कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यातुधान

yātudhānaपुं · masc.

In 15 kośas: 14 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.188 · p. 11
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.60
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.73 · p. 10
यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.26 · p. 68
राक्षसो यातु रक्षश्च क्रव्यादो जाललोहितः ।नैऋतो यातुधानश्च नैकषेयश्च कथ्यते ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
जातुधानो यातुधानो जातूधानश्च दृश्यते ।वातिर्वाता च वातः स्यान्मारुतो मरुतो मरुत् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.83 · p. 15
नैकषेयो यातुधानः पुरुषादः प्रवाहिकः ।नैर्ऋतो हनुषोपि स्याद्विधुरो नीलविग्रहः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.56 · p. 386
सन्ध्याबलो यातुधानो हनूषः शमनीषदः ।उद्वरस्तब्धसंभारपलप्रियकखासुताः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.146 · p. 22
जातुधानो यातुधानो राक्षसो नरविष्वणः ।हनूषः कौणपश्चातुर्द्दशोऽन्त्ये यातुरक्षसी ।कापिशेयः पीडकः स्याद्याम्या यमभवा त्रिषु ॥ १४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 55 · p. 29
जाङ्गलं पिशितं मांसं पलं पेशी च तत्प्रियः ।यातुधानस्तथा रक्षो रात्र्यादिचर इष्यते ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.83 · p. 15
संयमन्यन्तकस्य स्यादेष वर्ग उदाहृतः ।राक्षसः कौणपो रक्षो यातुधानः पलादनः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.213 · p. 29
नैकसेयः खसापुत्रः यातुधानः पलप्रियः ।त्रिशिराः स्तब्धसंभारः रात्रिबलः प्रवाहिकः ॥ २१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.73 · p. 183
त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः ।जातुधानो यातुधानो जातु यातु च षण्ढकौ ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.121 · p. 16
पुण्यजनयातुधानक्रव्यात्क्रव्यादपुरुषादाः ।नैकषेयो रात्रिचरो नैर्ऋतो यातुरक्षसी ॥ १२१ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.41 · p. 12
कैकसेया यातुधानाः पुरुषादाः प्रवाहिकाः ।अनुषा विधुरा रक्तग्रहाः शंकव आशराः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.

यातुधान as a meaning in nānārtha verses