कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यादःपति

yādaḥpatiपुं · masc.

In 9 kośas: 13 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.188 · p. 11
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.5 · p. 344
विततश्चन्द्रपर्यायजनको यादसां पतिः ।रत्नाकरोऽपि जलदस्तद्भेदा लवणादयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.151 · p. 23
यादःपति-र्वारिपतिः प्रचेताःपाश्यम्बुकान्तार-परंजनाः स्युः ।प्रत्यक्पतिर्वो वरुणोऽर्णवौकाआभोग एतस्य तथातपत्रम् ॥ १५१ ॥
इन्द्रवज्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.17 · p. 100
स्रोतःपतिस्तविष-ताविष-धेन-यादः-पत्यूर्मितात-वरुणालय-मीनकोषाः ।वार्धिः कृपीटमणि-कुस्तुभकाविरावान्क्लीबेऽत्र शैलशिबिरं च महासरश्च ॥ १७ ॥
वसन्ततिलका
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.70 · p. 14
यादःपतिस्तथा मेघनादः पश्चिमदिक्पतिः ।परञ्जनोऽथ धनदः कुबेरो नरवाहनः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.352 · p. 48
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.54 · p. 7
वरुणः पाशभृच्चैव प्रचेता अब्धिमन्दिरः ।यादःपतिर्जलपतिः पाशी पश्चिमदिक्पतिः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.113 · p. 13
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.166 · p. 29
यादःपतिरपांनाथः ज्ञेयाः जलपतिस्तथा ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1868 · p. 305
नदीशो यादईशश्च स्रोतईशश्च दारदः ।यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.75 · p. 183
वरुणे यादःपतियुक् यादसांपतिरप्पतिः ।अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दः (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.96 · p. 226
वार्द्धिर्वारिनिधिरुत्सोत्सू अपांपतिरप्पतिः ।यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥ ९६ ॥
metre not recognised
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.101 · p. 15
महिषे स्याद्यमरथो यमस्य स्यन्दनेऽपि च ।यादःपतिस्तु वरुणे समुद्रेऽथ युधिष्ठिरः ॥ १०१ ॥
अनुष्टुप्

यादःपति as a meaning in nānārtha verses

  • कोषकल्पतरु पाशिन्यादःपतौ पाशधरे च पाशी नन्दी तु शंभोः प्रतिहारभेदे । ना गर्दभाण्डे [च] वटद्रुमे च ननान्दरि स्त्री च वसिष्ठधेन्वा[18a]म् ॥ ७८ ॥ Koṣakalpataru 6.21.78