पूर्वदेव
pūrvadevaपुं · masc.In 12 kośas: 13 synonym verses.
असुरा दितिदनुजाः पातालौकःसुरारयः ।पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ २३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderपुंmasc.
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
ते पूर्वदेवपर्याया इन्द्रपर्यायवैरिणः ।कश्यपापत्यपर्यायाः पातालार्थाद्गृहार्थकाः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
दैत्यार्थादिन्द्रपर्यायः पूर्वदेवार्थ इत्यपि ।हिरण्यकशिपुर्दैत्यौ हिरण्याक्षानुजार्थकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
शालिनी
genderपुंmasc.
असुराश्च शुक्रशिष्या दैत्या दनुसुता अपि ।सुरारयः पूर्वदेवाः पातालनिलया अपि ॥ ७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
दैत्योऽसुरो दितिसुतः पूर्वदेवः सुराहितः ।आदित्या भास्करा विश्वेवसवस्तुषितानिलाः ॥ ३५० ॥
अनुष्टुप्
genderपुंmasc.
असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः ।पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
असुरा दानवाश्चैव दैतेया दितिजास्तथा ।दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
रक्षःपिशाचभूताश्च गुह्यका देवयोनयः ।असुरे स्युर्दितिसुताः पूर्वदेवाः क्रतुद्विषः ॥
अनुष्टुप्
genderपुंmasc.
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
गीतिः
genderपुंmasc.
पूर्वदेवाः शुक्रशिष्या रसागेहा हरिद्विषः ।ईदृङ्चेत्यादिभिर्मन्त्रैः सप्त प्रोक्ता मरुद्गणाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.