कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दैत्य

daityaपुं · masc.

In 14 kośas: 14 synonym verses, 6 as a nānārtha head word, 65 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.12
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.5 · p. 1
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.9 · p. 362
भुवि श्वभ्रे द्वयोर्गर्त्ताऽवटिः स्यादवटोऽवटु ।कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.20 · p. 363
एकयोक्त्या पुनर्दैत्या महिषाद्यास्तथैव च ।अनन्ताः सर्व एवैते सर्वे देवविरोधिनः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.10 · p. 302
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
शालिनी
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.78 · p. 15
असुराश्च शुक्रशिष्या दैत्या दनुसुता अपि ।सुरारयः पूर्वदेवाः पातालनिलया अपि ॥ ७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.350 · p. 24
दैत्योऽसुरो दितिसुतः पूर्वदेवः सुराहितः ।आदित्या भास्करा विश्वेवसवस्तुषितानिलाः ॥ ३५० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.57 · p. 7
असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः ।पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.14 · p. 2
सुरद्विट्-पुघसेन्द्रारि-दनुजेष्टिपचास्थिराः ।दैत्यदानवदैतेयसुरारित्रिदशारयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.94 · p. 13
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.9 · p. 15
मन्वन्तरेषु भिद्यन्ते देवाः सप्तर्षिभिः सह ।असुरा दानवा दैत्या दैतेया देवशत्रवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.176 · p. 59
विभीदकः कर्षफलो भूतवासो बहेटकः ।दैत्यः पापस्तुषः कल्पः कालेयस्तुमुलाक्षकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.232 · p. 64
नियुतस्तंबजदृढदैत्यगौरकुदानवम् ।अभयं चावदाहं च दूर्वा तु हरितालिका ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.5 · p. 148
पथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः ।दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.41 · p. 292
चित्यं तु चैत्ये मृतके चितायांस्त्रियां च चैत्यो नरि बुद्धवाची ।उद्देशवृक्षे चरमे तु बिम्बेस्थानेऽथ दैत्यो नरि दानवे स्यात् ॥ ४१ ॥
उपजातिः
meaningsदानव
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.42 · p. 292
चण्डौषधौ स्त्री सतते ध्रुवे चनित्यं पराभं प्रवदन्ति सन्तः ।भृत्यस्तु दासे भृतिवाचकं स्त्रीचान्त्योऽधमे चान्तभवे पराभः ॥ ४२ ॥
इन्द्रवज्रा
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.620 · p. 95
द्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् ।शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके ॥ ६२० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.621 · p. 95
द्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे ।दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ ६२१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.18 · p. 258
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
meaningsअसुर

दैत्य as a meaning in nānārtha verses