कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नदीसर्ज

nadīsarjaपुं · masc.

In 7 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.76
नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.209 · p. 271
भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः ।अर्जुनाह्वो नदीसर्जो वीरद्रुः ककुभोऽप्यथ ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 141
ककुभोऽर्जुनसंज्ञः स्याद्वीरो वीरतरुस्तथा ।वैरान्तको नदीसर्जो मधुगन्धि प्रसूनकः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.103 · p. 58
देवसालः शक्रतरुर्नदीसर्जोऽर्जुनाह्वयः ।अर्जुनः ककुभः सेव्यः सर्पणो धूर्तपादपः ॥ १०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1996 · p. 330
अर्जुनश्च नदीसर्जः इन्द्रद्रुः ककुभः पुनः ॥ १९९६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.90 · p. 63
नदीसर्जो वीरतरुः कुकुभेन्द्रद्रुमार्जुनाः ।अध्यक्षस्तु फलाध्यक्षो राजादनवरादनम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.459 · p. 61
सहकारो रसालश्च जटालो बहुपाद्वटः ।न्यग्रोधोऽथ नदीसर्ज इन्द्रद्रुः ककुभोर्जुनः ॥ ४५९ ॥
अनुष्टुप्
genderपुंmasc.