कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नैरृत

nairṛtaपुं · masc.

In 14 kośas: 22 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.169 · p. 11
तिर्यग्दिशां तु पतय इन्द्राग्नियमर्नैरृताः ।वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 म (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.188 · p. 11
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.60
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.1
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.73 · p. 10
यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.100 · p. 13
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.83 · p. 15
नैकषेयो यातुधानः पुरुषादः प्रवाहिकः ।नैर्ऋतो हनुषोपि स्याद्विधुरो नीलविग्रहः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.58 · p. 386
कर्बूरः स्यात्पुण्यजनः क्रव्यात् क्षश्चापि नैरृतः ।विखुरः कोणपः शङ्कुरासरो रतविष्वणः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.59 · p. 386
कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् ।क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.25 · p. 408
विधिस्तु रौहिणो विन्दोऽथोबलश्च विरेचनः ।एकादशस्तु विजयः पुरुहूतोऽथ नैरृतः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.33 · p. 409
स्यान्नैरृतः पञ्चदशः स्याच्चतुर्भिस्तु तैः पुनः ।प्रहरश्च यमो यामो घटीपर्यायमालकः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.147 · p. 22
क्रव्यात्कर्बुर-कर्बरौ कुणपभुग्रात्रिंचरो रात्र्यटोदर्वो रात्रिमटोऽस्त्रपोऽश्रप इह स्यादाशिरश्चाशरः ।शङ्कुः पुण्यजनो नृचक्षसि मतौ क्रव्याद-कर्बूरकौप्रोक्ता नैर्ऋत-नैकषेय-रघुपद्वेष्या भवेदूर्दरः (?) ॥ १४७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.21 · p. 28
इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः ।धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥
उपगीतिः
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1050 · p. 139
निषधाद्रेरुत्तरस्मिन् वर्षे हरिवर्षसंज्ञके ।निषधस्य तु सम्बन्धिन्येतत् त्रिरथ नैर्ऋतः ॥ १०५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हरि (syllable split)
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.84 · p. 16
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.160 · p. 25
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.342 · p. 24
नैरृतः कौणपः क्रव्यादाशरो निकषात्मजः ।पाशी प्रचेता वरुणो यादसांपतिरप्पतिः ॥ ३४२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.58 · p. 7
असुरा राक्षसा जातुधाना रक्षांसि नैर्ऋताः ।रात्रिंचराः पुण्यजनाः पलादाश्रपरक्तपाः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.178 · p. 25
इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ।वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.121 · p. 16
पुण्यजनयातुधानक्रव्यात्क्रव्यादपुरुषादाः ।नैकषेयो रात्रिचरो नैर्ऋतो यातुरक्षसी ॥ १२१ ॥
metre not recognised
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 18 · p. 532
नैरृतः कर्बरः क्रव्यात् कर्बुरो यातुरक्षसी ॥ १८ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.40 · p. 12
अथ रक्षांसि यातूनि राक्षसा अललोहिताः ।रात्रिञ्चरा रात्रिचराः क्रव्यात्क्रव्यादनैर्ऋताः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1051 · p. 139
राक्षसे द्वे तु निरृतिसम्बन्धिनि पुनस्त्रिषु ।अथ पुंसि पवित्रः स्याद् वासुदेवे पुरन्दरे ॥ १०५१ ॥
अनुष्टुप्
doubtful