कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

तृतीयः काण्डः · सङ्कीर्णवर्गः

इति विशेष्यनिघ्नवर्गः ॥ १ ॥

विधिविधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ।व्याप्यं तु साधनं कर्म्मयुताज्ञेय्ये तु सङ्गतम् ॥ १ ॥
3.2.1 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 धि (wrong syllable)
अङ्गारितं पलाशानां कलिकोद्गमने स्मृतम् ।जलयन्त्रगृहं धीरैः समुद्रगृहमुच्यते ॥ २ ॥
3.2.2 · p. 86
अनुष्टुप्
जलहं तु विदुः स्वल्पे सोमालं कुसुमाकरे ।स्तनाभोगः स्तनभरः परभागः स्वसम्पदि ॥ ३ ॥
3.2.3 · p. 86
अनुष्टुप्
आलिङ्गनं त्वङ्कपालिः श्लिषा खट्टिस्त्वसद्ग्रहः ।स्यादज्ञेनेडकः सग्धिः सहभोजनमत्यापे ॥ ४ ॥
3.2.4 · p. 86
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 त्या (wrong syllable)
धार्मिकाणां तु सम्भूय भोजनं गणचक्रकम् ।क्रीडाक्रीडकयोर्देश्च सेवायां सेवके च सेः ॥ ५ ॥
3.2.5 · p. 87
अनुष्टुप्
दानं दायोऽथ दुर्जातं दुःषमं चासमञ्जसम् ।कलञ्जौ तौ विषास्त्रेण हतौ यौ मृगपक्षिणौ ॥ ६ ॥
3.2.6 · p. 87
अनुष्टुप्
छेकोक्तिर्वक्रभनितं गोमुखं तूपलेपनम् ।हार्षायणाप्तं यत्पूर्णपात्रं पूर्णानकं च तत् ॥ ७ ॥
3.2.7 · p. 87
अनुष्टुप्
श्रुत्थुको विक्रियामात्रादुद्भटायनमुच्यते ।बुद्धद्रव्यं स्तौपिकं स्यात्सत्त्वं द्रव्यं च वस्तु च ॥ ८ ॥
3.2.8 · p. 87
अनुष्टुप्
लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि ।छेदः खण्डोऽस्त्रियां गलिः शपनं शमनं शमः ॥ ९ ॥
3.2.9 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ग (wrong syllable)
वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ।मैत्रेयिका मित्रयुद्धं पर्यङ्कस्त्ववसक्थिका ॥ १० ॥
3.2.10 · p. 87
अनुष्टुप्
अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ।अनुमा त्वनुमाने स्याद्व्याप्यं लिङ्गं च साधनम् ॥ ११ ॥
3.2.11 · p. 88
अनुष्टुप्
प्रत्यक्षोऽपाक्षमध्यक्षं धन्धो धाध्यमपाटवम् ।बोधो बोधिः समन्तात्तु ज्ञानं स्यात्समुदागमः ॥ १२ ॥
3.2.12 · p. 88
अनुष्टुप्
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।साङ्ख्यं समीक्षं स्याद्दिव्यदोहदं तूपयाचितम् ॥ १३ ॥
3.2.13 · p. 88
अनुष्टुप्
करिणो रूपमिच्छन्ति कर्णास्फाले झलज्झला ।रामेण रावणवधो रामायणमथोच्चयः ॥ १४ ॥
3.2.14 · p. 88
अनुष्टुप्
वस्त्रग्रन्थिश्च नीवी स्यान्मणितं रतकूजितम् ।श्वभ्रोवपातो हल्लेखस्तर्कश्चीर्णं लु शीलितम् ॥ १५ ॥
3.2.15 · p. 88
अनुष्टुप्
एकीया एकपक्षाः स्युः सहायाः सहभाविनः ।कुलीरास्थ्ये गविर्जानपदा राष्ट्रनिवासिनः ॥ १६ ॥
3.2.16 · p. 89
अनुष्टुप्
प्रत्यक्षी व्यक्तदृष्टार्थश्चाऽथ कर्तनतर्कुटे ।चिरकाले दीर्धरात्रममिक्षा मस्तु वाजिनम् ॥ १७ ॥
3.2.17 · p. 89
अनुष्टुप्
तदात्वं प्रमुखं राजमल्ल उत्सिक्त उद्धृतः ।द्वैधं विवाद आरम्भ आदराडम्बरार्थकः ॥ १८ ॥
3.2.18 · p. 89
अनुष्टुप्
रभसो गमकारित्वं कौमुदी कार्तिकोत्सवे ।आवेशाटोपसंरम्भाः प्रियवाक्चटु चाटुनी ॥ १९ ॥
3.2.19 · p. 89
अनुष्टुप्
प्रतिरूपं प्रतिच्छन्दः संवेशनरतिक्रिये ।अभ्यासः खुरली योग्या निर्वर्णननिभालने ॥ २० ॥
3.2.20 · p. 89
अनुष्टुप्
शालिनीकरणं न्यग्भावनं गन्धनसूचने ।भावः पदार्थो धर्मः स्यात्सत्त्वं सत्त्वं च वस्तु च ॥ २१ ॥
3.2.21 · p. 89
अनुष्टुप्
सन्दर्भस्तु प्रबन्धः स्याद्ग्रन्थो द्वात्रिंशदक्षरी ।सर्गबन्धो महाकाव्यं महारूपकनाटके ॥ २२ ॥
3.2.22 · p. 90
अनुष्टुप्
अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ।आख्यायिका परिकथा कलापकविशेषकौ ॥ २३ ॥
3.2.23 · p. 90
अनुष्टुप्
सन्दानमनिरुद्धं च प्रकीर्णं गुत्सकस्तथा ।सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्कसङ्ग्रहाः ॥ २४ ॥
3.2.24 · p. 90
अनुष्टुप्
उच्छ्वासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ।स्थानं प्रकरणं पर्वाह्निकं च ग्रन्थसन्धयः ॥ २५ ॥
3.2.25 · p. 90
अनुष्टुप्
प्रज्ञप्तिः परिभाषाशैलीसङ्केतसमयकाराश्च ।प्रतिवाणी प्रतिवचनं समुदाचारस्त्वभिप्रायः ॥ २६ ॥
3.2.26 · p. 90
आर्या
अप्रतिरूपकथा स्यात्सङ्गणिका छोरणं परित्यागः ।स्यादुद्वर्धनमन्तर्हासस्त्रिषु पिण्डमाहारः ॥ २७ ॥
3.2.27 · p. 90
आर्या
अवसर्गः प्राकाम्यं स्वाच्छन्द्यानुमननमित्यपि च ।आकल्पक उत्कण्ठा चिन्ताकर्मण्यथास्त्यानम् ॥ २८ ॥
3.2.28 · p. 90
उपगीतिःmetre not read in every line
आक्षेपोऽत्याकारः स्वाध्यायः स्यान्निरन्तराभ्यासः ।हर्षस्वनः किलकिला सदृशस्यन्दस्तु निःस्यन्दः ॥ २९ ॥
3.2.29 · p. 91
metre not recognised
अवसानं तु विरामोऽमध्यमथो मण्डलं चक्रम् ।यादारम्भः प्रस्तावना तदामुखमपि ज्ञेयम् ॥ ३० ॥
3.2.30 · p. 91
metre not recognised

इति सङ्कीर्णवर्गः ॥ ५ ॥

;homonymic
3.2.31 · p. 91
Latin letters: homonymic