जलधर
jaladharaपुं · masc.In 9 kośas: 8 synonym verses, 4 as a meaning of another word.
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.doubtful
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् ।घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः ।अर्जुनाह्वो नदीसर्जो वीरद्रुः ककुभोऽप्यथ ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
बालग्रहाः पूतनाद्या अथ मेघो बलाहकः ।जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः ।धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् ।धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
स्तनयित्नुश्च पर्जन्यो धाराधरो बलाहकः ।नभोध्वजो जलधरो जलवाहश्च वार्मसिः ॥ १६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
जलधर as a meaning in nānārtha verses
- परमानन्दीयनाममाला घनघनो जलधरे वृन्दे बहुले वादिभिद्यपि ॥ १७१ ॥ Paramānandīyanāmamālā 5.10.171
- शब्दरत्नावली स्तनयित्नुसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली कन्धरशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- शब्दरत्नाकर स्तनयित्नुसमाहारस्तु संक्षेप एकत्रकरणेऽपि च । स्तनयित्नुर्जलधरे तदीये गर्जितेऽपि च ॥ २२२९ ॥ Śabdaratnākara 4.1.2229