कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यातु

yātuपुं · masc.

In 16 kośas: 19 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.188 · p. 11
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.60
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.73 · p. 10
यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
metre not recognised
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.26 · p. 68
राक्षसो यातु रक्षश्च क्रव्यादो जाललोहितः ।नैऋतो यातुधानश्च नैकषेयश्च कथ्यते ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.82 · p. 15
रक्षो निशाचरो यातु राक्षसो जाललोहितः ।रात्रिञ्चरो रात्रिचरः क्रव्यात्क्रव्याद इत्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.59 · p. 386
कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् ।क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.107 · p. 473
तुम्बरुस्वादुयातूनां मालुताल्वोरनन्तरम् ।कसेरोश्च शलालोश्च ललामजगतोरपि ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.146 · p. 22
जातुधानो यातुधानो राक्षसो नरविष्वणः ।हनूषः कौणपश्चातुर्द्दशोऽन्त्ये यातुरक्षसी ।कापिशेयः पीडकः स्याद्याम्या यमभवा त्रिषु ॥ १४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.1 · p. 39
कालोऽमतिश्चायतिरप्यनेहास वत्सरात्मा समयो भवन्तः ।पारुश्च पीयुर्जहकोऽपि जिव्रि-र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 ल (wrong syllable); pāda 2, syllable 7 ग्नः (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.85 · p. 16
यात्वाशरस्तथासृक्पः कटप्रूश्चोच्यते बुधैः ।सूर्योऽर्कः किरणः पूषा सविता तरणिः खगः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.100 · p. 223
शलाल्वालुभसद्रोमललामानि पृषत्तथा ।पुरीतत्सक्थिनी यातु स्वादुतुम्बुरुणी अ[7]पि ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.96 · p. 13
नैऋतः कर्बुरो यातु पुण्यात्मा निर्जरोंऽशुमान् ।तत्खड्गे तु मुसुण्डः स्यात्तद्धनुः कमलं मतम् ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.214 · p. 29
यातुः संध्याबलः शङ्कुः उद्धरो जललोहितः ।रात्रिञ्चरो नृचक्षाश्च विथुरः समितीपदः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.147 · p. 11
पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ ।वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.186 · p. 124
भावे कर्मणि दूतस्य दूत्यमित्यभिधीयते ।पथिको मन्तुरध्वन्योऽध्वनीनो यातुरध्वगः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.73 · p. 183
त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः ।जातुधानो यातुधानो जातु यातु च षण्ढकौ ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.121 · p. 16
पुण्यजनयातुधानक्रव्यात्क्रव्यादपुरुषादाः ।नैकषेयो रात्रिचरो नैर्ऋतो यातुरक्षसी ॥ १२१ ॥
metre not recognised
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 18 · p. 532
नैरृतः कर्बरः क्रव्यात् कर्बुरो यातुरक्षसी ॥ १८ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.40 · p. 12
अथ रक्षांसि यातूनि राक्षसा अललोहिताः ।रात्रिञ्चरा रात्रिचराः क्रव्यात्क्रव्यादनैर्ऋताः ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.17 · p. 207
भातुर्मयूखे खरभासि चाथयातुः पुमानध्वगकालयोः स्यात् ।क्लीबे तु रक्षस्यथ धातुरश्म-विकारपञ्चेन्द्रियगोचरेषु ॥ १७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1061 · p. 133
यातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते ।पथिके त्रिष्विति स्त्री तु याता देवरयोषिति ॥ १०६१ ॥
अनुष्टुप्