कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निशाचर

niśācaraपुं · masc.

In 12 kośas: 8 synonym verses, 8 as a nānārtha head word, 14 as a meaning of another word.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.82 · p. 15
रक्षो निशाचरो यातु राक्षसो जाललोहितः ।रात्रिञ्चरो रात्रिचरः क्रव्यात्क्रव्याद इत्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.478 · p. 302
कटुतिक्तस्तु चमनो माल्यपुष्पो निशाचरः ।स्याद्दीर्घात्पल्लवः शाखस्त्वक्सारः शाण इत्यथ ॥ ४७८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 169 · p. 81
चौरैकागारिकस्तेनास्तस्करः प्रतिरोधकः ।निशाचरो गूढनरो हेरिकः प्रणिधिश्च सः ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.84 · p. 16
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.341 · p. 24
प्रेतराजः पितृपतिः कालो महिषवाहनः ।निशाचरः पललभुग्राक्षसः कर्बुरोऽस्रपः ॥ ३४१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.36 · p. 84
श्येनः पत्री कपोतारीः पतद्भीरुः शशादनः ।पेचको बायसारातिर्दिवाभीतिर्निशाचरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1563 · p. 189
प्रतिरोधी परास्कन्दी चौरिकः पारिपन्थिकः ।पाटच्चरैकागरिकौ प्रतिमोष्टा निशाचरः ॥ १५६३ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.60 · p. 32
-----------------------------------निशाचरो ध्वजी भीमो विचित्रः कौषिको यमः ।लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.74 · p. 177
निषद्वरस्तु जम्बालो निशा निषद्वरी मता ।निशाचराः समाख्याता भूतराक्षसपेचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.92 · p. 330
उलूककाकोदरयातुधान-शृगालवाची तु निशाचरः स्यात् ।स्त्री पांसुलायामथ यूथतः स्याद्भ्रष्टे पृथक्चारिणि चापि नागे ॥ ९२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.306 · p. 52
इत्येवं नागदन्ती तु स्त्री निकुम्भादिनामभिः ।प्रसिद्धे भेषजस्तम्बे द्वयोस्तु स्यान्निशाचरः ॥ ३०६ ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.307 · p. 52
सर्पे च राक्षसे चापि स्त्रियां तु स्यान्निशाचरी ।सृगालजातिभेदे च शिवाख्ये दुष्टयोषिति ॥ ३०७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.308 · p. 52
स्यान्निशाचारिमात्रे त्रि स्त्रियां तु स्यान्निरञ्जना ।एकत्र शक्तौ शक्तीनां नवानामपि शार्ङ्गिणः ॥ ३०८ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.280 · p. 197
निशाचरस्तु जम्बूकरक्षसोश्चौरसर्पयोः ।नन्द्यावर्तं पुरे वृक्षे गेहभेदेऽपि दृश्यते ॥ २८० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.130 · p. 275
धृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि ।नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु ।वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.12 · p. 278
निरूपणा नपुं स्त्री च निरीक्षणविचारयोः ।निशाचर्यसती फेरू रक्षः सर्पौ निशाचरौ ॥ १२ ॥
अनुष्टुप्

निशाचर as a meaning in nānārtha verses

  • धरणिकोश कर्बूरपङ्खरः कठिने वास इड्डिपर्णी च मार्जरी ? । कर्बूरं हेम्नि किर्मीरे कर्बूरस्तु निशाचरः ॥ Dharaṇikośa 26.2.40
  • कोषकल्पतरु बकन स्त्री तु कन्दा[248a]दिदशप्रकारे धाको वृषे पुंसि तथाश्रये च । मूकस्तु दीनावचसोस्त्रिलिङ्ग्यां भूकं तु रन्ध्रे समये तु पुंसि । बको बकोटे बकपुष्पके च धनाधिनाथे च निशाचरे च । शूकोऽपि धान्याद्यतितीक्ष्णकाग्रे शुद्धे कृपायामपि न स्त्रियां स्यात् ॥ १५ ॥ Koṣakalpataru 6.1.15
  • कोषकल्पतरु त्रिशिखनिशाचरे तु त्रिशिखस्त्रिशूल- शैलाग्रयोस्तु द्वयहीनमाहुः ॥ ८१ ॥ Koṣakalpataru 6.2.81
  • कोषकल्पतरु पुण्यजनस्यात्सज्जने पुण्यजनश्च यक्षे निशाचरे चाथ विसर्जनं स्यात् । दाने परित्यागविधौ तथैव । संप्रेषणे चाथ पृथग्जनः स्यात् ॥ ५ ॥ Koṣakalpataru 6.21.5
  • कोषकल्पतरु विलासिन्वृक्षेऽप्यपामार्गतरौ च दुर्गे क्लीबे तु तद्धीरकरत्नवाचि । व्याले विलासी भुजगे सभोगे निशाचरे किं च तरौ पलाशी ॥ ४० ॥ Koṣakalpataru 6.21.40
  • कोषकल्पतरु रक्तपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
  • कोषकल्पतरु शबरअर्चेय( ? )संतत्यभिधानवाची- श्रेष्टेऽन्यवत्स्याच्छबरस्तु पुंसि । शंभौ च चाण्डालकजातिभेदे क्लीबे तु तोयेऽथ निशाचरे स्यात् ॥ ८८ ॥ Koṣakalpataru 6.27.88
  • कोषकल्पतरु ऊर्दरपुंस्यूर्दरो वीरगतोऽपि दिष्टो मुनौ तु शौण्डे मठरस्तथैव । स्यादम्बरं वाससि चान्तरिक्षे कर्पासके स्याच्च सुगन्धभेदे ॥ ८९ ॥ Koṣakalpataru 6.27.89
  • कोषकल्पतरु आशिरमल्लीप्रसूनेऽप्यजिरं तु न स्त्री कायेऽङ्गनेऽन्त्ये नरि दर्दुरे स्यात् । स्यादाशिरश्चाशरवद्धुताशे निशाचरेऽर्के शिशिरस्त्वृतौ ना ॥ ११ ॥ Koṣakalpataru 6.27.11
  • कोषकल्पतरु विथुरस्याद्दन्तुरो वाच्यगतोऽसमोच्च- दतोरथ स्याद्विदुरोऽपि पाण्डोः । शूद्रासुते नागरधीरयोश्च निशाचरे स्याद्विथुरश्च चौरे ॥ १४ ॥ Koṣakalpataru 6.27.14
  • कोषकल्पतरु किर्मीरनिशाचरे कर्बुरके[58a]ऽन्यवत्स्या- च्छोणान्तरस्थे पुलिने शणीरम् । भवेत्तथा दुर्दुरिकातटेऽथ स्यात्प्रस्थपुष्पे नरि जम्बुवृक्षे ॥ ५६ ॥ Koṣakalpataru 6.27.56
  • कोषकल्पतरु नीलाम्बरऔदुम्बरः कृतान्ते पित्तजकुष्ठामये त्वन्ये । नीलाम्बरो हलधरे निशाचरे क्रूरलोचने तद्वत् ॥ ९९ ॥ Koṣakalpataru 6.27.99
  • परमानन्दीयनाममाला पेचकपाचलोऽग्नौ समीरे च पिङ्गला स्नायुवेश्ययोः । पेचको गजलाङ्गूलमूले घूके निशाचरे ॥ ३१३ ॥ Paramānandīyanāmamālā 5.19.313
  • तन्त्राभिधान छमाता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥ ७८ ॥ Tantrābhidhāna 2.24.78