कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्वर्णन

nirvarṇanaक्ली · neut.

In 7 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.302 · p. 25
असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ॥ ५७६ ॥निभालनं निशमनं निध्यानमवलोकनम् ।दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ ५७७ ॥अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.57
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.149 · p. 36
दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् ।उपाङ्गदर्शनं काक्षः कटाक्षोऽक्षि विकूणितम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.74 · p. 243
निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् ।प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.163 · p. 92
निर्वर्णनं स्यान्निध्यानं दर्शनं च निभालनम् ।निशामनं निशमनं वीक्षणं च निरूपणम् ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.651 · p. 141
तथा निर्वर्णनं चेति नामानि दर्शनस्य हि ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 3, syllable 3 वि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.60 · p. 174
दर्शनेक्षणनिध्यानालोकनञ्च निर्वर्णनम् ।प्रत्यादेशो निरसनं प्रत्याख्यानं निराकृतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.20 · p. 89
प्रतिरूपं प्रतिच्छन्दः संवेशनरतिक्रिये ।अभ्यासः खुरली योग्या निर्वर्णननिभालने ॥ २० ॥
अनुष्टुप्
genderक्लीneut.