कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पतञ्जलि

patañjaliपुं · masc.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.851 · p. 34
याज्ञवल्क्यो ब्रह्मरात्रिर्योगेशोऽप्यथ पाणिनौ ।सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः ॥ ८५१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.134 · p. 83
शालातुरीयो दाक्षेयः शालंकिः पाणिनाहिकौ ।शिवपर्यायभक्तोऽथ गोनर्दीयः पतञ्जलिः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.1 · p. 65
यत्र व्याकरणस्य स्यात्फलाफलविचारणम् ।तत्राह्निके पस्पशा स्त्री गोनर्दीयः पतञ्जलिः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.146 · p. 26
च्यवनो मत्स्यगुच्छश्च गोनर्दीयः पतञ्जलिः ।अथ व्याडिर्विन्ध्यवासी नन्दनीनन्दनोऽपि च ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.4 · p. 122
तत्र भोगीश्वरोऽनन्तः शेषः शुभ्रः शशिप्रभः ।पतञ्जलिर्मयूरश्च सर्पराजः समातुतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1422 · p. 225
गोनर्दीयः पतञ्जलिः प्रोक्तं नाम पतञ्जलेः ॥ १४२२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.109 · p. 118
पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ।चूर्णिकृद्भाष्यकारः स्यात् हरिर्भर्तृहरिः स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.311 · p. 214
गोनर्दीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ ।वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥ ३११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.25 · p. 60
मेधावी चाऽथ मेधाजित्कात्यः कात्यायनश्च सः ।पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.