कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शम्बर

śambaraपुं · masc.

In 20 kośas: 33 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1294 · p. 49
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.11
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.230 · p. 28
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.648 · p. 74
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.163 · p. 81
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.97 · p. 16
महामुखं मेघपुष्पं जीवनं जीवितं शरम् ।जीवनीयं शुचिः सारं शम्बरं चाप्यधोमुखम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.209 · p. 271
भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः ।अर्जुनाह्वो नदीसर्जो वीरद्रुः ककुभोऽप्यथ ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.35 · p. 321
भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः ।वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.73 · p. 351
पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः ।कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.17 · p. 363
वैरोचनिश्च दीर्घायुर्दाता बाणस्तु तत्सुतः ।शैवोऽथ वृषपर्वा तु वृषपर्वोऽथ शम्बरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.151 · p. 396
जीमूतः शम्बरो वातरथोऽपि स्याद्वराहकः ।गडेरोऽब्दो गदयित्नुर्नभसोऽर्थाद्ध्वजार्थकः ॥ १५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.2 · p. 98
सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि ।पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.75 · p. 17
यज्ञार्हः शम्बरः स्वल्पे पृषदस्तु स बिन्दुमान् ।महो रुरुः कृष्णसार एणको विपुलोन्नतः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.13 · p. 7
ब्रह्मसूषेशऋष्याङ्का शृङ्गारात्ममनोमुखा ।योनिरस्याहितौ प्रोक्तौ शम्बरः शूर्पकोऽपि च ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.50 · p. 7
बभ्रुर्दक्षः शुचिः प्राणः प्रलम्बो भृगुरित्यपि ।वृषाङ्कः शम्बरः शङ्कुः केदारोऽक्षर एव च ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.49 · p. 31
रौहिषः शम्बरः कण्वः शैलमेषे जतुप्रियः ।उन्दुरुर्मूषके तु स्यात्सरटे कृकलासकः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.29 · p. 126
संवरं शम्बरं चापि संभारं सर्वतोमुखम् ।पुष्पं च मेघपुष्पं च रसं घनरसं तथा ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.281 · p. 20
शम्बरं कमलं नीरं कीलालं पुष्करं नलम् ।जलपर्यायपतिः पाशी जनपर्यायधरोऽम्बुदः ॥ २८१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.110 · p. 12
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.122 · p. 14
पृथुरोमा संघचारी मत्स्यो मीनो झषोऽण्डजः ।वैसारिणो विसारी च शम्बरोऽनिमिषस्तिमिः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.69 · p. 41
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.316 · p. 42
अथ कामरिपुर्ज्ञेयः शंवरः शम्बरस्तथा ।शूर्पकश्चापि प्रख्यातः शंवरारिस्ततोऽपि सः ॥ ३१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1856 · p. 303
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2339 · p. 378
ऋष्यसमूरुगोकर्णाः प्रियकः पृषतस्तथा ।शम्बरः शंवरश्चैव संवरः कदली पुनः ॥ २३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2439 · p. 394
मत्स्यो मीनो मूको मत्सः शम्बरः शंवरस्तिमिः ।आत्माशी शकली शल्की विसारः स्वकुलक्षयः ॥ २४३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.24 · p. 83
कालसारः कृष्णसारः कृष्णशारोऽपि कीर्तितः ।शम्बरः सम्बरोऽपि स्यात् रोहिषो रौहिषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.96 · p. 185
पद्मायामीरी आ या च कमला कमलीन्दिरा ।इन्दिः श्री-लक्ष्म्यौ क्विब्यन्तौ यरौ शम्बर-संबरौ ॥ ९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 3, syllable 5 क्ष्म्यौ (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.92 · p. 225
शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् ।कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.367 · p. 248
शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् ।सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.681 · p. 87
कृष्णसारः कृष्णमृगः समौ गवयगोमृगौ ।लम्बन्ते यस्य रोमाणि ककुदि स्यात् स शम्बरः ॥ ६८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.8 · p. 26
पलवः पञ्जराखेटः कण्टकी तु जलेशयः ।आत्माशी शम्बरो मूकोऽनिमिषो वल्कवानपि ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.35 · p. 184
शम्बरः संयुगे वृद्धे मृगदैत्यप्रभेदयोः ।श्रेष्ठे शिवारथौषध्यां शम्बरी शम्बरं जलम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.90 · p. 316
स्याच्छम्ब[52a]रो दैत्यमृगाद्रिमत्स्य-लोकान्तरेष्वम्भसि तु द्वयोनः ।वित्ते च बौद्धव्रतभेदके स्त्रीतथौषधौ स्यात्प्रखरस्तु पुंसि ॥ ९० ॥
उपजातिःmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1761 · p. 201
कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः ।दैत्यभेदे च विज्ञेयो यो बिभर्त्युरसा स्त्रियम् ॥ १७६१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1762 · p. 201
द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च ।क्लीबं तु सलिले बौद्धव्रतभेदे बलेऽप्यथ ॥ १७६२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.102 · p. 273
शम्बरं सलिले क्लीबं ना देत्यमृगभेदयोः ।शम्बरी स्यादासुपर्ण्यां मायायामपि च स्त्रियाम् ॥शर्वरी स्त्री तु यामिन्यां प्रमदायामपि स्त्रियाम् ।शर्करा कर्परांशेऽपि सिता शार्करदेशयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.378 · p. 224
शक्करी मेखलाछन्दः शवरः सलिले शिवे ।स्थिरा महीशालपर्ण्योः शम्बरं संयमे जले ॥ ३७८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.379 · p. 224
शम्बरौ दैत्यहरिणौ सत्त्रं स्यात्कैतवे वने ।स्रोतोञ्जने च सौवीरं काञ्जिके बदरेऽपि च ॥ ३७९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.84 · p. 263
पापेऽपि वृजिनं केशे पुमानिन्दुस्तु शर्वरः ।स्त्री रात्रिसन्ध्याशर्वर्यो र्दैत्ये ना शंबरोऽप्सु षण् ॥ ८४ ॥
अनुष्टुप्
doubtful