pāda 4, syllable 3 वि (wrong syllable)
तदाऽऽसेचनकं यस्य दर्शनाद्दृग्न तृप्यति ।
7.176 · p. 423
अनुष्टुप्

* सुन्दरनामानि *

सुन्दरं शोभनं कान्तं मञ्जुलञ्च मनोहरम् ॥ २६२३ ॥
7.2623 · p. 423
अनुष्टुप्
मनोज्ञं मधुरं रम्यमऽभिरामं मनोरमम् ।कमनीयं प्रियं काम्यं कम्रञ्च सुषमं पुनः ॥ २६२४ ॥
7.2624 · p. 423
अनुष्टुप्
रुचिरं चारु रुच्यं च लडहं हारि वल्गु च ।रमणीयं तथा सौम्यं पेशलं साधु बन्धुरम् ॥ २६२५ ॥
7.2625 · p. 423
अनुष्टुप्
मञ्जु वामं तथा हृद्यं नामानि सुन्दरस्य वै ।विशेषणार्थका एते शब्दा आयान्ति प्रायशः ॥ २६२६ ॥
7.2626 · p. 423
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 4, syllable 5 न्ति (wrong syllable)

* फलनाम *

फलं व्युष्टिर्द्वयञ्चैतत् कथ्यते फलनामनि ।
7.181 · p. 423
अनुष्टुप्

* असारनाम *

असारं फल्गु निस्तत्त्वे वस्तुनि प्रतिपाद्यते ॥ २६२७ ॥
7.2627 · p. 423
अनुष्टुप्

* शून्यनामानि *

शून्यं तुच्छं रिक्तकं च रिक्तं वशिकमित्यपि ।पञ्च नामानि शून्यस्य व्यवहरन्ति कोविदाः ॥ २६२८ ॥
7.2628 · p. 423
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ह (wrong syllable)

* निबिडनामानि *

निबिडं निबिरीसं च नीरन्ध्रं च निरन्तरम् ।घनं सान्द्रं दृढं गाढं वहलं बहलं तथा ॥ २६२९ ॥
7.2629 · p. 424
अनुष्टुप्
अविरलं पुनर्नामैकादशं प्रयुज्यते ।
7.185 · p. 424
अनुष्टुप्metre not read in every line

* विरलनामानि *

विरलस्य तु नामानि पेलवं विरलं तनु ॥ २६३० ॥
7.2630 · p. 424
अनुष्टुप्metre not read in every line

* नूतननामानि *

अभिनवं नवं नव्यं नवीनं नूत्ननूतने ।प्रत्यग्रं चैव सद्यस्कं नामान्यष्टौ भवन्ति वै ॥ २६३१ ॥
7.2631 · p. 424
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)

* पुराणनामानि *

जरत् जीर्णं पुराणञ्च पुरातनं चिरन्तनम् ।प्रत्नञ्च प्रतनमिति नामात्र संप्रयुज्यते ॥ २६३२ ॥
7.2632 · p. 424
metre not recognised

* मूर्त्तनाम *

साकारवस्तु मूर्त्तं स्यान्मूर्त्तिमच्च प्रयुज्यते ।
7.189 · p. 424
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* नैकभेदनामानि *

उच्चावचं नैकभेदं नानाप्रकारमित्यपि ॥ २६३३ ॥
7.2633 · p. 424
अनुष्टुप्metre not read in every line

* अधिकनामानि *

अधिकमऽतिरिक्तं च ख्यातं समधिकं पुनः ।त्रीणि नामानि मन्यन्ते समधिकस्य पण्डितैः ॥ २६३४ ॥
7.2634 · p. 425
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 4, syllable 3 धि (wrong syllable)

* समीपनामानि *

समीपं सविधं पार्श्वं ससीममऽन्तिकं पुनः ।सनीडं सन्निकर्षश्च सन्निकृष्टं च सन्निधिः ॥ २६३५ ॥
7.2635 · p. 425
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
आसन्नं सन्निधानञ्च सदेशोऽभ्याशमित्यपि ।अभ्यग्रमऽभितोऽभ्यर्णमभ्यासो निकटं पुनः ॥ २६३६ ॥
7.2636 · p. 425
अनुष्टुप्
उपकण्ठं तथोपान्तं समर्यादं पुनस्तथा ।सवेश इति नामानि मन्यन्ते शब्दशास्त्रिणः ॥ २६३७ ॥
7.2637 · p. 425
अनुष्टुप्

* संसक्तनामानि *

अनन्तरमव्यवहितं तथैवापदान्तरम् ।संसक्तः चैव संलग्नं संभवत्यपटान्तरम् ॥ २६३८ ॥
7.2638 · p. 425
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)

* नेदिष्ठनामानि *

नेदीयो नाम नेदिष्ठं भवेदन्तिकतमं पुनः ।अतिसमीपतार्थानि त्रीणि नामानि सन्ति वै ॥ २६३९ ॥
7.2639 · p. 425
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)

* दूरनामानि *

विप्रकृष्टं परं दूरं दूरार्थे संप्रयुज्यते ।
7.197 · p. 426
अनुष्टुप्

* अतिदूरनामानि *

अतिदूरे दविष्ठं स्याद् दवीयोऽपि प्रयुज्यते ॥ २६४० ॥
7.2640 · p. 426
अनुष्टुप्

* शाश्वतनामानि *

सनातनं ध्रुवं नित्यं शाश्वतिकञ्च शाश्वतम् ।अनश्वरं प्रसिद्धं वै सप्तमन्तु सदातनम् ॥ २६४१ ॥
7.2641 · p. 426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)

* स्थेयनामानि *

अतिस्थिरं भवेत् स्थेयः स्थेष्ठं स्थास्नु तथाऽचलम् ।एतन्नामानि मन्यन्ते बहुस्थिरत्वबोधने ॥ २६४२ ॥
7.2642 · p. 426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)

* कूटस्थनाम *

नभ इत्यादि कूटस्थं कालव्याप्येकरूपतः ।
7.201 · p. 426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)

* स्थावरनाम *

स्थावरं जङ्गमान्यञ्च भूम्यादिकं निगद्यते ॥ २६४३ ॥
7.2643 · p. 426
अनुष्टुप्metre not read in every line

* जङ्गमनामानि *

इङ्गं चराचरं ज्ञेयं चरं चरिष्णु इत्यपि ।त्रसं जगत् जङ्गमञ्च सप्तनामानि सन्ति वै ॥ २६४४ ॥
7.2644 · p. 426
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

* चञ्चलनामानि *

चञ्चलं चपलं ज्ञेयं चलनं चटुलं चलम् ।लोलं चलाचलं कम्प्रं कम्पनं तरलं तथा ॥ २६४५ ॥
7.2645 · p. 427
अनुष्टुप्
ज्ञेयं परिप्लवं पारिप्लवमऽस्थिरमेव च ।त्रयोदशैव नामानि चपलस्य भवन्ति वै ॥ २६४६ ॥
7.2646 · p. 427
अनुष्टुप्

* सरलनामानि *

ऋजुः स्यात् सरलोऽजिह्मः प्रगुणोऽपि निगद्यते ।
7.206 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable)

* अधोमुखनामानि *

अवाग्रमाऽऽनतञ्चैवमऽवगतमऽधोमुखम् ॥ २६४७ ॥
7.2647 · p. 427
अनुष्टुप्metre not read in every line

* वक्रनामानि *

आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् ।अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥
7.2 · p. 427
अनुष्टुप्
द्वादशैतानि नामानि वक्रस्य संभवन्ति वै ।
7.209 · p. 427
metre not recognised

* अनुगनामानि *

अन्वक्षमनुगमन्वक् ज्ञेयमनुपदं पुनः ॥ २६४९ ॥
7.2649 · p. 427
metre not recognised

* एकाकिनामानि *

एकाकी चैककश्चैकः कथ्यतेऽवगणोऽपि च ।
7.211 · p. 428
अनुष्टुप्metre not read in every line

* एकाग्रनामानि *

एकतानमेकायनमेकसर्गञ्च तद्गतम् ॥ २६५० ॥
7.2650 · p. 428
अनुष्टुप्metre not read in every line
एकायनगतं चैकाग्रमैकाग्रञ्च वै पुनः ।एकाग्र्योऽनन्यवृत्तिश्च स्थिरचित्तस्य बोधने ॥ २६५१ ॥
7.2651 · p. 428
अनुष्टुप्

* आदिनामानि *

आद्यमादिममादिश्च पौरस्त्यं प्रथमं पुनः ।पूर्वमग्रं तथा प्राक् च वाक्ये प्रथमवाचकः ॥ २६५२ ॥
7.2652 · p. 428
अनुष्टुप्

* अन्तिमनामानि *

अन्त्यमन्तिममन्तश्च पाश्चात्यं पश्चिमं पुनः ।जघन्यं चरमं चेति नामानि चरमस्य वै ॥ २६५३ ॥
7.2653 · p. 428
अनुष्टुप्

* मध्यमनामानि *

मध्यमं मध्यमीयं च मध्यन्दिनं च माध्यमम् ।माध्यन्दिनं च नामानि मन्यन्ते मध्यमस्य वै ॥ २६५४ ॥
7.2654 · p. 428
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दि (wrong syllable)

* अभ्यन्तरनामानि *

अन्तरालं विचालञ्च ज्ञेयमभ्यन्तरं पुनः ।
7.217 · p. 428
अनुष्टुप्

* अन्तरनाम *

अन्तरं चैव मध्यं चाऽवकाशार्थे हि कथ्यते ॥ २६५५ ॥
7.2655 · p. 429
अनुष्टुप्

* समाननामानि *

समानः सन्निभस्तुल्यं सदृक्षः सदृशः सहक् ।साधारणः सधर्मा च सवर्णः सरूपः समः ॥ २६५६ ॥
7.2656 · p. 429
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
स्यादुत्तरपदे भूतः प्रख्यश्च प्रतिमो निभः ।प्रकाशः प्रतिकाशश्च प्रतीकाशस्तथोपमा ॥ २६५७ ॥
7.2657 · p. 429
अनुष्टुप्
प्रकारश्चाथ नीकाशः सङ्काशो रूपमेव च ।तदापि सदृशार्थकत्वमायात्येव न संशयः ॥ २६५८ ॥
7.2658 · p. 429
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* उपमावाचकाः *

औपम्यमुपमानमुपमितिस्तथोपमा ।अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥
7.2659 · p. 429
अनुष्टुप्metre not read in every line
उपमावाचका एते सर्वे शब्दा भवन्ति वै ।
7.223 · p. 429
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)

* प्रतिमानामानि *

प्रतिमा प्रतिमानञ्च प्रतिकायः प्रतिकृतिः ॥ २६६० ॥
7.2660 · p. 429
अनुष्टुप्metre not read in every line
प्रतिच्छाया प्रतिच्छन्दः प्रतिरूपं प्रतिनिधिः ।प्रतिबिम्बं प्रसिद्धं वै तथाऽर्वा प्रतियातना ॥ २६६१ ॥
7.2661 · p. 429
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)
एतन्नामानि मन्यन्ते प्रतिमायाश्च पण्डितैः ।सूर्मी सूर्मिस्तथा स्थूणा स्यादऽयःप्रतिमा पुनः ॥ २६६२ ॥
7.2662 · p. 430
अनुष्टुप्
सुवर्णप्रतिमा नाम हरिणी स्याद्धिरण्मयी ।
7.227 · p. 430
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)

* प्रतिकूलनामानि *

प्रतिकूलं प्रतिलोममपसव्यमपष्ठुरम् ॥ २६६३ ॥
7.2663 · p. 430
अनुष्टुप्metre not read in every line
विलोमञ्च प्रसव्यञ्च प्रतीपं चाप्यपष्ठु वै ।वामं च नव नामानि प्रतिकूलस्य सन्ति वै ॥ २६६४ ॥
7.2664 · p. 430
अनुष्टुप्

* सव्यापसव्यनाम *

वामं सव्यं शरीरेऽङ्गमपसव्यं तु दक्षिणम् ।
7.230 · p. 430
अनुष्टुप्

* अबाधनामानि *

उच्छृङ्खलमबाधं स्यादनर्गलमयन्त्रितम् ॥ २६६५ ॥
7.2665 · p. 430
अनुष्टुप्
निरङ्कुशस्तथोद्दामं निरर्गलञ्च ज्ञायताम् ।
7.232 · p. 430
अनुष्टुप्metre not read in every line

* स्पष्टनामानि *

स्फुटं स्पष्टं प्रकाशञ्च प्रव्यक्तं प्रकटं पुनः ॥ २६६६ ॥
7.2666 · p. 430
अनुष्टुप्metre not read in every line
व्यक्तं तथोल्बणं सप्त नामानि संभवन्ति वै ।
7.234 · p. 430
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* वर्तुलनामानि *

वर्तुलं निस्तलं वृत्तं परिमण्डलमुच्यते ॥ २६६७ ॥
7.2667 · p. 430
अनुष्टुप्metre not read in every line

* बन्धुरनामानि *

बन्धूरं बन्धुरं नाम प्रोक्तं तथोन्नतानतम् ।
7.236 · p. 431
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* विषमोन्नतनाम *

विषमोन्नतं भवेन्नाम स्थपुटं कथ्यते पुनः ॥ २६६८ ॥
7.2668 · p. 431
metre not recognised

* भिन्ननामानि *

अन्यदन्यतरत्वं च भिन्नमन्यतरस्तथा ।एकमेकतरश्चैवमितरत् कथ्यते पुनः ॥ २६६९ ॥
7.2669 · p. 431
अनुष्टुप्

* मिश्रनामानि *

करम्बः कबरो मिश्रः सम्पृक्तः खचितः पुनः ।पञ्चैतान्येव नामानि मिश्रितार्थे भवन्ति वै ॥ २६७० ॥
7.2670 · p. 431
अनुष्टुप्

* विविधनामानि *

बहुविधो बहुरूपः पृथग्रूपः पृथग्विधः ।नानारूपो नानाविधो विविधश्चापि मन्यते ॥ २६७१ ॥
7.2671 · p. 431
metre not recognised