कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दर्शन

darśanaक्ली · neut.

In 16 kośas: 21 synonym verses, 10 as a nānārtha head word, 43 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.302 · p. 25
असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ॥ ५७६ ॥निभालनं निशमनं निध्यानमवलोकनम् ।दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ ५७७ ॥अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.57
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.566 · p. 64
निभालनं निशामनं निध्यानमवलोकनम् ।ईक्षणं दर्शनं दृष्टिर्द्योतनं च समं स्मृतम् ॥ ५६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)
genderक्लीneut.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात षट्संख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 6.15 · p. 200
रस-राग-चक्रकोणास्त्रिशिरोनेत्रा-ऽन्तराणि गुण-तर्काः ।दर्शन-गृहमुख-भूषण्ड-चक्रिणः स्युरिह षट् संख्याः ॥ १५ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.147 · p. 36
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.149 · p. 36
दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् ।उपाङ्गदर्शनं काक्षः कटाक्षोऽक्षि विकूणितम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.74 · p. 243
निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् ।प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.6 · p. 66
शास्त्रे दर्शनमप्यथाधिकरणं न्यायो नयः सम्मतोमीमांसा तु विचारणा विधिरिहाप्राप्तार्थसंप्रापणम् ।आन्वीक्षिक्युदितात्र तार्क्किकनयः सर्गादिभिः पञ्चभिःसंयुक्तं किल पञ्चलक्षणमिति प्रोक्तं पुराणं च तत् ॥ ६ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.163 · p. 92
निर्वर्णनं स्यान्निध्यानं दर्शनं च निभालनम् ।निशामनं निशमनं वीक्षणं च निरूपणम् ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 220
ईक्षणं लोचनं देहदीपोऽम्बक-विलोचने ।दर्शनं तारकं * * [तार] - तारके च कनीनिका ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.241 · p. 131
चान्द्रं तु नयनं वामं दक्षिणं भानुदैवतम् ।ईक्षणं दर्शनं तुल्ये निशामननिभालने ॥ २४१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.922 · p. 140
नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.925 · p. 141
निभालनं च निध्यानं दर्शनमवलोकनम् ।ईक्षणं द्योतनं चापि निशमनं निशामनम् ॥ ९२५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 र्श (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.317 · p. 103
दैवदीपो दर्शनञ्च दृशिर्दृशी … ।अश्रू चास्रञ्च नेत्राम्वु रोदनं वाष्पमस्रू च ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.421 · p. 110
स्यादात्मदर्श आदर्शः मुकुरो मकुरोऽपि च ।दर्शनं दर्शनश्चेति प्रतिविम्वातमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.60 · p. 174
दर्शनेक्षणनिध्यानालोकनञ्च निर्वर्णनम् ।प्रत्यादेशो निरसनं प्रत्याख्यानं निराकृतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.78 · p. 175
प्रतिरूप प्रतिछन्दो दर्शने तु निभालनम् ।छेकोक्तिर्वक्रभणितौ दुर्जातमसमञ्जसे ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1084 · p. 134
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1706 · p. 206
प्रदाने स्पर्शनं क्षारे कर्शनं दर्शनं दृशि ।निदर्शनं तु दृष्टान्ते विचारे तु विमर्शनम् ॥ १७०६ ॥
अनुष्टुप्
genderक्लीneut.
ध-कारो वामजङ्घा च प्रियश्च दर्शनस्तथा ।नेत्रयुग्मञ्च संज्ञा च स्थाणुरस्थानुरीश्वरः ॥ ४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.53 · p. 117
कर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने ।दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु ।रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.25 · p. 250
स्याद्दर्शनं लोचनबुद्धिधर्मेस्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे ।कश्मीरजे स्यात्पिशुनं त्रये तुक्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.909 · p. 127
वैश्यपूर्वक्षत्रियायां व्रात्याज्जाते प्रयुज्यते ।द्रमिलो दर्शनं तु क्ली नेत्रे शास्त्रे मते धियाम् ॥ ९०९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.910 · p. 127
ज्ञाने च स्वप्नवीक्षासु क्रियायां पश्यतेरपि ।धर्मदर्पणयोस्त्वाह रभसः शब्दवित्तमः ॥ ९१० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.912 · p. 127
दर्शनं दर्शयत्यर्थे दर्शकस्तु पमानयम् ।द्वाःस्थेऽथ भेद्यवद्द्रष्टदर्शयित्रोरथो पुमान् ॥ ९१२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2101 · p. 254
तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः ।तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरेशास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥
अनुष्टुप्
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 209 · p. 542
दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि ॥ २०९ ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.243 · p. 175
दर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु ।स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.17 · p. 251
तेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् ।दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥
अनुष्टुप्

दर्शन as a meaning in nānārtha verses