रात्रिंचर
rātriṃcaraपुं · masc.In 9 kośas: 10 synonym verses, 3 as a meaning of another word.
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
चोरे तु चोरडो रात्रिंचरो याच्ञा तु भिक्षणा ॥ ९३ ॥अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ ।भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनास्रवाः ॥ ९४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 तु (wrong syllable)
genderपुंmasc.
वर्षोपले निगदिताः करका करकः करः ।रात्रिंचरो रात्रिचरः क्रव्यात् क्रव्याद उच्यते ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
रात्रिंचरो रात्रिचरप्रतिरोधिमलिम्लुचाः ।शङ्किताक्षर आस्कन्दी वन्दीकारस्तु माचलः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
रात्र्यर्थाद्बलपर्यायस्त्रिशिराश्च प्रवाहिकः ।रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
क्रव्यात्कर्बुर-कर्बरौ कुणपभुग्रात्रिंचरो रात्र्यटोदर्वो रात्रिमटोऽस्त्रपोऽश्रप इह स्यादाशिरश्चाशरः ।शङ्कुः पुण्यजनो नृचक्षसि मतौ क्रव्याद-कर्बूरकौप्रोक्ता नैर्ऋत-नैकषेय-रघुपद्वेष्या भवेदूर्दरः (?) ॥ १४७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
असुरा राक्षसा जातुधाना रक्षांसि नैर्ऋताः ।रात्रिंचराः पुण्यजनाः पलादाश्रपरक्तपाः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
शङ्कावश्नपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् ।रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आभीलकष्टकृच्छ्राणि भेद्यवर्तिनि चेत् त्रिषु ।आशरकौणपकर्बुरराक्षसरात्रिंचरासृक्पाः ॥ १२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
रात्रिंचर as a meaning in nānārtha verses
- कोषकल्पतरु विधुकर्पूररात्रिंचरयोरथो ना सिन्धुर्नदेऽब्धौ वमथौ च देशे । नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो- स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥ Koṣakalpataru 6.20.65
- कोषकल्पतरु भीष्मभीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ Koṣakalpataru 6.25.67
- कोषकल्पतरु शार्दूलदोहदवत्यां श्राद्धे त्रिष्वथ रात्रिंचरे व्याघ्रे । शार्दूलः पशुभेदे पदोत्तरस्थस्त्रिषु श्रेष्ठे ॥ ५० ॥ Koṣakalpataru 6.28.50