कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सेव्य

sevyaक्ली · neut.

In 14 kośas: 22 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र जलकायः Abhidhānacintāmaṇipariśiṣṭa 4.2.1 · p. 6
जले दिव्यमिरा सेव्यं कृपीटं घृतमङ्कुरः ।विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ ॥पावनं षड्रसं चापि पल्लूरं तु सितं पयः ।किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ ॥अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.238
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥लामज्जकं लघुलयमवदाहेष्टकापथे ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.99 · p. 259
अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः ।मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.27 · p. 346
अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः ।किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 185
समगन्धं च सेव्यं च तत्पुनर्बहुमूलकम् ।देवदत्तं मृणालं स्याल्लामज्जं त्वमृणालकम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.103 · p. 58
देवसालः शक्रतरुर्नदीसर्जोऽर्जुनाह्वयः ।अर्जुनः ककुभः सेव्यः सर्पणो धूर्तपादपः ॥ १०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.130 · p. 18
भूजः कुजो लोहिताङ्गो भौमोऽङ्गारक इत्यपि ।गौरः सौम्यो बुधे शौरिः शौरी सेव्यः शनैश्चरे ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1857 · p. 303
पयो यादोनिवासश्च घनरसस्तथोदकम् ।इरा दिव्यं विषं सेव्यं षड्रसं घृतमऽरङ्कुरम् ॥ १८५७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2082 · p. 345
सेव्यं तथाऽवदाहं च ख्यातं लघुलयं पुनः ।नामान्येतानि मन्यन्ते सेव्यस्य विबुधैः खलु ॥ २०८२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.119 · p. 66
रक्तमञ्जरसेव्यौ च सप्त हिज्जलभूरुहे ॥
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.308 · p. 80
मृणालं नलदं सेव्यं लाज-नामज्जकाभयम् ।तृणं नलादयो गर्मुच्छ्यामाककोद्रवादयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.397 · p. 108
भद्राश्रयो गन्धसारः भद्रश्रीः सेव्यरोहिणौ ।तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.592 · p. 76
मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् ।लामज्जं नलदं सेव्यममृणालं वराभये ॥ ५९२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.803 · p. 102
चटकः कलविङ्कः स्यात् सेव्यस्तिलककण्टकः ।आटको बलिभुक् तस्य चटका बल्लभा तयोः ॥ ८०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1147 · p. 141
सेव्यपिञ्जरसंकोचपिशुनाग्निशिखानि च ।अगरु कृमिजं लोहं राजार्हं जाङ्गलान्नकम् ॥ ११४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 137 · p. 538
पुण्ड्रेक्षौ पुण्ड्रकः सेव्यः पुण्ड्रकोऽतिरसो मधुः ।श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.18 · p. 27
धूंक्ष्णा तु श्वेतकाकोऽथ चटको वर आटकः ।बलिभुक्कलविंकश्च सेव्यस्तिलककण्टकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.115 · p. 132
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.120 · p. 133
अक्षीबं बिसिरं सेव्यं सैन्धवं तु नदीभवम् ।माणिमन्थं शितशिवं नादेयं वेधकं पटु ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.142 · p. 134
छिन्नं दधि बुसं रूक्षं खलं सेव्यं च निश्शरे ।बहुसूदनमप्यस्मिन्द्रप्सं स्यादघनं दधि ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.49 · p. 140
मध्वासवोऽसितः सेव्यः शार्करो माधवोऽस्त्रियाम् ।मैरेयमासवो धात्रीधातकीगुडवारिभिः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 8.3.18 · p. 274
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.8 · p. 149
चोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ ।सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 चो (syllables merged); pāda 3, syllable 2 व्य (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.37 · p. 291
दिब्यं लवङ्गे द्युभवेऽन्यवत्स्यात्स्त्रियां भवेदामलकीगतं तत् ।उशीरके सेव्यमुशन्ति षण्ढेसेवोचिते तु त्रिषु संप्रदिष्टम् ॥ ३७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1553 · p. 175
सृत्वरी तु स्त्रियां वाचि जननीवैश्ययोरपि ।सेव्यं तु सेवनीये त्रिर्वातव्येऽप्यथ नब्जले ॥ १५५३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1554 · p. 175
उशीरे नि शरे दध्नि पत्राङ्गाह्वयभेषजे ।अब्धिजे लवणे ना तु मध्वासव इति श्रुते ॥ १५५४ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1555 · p. 175
मद्यभेदे स्त्रियां तु स्यात् सेव्या नीवारधान्यके ।वन्दाकेऽप्यज्झटासंज्ञस्तम्बेऽथ चटके द्वयोः ॥ १५५५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.348 · p. 32
शल्यं क्ष्वेडे च मदने शल्यः सेव्यस्तु पौण्ड्रके ।सेव्या तु हृद्यगन्धायामथ सेव्यं रणप्रिये ॥ ३४८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.37 · p. 260
गणदेवविशेषे ना साधनीयेऽभिधेयवत् ।सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः ।सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् ।सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे ।हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)

सेव्य as a meaning in nānārtha verses

  • कोषकल्पतरु नलदश्रीदे पुमान्स्याद्धनदो वदान्ये । स्यान्मुस्तकेऽब्दे जलदोऽथ पुष्प- रसे च मांस्यां नलदं च सेव्ये ॥ २९ ॥ Koṣakalpataru 6.19.29
  • शिवकोष शीघ्रसेव्ये शुभ्रस्तु सुमने शुभ्रा वंश्याहिछत्रयोः । शुभ्रं वरेऽभ्रके सारो लोहदाडिम्बयाज्ञिके ॥ ३९० ॥ Śivakoṣa 22.2.390