कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दैतेय

daiteyaपुं · masc.

In 8 kośas: 7 synonym verses, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.12
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.5 · p. 1
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.10 · p. 302
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
शालिनी
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.337 · p. 44
असुरा दानवाश्चैव दैतेया दितिजास्तथा ।दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.14 · p. 2
सुरद्विट्-पुघसेन्द्रारि-दनुजेष्टिपचास्थिराः ।दैत्यदानवदैतेयसुरारित्रिदशारयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.94 · p. 13
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.9 · p. 15
मन्वन्तरेषु भिद्यन्ते देवाः सप्तर्षिभिः सह ।असुरा दानवा दैत्या दैतेया देवशत्रवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.

दैतेय as a meaning in nānārtha verses