कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दानव

dānavaपुं · masc.

In 13 kośas: 10 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.12
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.5 · p. 1
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.232 · p. 87
अथ ब्रह्मजटायां तु सल्लज्जं दानवं जनम् ।पुण्डरीकं दवनकं कान्तं दान्तं मुनिर्मरुः ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.12 · p. 362
यज्ञपर्यायशत्र्वर्थाः क्षण् दृष्टिमुषोऽपि च ।तुल्या एतैश्च कालेया दानवा वेदविद्विषः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.10 · p. 302
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
शालिनी
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.57 · p. 7
असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः ।पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.337 · p. 44
असुरा दानवाश्चैव दैतेया दितिजास्तथा ।दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.14 · p. 2
सुरद्विट्-पुघसेन्द्रारि-दनुजेष्टिपचास्थिराः ।दैत्यदानवदैतेयसुरारित्रिदशारयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.94 · p. 13
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.9 · p. 15
मन्वन्तरेषु भिद्यन्ते देवाः सप्तर्षिभिः सह ।असुरा दानवा दैत्या दैतेया देवशत्रवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.927 · p. 128
गन्धे दमनकाख्ये स्याद् दनुजे तु द्वयोरथ ।द्वापरोऽस्त्री तृतीये स्याद् युगे संशयनेऽप्यथ ॥ ९२७ ॥
अनुष्टुप्
doubtful

दानव as a meaning in nānārtha verses