कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रव्याद्

kravyādपुं · masc.

In 17 kośas: 19 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.188 · p. 11
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.60
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
वर्षोपले निगदिताः करका करकः करः ।रात्रिंचरो रात्रिचरः क्रव्यात् क्रव्याद उच्यते ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.82 · p. 15
रक्षो निशाचरो यातु राक्षसो जाललोहितः ।रात्रिञ्चरो रात्रिचरः क्रव्यात्क्रव्याद इत्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.16 · p. 378
क्रव्यादोऽथ तृणोद्भूते स्यात्तरत्सम इत्यपि ।ज्वलतः प्रोद्गतकणे स्यातां सुक्षरकुष्करे ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.58 · p. 386
कर्बूरः स्यात्पुण्यजनः क्रव्यात् क्षश्चापि नैरृतः ।विखुरः कोणपः शङ्कुरासरो रतविष्वणः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.61 · p. 386
अस्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः ।क्रव्याच्चापि पिशाचश्च कापिशेयोऽस्य मातरि ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.147 · p. 22
क्रव्यात्कर्बुर-कर्बरौ कुणपभुग्रात्रिंचरो रात्र्यटोदर्वो रात्रिमटोऽस्त्रपोऽश्रप इह स्यादाशिरश्चाशरः ।शङ्कुः पुण्यजनो नृचक्षसि मतौ क्रव्याद-कर्बूरकौप्रोक्ता नैर्ऋत-नैकषेय-रघुपद्वेष्या भवेदूर्दरः (?) ॥ १४७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.84 · p. 16
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.342 · p. 24
नैरृतः कौणपः क्रव्यादाशरो निकषात्मजः ।पाशी प्रचेता वरुणो यादसांपतिरप्पतिः ॥ ३४२ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 7 · p. 467
आशिरो हनुषः शङ्कुः क्रव्यादोऽस्रप आशरः ॥ ७ ॥
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.212 · p. 28
क्रव्यादः कर्बरः क्रव्यात् रक्तग्रीवश्च नैऋतः ।पुण्यजनः पलादश्च हनुषो निकसात्मजः ॥ २१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.145 · p. 11
राक्षसः कर्बुरः क्रव्यात् क्रव्यादो निकषात्मजः ।सन्ध्याबलः पुण्यजनः क्षपाटो रजनीचरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.73 · p. 183
त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः ।जातुधानो यातुधानो जातु यातु च षण्ढकौ ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.102 · p. 14
क्रव्यात्परेतदहनो वह्निः स्यात्कव्यवाहनः पैत्रः ।अनलौ तु भरतसुलभौ ब्रह्मौदनपाकयज्ञयोः क्रमतः ॥ १०२ ॥
गीतिः
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 17 · p. 532
सदान्नादकणादौ च स्यात् क्रव्यादाममांसभुक् ।क्रव्यादः कृत्तविकृतपक्वमांसभुगुच्यते ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 18 · p. 532
नैरृतः कर्बरः क्रव्यात् कर्बुरो यातुरक्षसी ॥ १८ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.22 · p. 10
क्रव्यात्तु प्रेतदाहाग्निर्देवाग्निर्हव्यवाहनः ।सहरक्षास्तु दैत्यानां पितॄणां कव्यवाहनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.40 · p. 12
अथ रक्षांसि यातूनि राक्षसा अललोहिताः ।रात्रिञ्चरा रात्रिचराः क्रव्यात्क्रव्यादनैर्ऋताः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.13 · p. 95
ककुद्वत्ककुदं ? श्रेष्ठे वृषाङ्गे नृपलक्षणे ।क्रव्यात्क्रव्याद इत्येतौ स्यातां मांसाशिरक्षसोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.38 · p. 237
रक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौकुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् ।वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनिस्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.177 · p. 58
श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः ।राक्षसे त्रि तु मांसादे कर्मशब्दस्तु पुन्नपोः ॥ १७७ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1889 · p. 230
फाले बाणान्तरे दम्भे भग्नशृङ्गवृषे तु ना ।तरक्षौ रक्षसि क्रव्याल्लुब्धके च चितानले ॥ १८८९ ॥
अनुष्टुप्