कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

स्वर्गकाण्डः · यक्षाद्यध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां स्वर्गकाण्डे लोकपालाध्यायः

स्पर्शनन्दास्त्वप्सरसः सुमदाश्च रतेमदाः ।स्वर्वेश्याश्चाथ स्वाषेयो यक्षोऽथ सुरगायनः ॥ १ ॥
1.3.1 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable); pāda 3, syllable 5 थ (wrong syllable)
गंधर्वो गातुगांधर्वौ सिद्धाः स्युः सनकादयः ।भूतापुत्रास्तु भूतानि भूताश्च शिवपार्श्वगाः ॥ २ ॥
1.3.2 · p. 15
अनुष्टुप्
किन्नराः स्युः किंपुरुषा मयवोऽश्वमुखाश्च ते ।गुह्यका माणिचरयस्तथा देवजनाः सुताः ॥ ३ ॥
1.3.3 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable)
विद्याधरास्तु द्युचराः खेचराः सत्ययौवनाः ।पिशाचः स्यात् कापिशेयो ऽनृजुर्दर्वश्च पिण्डकः ॥ ४ ॥
1.3.4 · p. 15
अनुष्टुप्
देवयोनय एते स्युः स्वर्वेश्याद्याः सरक्षसः ।नासत्यदस्रौ नासत्यावश्विनौ वरवाहनौ ॥ ५ ॥
1.3.5 · p. 15
अनुष्टुप्
आश्विनेयौ यज्ञवहौ देववैद्यौ वरान्तकौ ।नासिक्यावाश्विनौ दस्रौ विश्वकर्मा द्युवर्धकिः ॥ ६ ॥
1.3.6 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
त्वष्टा नाम स देवानां मयो नाम सुरद्विषाम् ।सनत्कुमारो वैधात्रो नारदः कलहप्रियः ॥ ७ ॥
1.3.7 · p. 15
अनुष्टुप्
रुद्रा वसव आदित्या विश्वे साध्या मरुद्गणाः ।तुषिता भास्वराद्याश्च बहवो देवतागणाः ॥ ८ ॥
1.3.8 · p. 15
अनुष्टुप्
मन्वन्तरेषु भिद्यन्ते देवाः सप्तर्षिभिः सह ।असुरा दानवा दैत्या दैतेया देवशत्रवः ॥ ९ ॥
1.3.9 · p. 15
अनुष्टुप्
पूर्वदेवाः शुक्रशिष्या रसागेहा हरिद्विषः ।ईदृङ्चेत्यादिभिर्मन्त्रैः सप्त प्रोक्ता मरुद्गणाः ॥ १० ॥
1.3.10 · p. 15
अनुष्टुप्
स्वानभ्राडिति गंधर्वगणा एकादशोदिताः ।सुधर्मा स्याद्देवसभा दिव्य उच्चैः श्रवा हयः ॥ ११ ॥
1.3.11 · p. 15
अनुष्टुप्
मेरुः सुमेरुः स्वर्णाद्रिर्मणिसानुः सुरालयः ।महामेरुर्देवगिरिर्गोधुक् चाथापरेऽद्रयः ॥ १२ ॥
1.3.12 · p. 16
अनुष्टुप्
तालांका मेरुगण्डाश्च ये मेरुं परितः स्थिताः ।मन्दाकिनी वियद्गंगा स्वर्नदी सुरदीर्घिका ॥ १३ ॥
1.3.13 · p. 16
अनुष्टुप्
पञ्चैते देवतरवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च हरिचन्दनमस्त्रियाम् ॥ १४ ॥
1.3.14 · p. 16
अनुष्टुप्