कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

असुर

asuraपुं · masc.

In 21 kośas: 27 synonym verses, 3 as a nānārtha head word, 20 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.90 · p. 7
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.238 · p. 14
असुरा दितिदनुजाः पातालौकःसुरारयः ।पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ २३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 27
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.174 · p. 7
खद्योते तु कीटमणिज्योतिर्माली तमोमणिः ।परार्वुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे ॥ १७२ ॥पेचकी पुष्करी पद्मी पेचिलः सूचिकाधरः ।विलोलजिह्वोऽन्तःस्वेदो महाकायो महामदः ॥ १७३ ॥शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः ।असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ १७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.12
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.5 · p. 1
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तुल्यौ गन्धर्वगान्धर्वावासुरोऽप्यसुरो भवेत् ।हाहा हहाश्च तुल्यौ द्वावादन्तौ हाहसि स्मृते ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.147 · p. 105
शुण्डालः पिचिलश्चापि ध्वजोऽस्त्री चासुरः कपिः ।गम्भीरवेदी च करी करिणी धेनुका वशा ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.10 · p. 362
सर्पा नागाश्च ते सर्वे सर्वपातालवासिनः ।सुरपर्यायनज्पूर्वा दित्यपत्यार्थवाचकाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.19 · p. 363
रक्तबीजप्रभृतयो वैप्रचित्ता अथापरे ।निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.10 · p. 302
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
शालिनी
genderपुंmasc.
एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः ।संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् ।नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.165 · p. 29
स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ।दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.78 · p. 15
असुराश्च शुक्रशिष्या दैत्या दनुसुता अपि ।सुरारयः पूर्वदेवाः पातालनिलया अपि ॥ ७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.350 · p. 24
दैत्योऽसुरो दितिसुतः पूर्वदेवः सुराहितः ।आदित्या भास्करा विश्वेवसवस्तुषितानिलाः ॥ ३५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.25 · p. 43
असुरो वारणः कुञ्जः कुञ्जरः पीलुरित्यपि ।महामृगः शूर्पकर्ण समाजसिन्धुरः कपी ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.57 · p. 7
असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः ।पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.58 · p. 7
असुरा राक्षसा जातुधाना रक्षांसि नैर्ऋताः ।रात्रिंचराः पुण्यजनाः पलादाश्रपरक्तपाः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.71 · p. 11
असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः ।अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.337 · p. 44
असुरा दानवाश्चैव दैतेया दितिजास्तथा ।दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2201 · p. 361
अन्तः स्वेदस्तथा दीर्घपवनो वारणोऽसुरः ।स्तम्बेरमश्च शुण्डालो दन्तावलश्च कुञ्जरः ॥ २२०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.100 · p. 185
दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा गिरौ ।वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.94 · p. 13
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.9 · p. 15
मन्वन्तरेषु भिद्यन्ते देवाः सप्तर्षिभिः सह ।असुरा दानवा दैत्या दैतेया देवशत्रवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.61 · p. 109
दन्तावलो महाकायो वारणः कुंजरोऽसुरः ।महामृगः शूर्पकर्णः सामजः सिंधुरः कपिः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.124 · p. 133
विडं तु पाक्यं बहुलं कृत्रिमद्रावणासुराः ।घटिकालवणं तूग्रं विडवद्धनकालकम् ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.80 · p. 329
असुरो दानवरव्योः स्त्री तु रजन्यां तथा वास्याम् ।मसुरमसूरौ द्वंद्वे धान्यविशेषे स्त्रियां तु वेश्यायाम् ॥ ८० ॥
उद्गीतिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.114 · p. 56
असुरस्तु पुमान् मेघे वास्तुदेवान्तरेऽपि च ।कोष्ठपङ्क्तौ पश्चिमायां षष्ठे दक्षिणतः स्थिते ॥ ११४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.115 · p. 56
द्वे तु दैत्ये गजे च क्ली पुनः कांस्याख्यलोहके ।असितस्तु पुमान् ज्ञेय इक्ष्वाकुकुलजे नृपे ॥ ११५ ॥
अनुष्टुप्
doubtful

असुर as a meaning in nānārtha verses

  • धरणिकोश वलाहकवलाहकौ वारिदपर्वतौ स्मृतौ वलाहकश्चासुरनागभेदयोः । सौगन्धिकं कत्तृणबाणयोः स्मृतं कह्लारके गन्धकसंज्ञकाश्मनि ॥ Dharaṇikośa 1.2.58
  • धरणिकोश वाणशोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरं शोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः । वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवता वाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥ Dharaṇikośa 14.2.1
  • धरणिकोश दैत्यपथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः । दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥ Dharaṇikośa 25.1.5
  • धरणिकोश बलबलं शक्तिश्च सैन्यं च रूपे स्थौल्ये बलोऽसुरे । काके हलिनि शक्ते च बला वाट्यालके स्मृता ॥ Dharaṇikośa 27.3.2
  • धरणिकोश केशपांशुर्धूलिषु सस्यार्थे चिरसंचितगोमये । केशोऽसुरान्तरे केशा ह्रीवेराप्पतिकुन्तलाः ॥ Dharaṇikośa 29.2.3
  • कोषकल्पतरु पिचुनीचः खर्वे पामरे चान्यवत्स्या- त्तूले कर्षे कुष्ठरोगेऽसुरे च । किंच प्रोक्तो भैरवास्ये पिचुर्ना- थ भ्रूमध्ये श्मश्रुणि श्लाघने च ॥ ३९ ॥ Koṣakalpataru 6.5.39
  • कोषकल्पतरु वृषपर्वन्इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ । वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥ Koṣakalpataru 6.21.66
  • कोषकल्पतरु धीरयात्रा गतौ यापनदेवपूजो- त्सवेऽथ हिंस्रस्त्रिषु घातुके स्यात् । काकादनीमांसिकयोः स्त्रियां स्यात् धीरोऽसुरे ना त्रिषु धैर्यभाजि ॥ ८१ ॥ Koṣakalpataru 6.27.81
  • नानार्थार्णवसंक्षेप अररुअजिष्णुस्तु पुमानग्नावुदके तु नपुंसकम् । अररुस्त्वसुरे द्वे स्यान्मन्थनेऽथायुधे नपि ॥ १५६ ॥ Nānārthārṇavasaṃkṣepa 4.156
  • नानार्थार्णवसंक्षेप कैटभकैटभस्त्वसुरे पुंसि कस्मिंश्चित् स्त्री तु कैटभी । दुर्गादेव्यां कैशिकं तु क्ली केशनिकुरुम्बके ॥ ५८८ ॥ Nānārthārṇavasaṃkṣepa 4.588
  • नानार्थार्णवसंक्षेप हिडिम्बहिडिम्बस्तु पुमान् भीमसेनेन निहतेऽसुरे । हिडिम्बा तु स्त्रियां तस्य भगिन्यामथ हिङ्गुलः ॥ २०३८ ॥ Nānārthārṇavasaṃkṣepa 4.2038
  • परमानन्दीयनाममाला तारकनक्षत्रेऽथासुरे नाविके च तारक उच्यते । त्रिशङ्कुर्नृपभेदे च बिडाले शलभे तथा ॥ २३१ ॥ Paramānandīyanāmamālā 5.15.231
  • परमानन्दीयनाममाला शङ्खशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
  • शब्दरत्नावली दैत्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नावली कंसकंसस्तु तैजसे द्रव्ये कांस्ये मानान्तरेऽसुरे ॥ Śabdaratnāvalī 7.32.2
  • शब्दरत्नाकर अरिष्टअरिष्टं सूतिकागारे मद्ये ताम्रे शुभाशुभे । कालशेये मृत्युचिह्ने काकनिम्बासुरेषु ना ॥ २०३५ ॥ Śabdaratnākara 4.1.2035
  • शब्दरत्नाकर नरकनालीकः सायके पुंसि नलिने तु नपुंसके । निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥ Śabdaratnākara 4.1.2117
  • त्रिकाण्डशेष किर्म्मीरकट्वरं कुत्सिते तक्रे किर्म्मीरौ शबलासुरौ । कपाले च कटाहे च शस्त्रभेदे च कर्परः ॥ ३४२ ॥ Trikāṇḍaśeṣa 3.3.342
  • वैजयन्ती वलनासोर्ध्वास्थ्नीक्षुभेदे च वहिरुक्ष्णि हयेऽनले । वलो धान्येऽसुरे काके गवां श्वासेऽनिले वहः ॥ ५३ ॥ Vaijayantī 6.1.53
  • वैजयन्ती मधुक्षौद्रादौ तद्रसेऽप्यस्त्री ना वसन्ते रसेऽसुरे । चैत्रे मधूके क्ली त्वप्सु मद्ये पुष्परसे मधु ॥ ६१ ॥ Vaijayantī 6.5.61