निकसात्मज
nikasātmajaपुं · masc.In 3 kośas: 3 synonym verses.
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
क्रव्यादः कर्बरः क्रव्यात् रक्तग्रीवश्च नैऋतः ।पुण्यजनः पलादश्च हनुषो निकसात्मजः ॥ २१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
genderपुंmasc.