All kośas › Paryāyaśabdaratna
पर्यायशब्दरत्न Paryāyaśabdaratna
981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)
पाताललोकसर्गः
इति श्रीमज्जगदेकपण्डितसार्वभौमद्विषत्कविराजशिरोमणिसंराजितपादपीठाग्रसमस्तविद्याधनंजयेन धनंजयभट्टाचार्येण विरचिते पर्यायशब्दरत्ने मध्यमलोकसर्गो द्वितीयः समाप्तः ।
इति मध्यमलोकसर्गः ।
अथ पाताललोकसर्गः ।
बहवस्तत्र वर्तन्ते लोकास्तेषां महात्मनाम् ।विशिष्य नागाह्याश्यादिलोकचित्रं विवर्ण्यते ॥ २ ॥
3.2 · p. 122
अनुष्टुप्
भोगिनी मणिवप्रा च फूत्कारी मणिमण्टपा ।सिंही महोन्नता रम्यवैश्विनागामरालया ॥ ३ ॥
3.3 · p. 122
अनुष्टुप्
तत्र भोगीश्वरोऽनन्तः शेषः शुभ्रः शशिप्रभः ।पतञ्जलिर्मयूरश्च सर्पराजः समातुतः ॥ ४ ॥
3.4 · p. 122
अनुष्टुप्
वासुक्यादिमहानागास्तस्य भ्रातर ईरिताः ।तत्तद्विविच्य पूर्वं हि बादरायणिरुक्तवान् ॥ ५ ॥
3.5 · p. 122
अनुष्टुप्
कृष्णाः शुभ्राश्च रक्ताश्च पीताश्चित्राश्च वर्णतः ।जलपर्वतवृक्षादिनिवासाज्जातिभेदतः ॥ ६ ॥
3.6 · p. 122
अनुष्टुप्
अनेकास्तेषु मुख्यानां विशेषः परिकीर्त्यते ।कृष्णास्तीव्रा दुराचाराः काङ्क्षिणः कठिनान्तराः ॥ ७ ॥
3.7 · p. 123
अनुष्टुप्
तेषां राजा महाक्रोधी कर्कोटक इति श्रुतः ।तद्विषे कालकूटः स्यादसं(स?)ह्यः क्ष्वेड इत्यपि ॥ ८ ॥
3.8 · p. 123
अनुष्टुप्
शुभ्राः शुद्धाश्च शान्ताश्च रहोवासिन इत्यपि ।तेषां राजा महात्मासौ शेषो धर्मभृतां वरः ॥ ९ ॥
3.9 · p. 123
अनुष्टुप्
तद्विषे स्याद्ध(द्धा?)लहलो हालाहलहलो(ला?)हलौ ।रक्ताश्च रक्तस्राविण्यो गोनसाश्च बहुश्रुताः ॥ १० ॥
3.10 · p. 123
अनुष्टुप्
तेषां राजा तक्षकः स्यात्साहसी तत्र वर्तते ।काकोलस्तद्विषे पुंसि काकुमारोऽपि च क्वचित् ॥ ११ ॥
3.11 · p. 123
अनुष्टुप्
पीताश्च तीव्रगामिन्यः(?) स्तब्धवैराश्च भैरवाः ।तेषां राजा तु शङ्खः स्यात्तद्विषे दारदो मतः ॥ १२ ॥
3.12 · p. 123
अनुष्टुप्
तत्र जातिद्वयं जातं पात्रं शाङ्खमिति श्रुतम् ।तत्रापि चातुर्विध्यं स्यादुच्यते क्रमपूर्वकम् ॥ १३ ॥
3.13 · p. 123
अनुष्टुप्
घास्वो जालस्तैलिकश्च नालीकश्च चतुर्थकः ।पूर्वादबाधकत्वं स्यादुत्तराद्बाधता क्वचित् ॥ १४ ॥
3.14 · p. 124
अनुष्टुप्
जालकाश्च प्रतीहारा मुसुण्डाश्चर्मिणोऽपि च ।तत्र राजालगर्दः स्याद्वत्सनाभश्च तद्विषः ॥ १५ ॥
3.15 · p. 124
अनुष्टुप्
तत्र द्विविधता जातेः याङ्की जालीति भेदतः ।विषाभावस्तु जालीये द्वये तदिति च क्वचित् ॥ १६ ॥
3.16 · p. 124
अनुष्टुप्
पार्वतेयाः पामराश्च बह्वन्ना नीचजन्मिनः ।तत्र राजा डुण्डुमारस्तद्विषे तु प्रदीपनः ॥ १७ ॥
3.17 · p. 124
अनुष्टुप्
तत्र केचित्तु शैलेयाः केचित्काश्मा(श्या?)श्च केचन ।गुल्मिनः केचिदारूढपन्थानश्चेति भेदतः ॥ १८ ॥
3.18 · p. 124
अनुष्टुप्
पृथवः पृथुदेहाश्च मन्दाः संचारवर्जिताः ।जन्तुसर्वस्वगिरकाः खण्डकाश्च सजीविनः ॥ १९ ॥
3.19 · p. 124
अनुष्टुप्
काश्या मृदन्नाश्चण्डाला भेकवैरिण इत्यपि ।शैक्रोटिकास्तु गुल्मिन्यः(?) पथिका रक्तपायिकाः ॥ २० ॥
3.20 · p. 124
अनुष्टुप्
वैक्षाः प्रत्यर्थिनः पापा वेलम्भाश्च विरोधिनः ।तद्राजा मकराक्षः स्याद्ब्रह्मपुत्रस्तु तद्विषे ॥ २१ ॥
3.21 · p. 125
अनुष्टुप्
गृह्याश्च दामिनश्चैव किं च दामोदरा अपि ।राजिलस्तत्र राजा स्याच्छौक्लिकेयस्तु तद्विषे ॥ २२ ॥
3.22 · p. 125
अनुष्टुप्
सामान्यनाम एतेषां बिन्दुका बैन्दिका अपि ।सर्वसामान्यनाम स्यात्काद्रवेयोऽप्युरःसरः ॥ २३ ॥
3.23 · p. 125
अनुष्टुप्
गोनसे गोकरश्चैव तिलिङ्गश्च तिलिप्यकः ।तविप्यश्च तिविप्यश्च वाम(ह?)सः कुण्डबालकः ॥ २४ ॥
3.24 · p. 125
अनुष्टुप्
मातुलानो मातुलाहिर्मालुधानोऽपि तादृशः ।इत्यादि बहवो भेदा उन्नेयाः कार्यगौरवात् ॥ २५ ॥
3.25 · p. 125
अनुष्टुप्
तन्नामादिकमुक्तत्वात्परिशेषपदावलौ ।अपां पतित्वं वक्ष्यामः सुविस्पष्टपदार्थकम् ॥ २६ ॥
3.26 · p. 125
अनुष्टुप्
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
3.27 · p. 125
अनुष्टुप्
कमन्धश्च कबन्धश्चोदः कं चाप्युदकं तथा ।करं च पुष्करं चापि पाथः पाश्चार्ण इत्यपि ॥ २८ ॥
3.28 · p. 126
अनुष्टुप्
संवरं शम्बरं चापि संभारं सर्वतोमुखम् ।पुष्पं च मेघपुष्पं च रसं घनरसं तथा ॥ २९ ॥
3.29 · p. 126
अनुष्टुप्
भङ्गस्तरङ्गो रङ्गश्चाप्यूर्मिं नक्लीब इष्यते ।स्वल्पे घने तु कल्लोलश्चोल्लोलश्च विलोलकः ॥ ३० ॥
3.30 · p. 126
अनुष्टुप्
आवर्ते तु विरोधी स्याच्चक्रिवारिभ्रमादिकम् ।वक्रश्चक्रश्च भेदी च मादिनी जलपूरकः ॥ ३१ ॥
3.31 · p. 126
अनुष्टुप्
बिन्दौ कणश्च लेशश्च बिन्दुकं शीकरोऽपि च ।विप्रुट् च विपृषश्चैव पृषच्च पृषतस्तथा ॥ ३२ ॥
3.32 · p. 126
अनुष्टुप्
प्रथमस्तु स्त्रियां प्रोक्तो द्वितीयं क्लीबमुच्यते ।जलस्यादिप्रवाहे स्याद्बिलजा मन्दगामिनी ॥ ३३ ॥
3.33 · p. 126
अनुष्टुप्
कूले रोधश्च रुद्र(द्ध?)श्च तटं तीरं च घट्टकम् ।पात्रं शुद्धं विरुद्धं चाप्यनित्यं नन्दिवर्धनम् ॥ ३४ ॥
3.34 · p. 126
अनुष्टुप्
तयोरन्तरभागे तु पात्रं तीव्रं विनिर्मलम् ।निर्बाधं रुचिरं स्वादु जलं सरसमित्यपि ॥ ३६ ॥
3.36 · p. 127
अनुष्टुप्
अन्तरीपं तदन्तेऽपि द्वीपोऽस्त्री मण्डलं त्रयम् ।सामान्यसैकतखले रम्यं रामं मनोहरम् ॥ ३७ ॥
3.37 · p. 127
अनुष्टुप्
तोयोत्थितं तोयजं च जलजादिकमिष्यते ।सैकतं पुलिनं मारं कामगं कामवर्धनम् ॥ ३८ ॥
3.38 · p. 127
अनुष्टुप्
जम्बाले पङ्किलः पङ्कः कर्दमः शाद इत्यपि ।निषद्वरश्च भेकालं भेकालयमरिंदमम् ॥ ३९ ॥
3.39 · p. 127
अनुष्टुप्
स्वच्छे त्वगाधमच्छश्च कलुषे पङ्किलाविलः(लौ?) ।मधुरे पानकं शैत्यं क्षारे पुलकनिन्दिते ॥ ४० ॥
3.40 · p. 127
अनुष्टुप्
जलप्रस्रवणे स्रावः परिवाहश्च चङ्कटः ।जलोच्छ्वासः परीवाहो सारो विसर इत्यपि ॥ ४१ ॥
3.41 · p. 127
अनुष्टुप्
प्रसृताम्बुनिकश्चालः स्त्रोतोऽम्बुसरणं तथा ।तरिसंक्षितदेशे तु नौतार्यं नाव्यमित्यपि ॥ ४२ ॥
3.42 · p. 128
अनुष्टुप्
तरण्यां नौस्तरिस्तारिः सदुर्दः सह इत्यपि ।अर्धनावं तु नावोऽर्धेऽप्यतिसं प्रचलं तथा ॥ ४३ ॥
3.43 · p. 128
अनुष्टुप्
अतीतनौके चागाधा त्रिष्वेते परिकीर्तिताः ।स्वल्पतर्यां तु संचारी द्रोणी काष्ठाम्बुवाहिनी ॥ ४४ ॥
3.44 · p. 128
अनुष्टुप्
तारकैककदारौ तु प्लवः कोलश्चलोऽपि च ।उडुपं च सरामातिदारुसङ्घं तुरे सरत् ॥ ४५ ॥
3.45 · p. 128
अनुष्टुप्
मण्डुको मण्ड इति च मण्डी मर्मर इत्यपि ।कोलद्वयसमासक्ते सङ्घटी तारिणीति च ॥ ४६ ॥
3.46 · p. 128
अनुष्टुप्
नौकादण्डे तु सुस्नायी क्षेपणी लिङ्गिनीति च ।शूर्पाकारजले(ल?) क्षेपदारुदण्डे प्रचोदिनी ॥ ४७ ॥
3.47 · p. 128
अनुष्टुप्
अरित्रं भेदिनी चापि पाणिका केनिपातनम् ।कुद्दाले काष्ठकुद्दालश्चाभ्रिश्चापि च घट्टनः ॥ ४८ ॥
3.48 · p. 129
अनुष्टुप्
सेकपात्रे सेचनीकं सेचनं सेचनीति च ।तीरे नौकादिबन्धार्थे दारुभेदे विरोधकः ॥ ४९ ॥
3.49 · p. 129
अनुष्टुप्
स्यान्नौकाकृद्दत्तधने चातरस्तरिपण्यकम् ।सांयात्रिकः पोतवणिङ्नौकाजीवेऽथ इष्यते (दृश्यते?) ॥ ५० ॥
3.50 · p. 129
अनुष्टुप्
कर्णधारो नाविकः स्यात्पोतवाहो नियामकः ।दाशे तु धीवरो जाली कैवर्तः कुटकोऽपि च ॥ ५१ ॥
3.51 · p. 129
अनुष्टुप्
नद्यादिमध्ये नौकादिबन्धकी जलमध्यगः ।अयोविकारो(र?)जास्तस्मिन् कूपको गुणवृक्षकः ॥ ५२ ॥
3.52 · p. 129
अनुष्टुप्
जालवेल्लदीर्घरज्जौ शणसूत्रं पवित्रकम् ।मत्स्यक्षेपपुटीभेदे मत्स्यधानी कुवेणिका ॥ ५३ ॥
3.53 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल्ल (wrong syllable)
जाले त्वनाय आनायो बडिशं मत्स्यबन्धनम् ।मत्स्यमायी मोहिनी च हेया जीवान्तकामली ॥ ५४ ॥
3.54 · p. 129
अनुष्टुप्
अण्डजः शकुनिः(लिः?) शारः पृथुरोमा झषोऽपि च ।वैसारिणो विसारश्च क्षुद्राण्डो रोहितोऽपि च ॥ ५५ ॥
3.55 · p. 130
अनुष्टुप्
पोतो(ता?)धानं मद्गुरश्च राजीवः शकुलस्तिमिः ।तिमिलिङ्गादयश्चैव मत्स्यभेदा इतीरिताः ॥ ५६ ॥
3.56 · p. 130
अनुष्टुप्
नडमीनस्तिली(चिलि?)चीमः प्रेत्यहारी बहुप्रियः ।पोतेऽप्युलुपिः शिशुको गण्डदः(कः?) शकुलार्भके ॥ ५७ ॥
3.57 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 लु (wrong syllable)
शिशुमारे बहुबलो नक्रः कुम्भीर इत्यपि ।वि(उ?)द्रो जलबिडारः स्याच्छङ्कुर्जलकिटिः स्मृतः ॥ ५८ ॥
3.58 · p. 130
अनुष्टुप्
अगुरौ मकरी ग्राहोऽवराहो मकरोऽपि च ।जलवाहो जलारः स्याद्धिडुर्जलगजे स्मृतः ॥ ५९ ॥
3.59 · p. 130
अनुष्टुप्
जलधनौ तु कालिन्दी स्पर्शनो जलमानुषे ।कुलीरे स्यात्कर्कटकः कूर्मे कमठकच्छपौ ॥ ६० ॥
3.60 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
गण्डूपदः किञ्चुलुको मृदन्नश्च महीलता ।जलव्याघ्रे तु शीरालो निहाका जलगोधिका ॥ ६१ ॥
3.61 · p. 130
अनुष्टुप्
रक्तपाश्च जलूकाश्च जलौकाश्च जलौकसः ।अधोगजजलूकायां दुर्नामा दीर्घकोशिका ॥ ६२ ॥
3.62 · p. 131
अनुष्टुप्
मद्गुरस्य प्रिया शृङ्गी शृङ्गिणी कोपनालसा ।भेके गण्डूप(मण्डूक?)शालूरप्लवदर्दुरमूलकाः ॥ ६३ ॥
3.63 · p. 131
अनुष्टुप्
तत्पत्न्यां स्यात्तु मण्डूकी शिली च कमठी डुली(लिः?) ।प्लवी गण्डूपदी भेकी वर्षाभ्वी रटनप्रिया ॥ ६४ ॥
3.64 · p. 131
अनुष्टुप्
प्रक्षिप्तजलमृद्वृन्दे त्वाहार(व?)श्च जलाशयम् ।निपानं चोपकूपं च शामी वश्वी च मोदिनी ॥ ६५ ॥
3.65 · p. 131
अनुष्टुप्
अथ कूपे प्रपाश्चान्धुरुदपानं सदो स्त्रियाम् ।कूपयन्त्रे त्रिका नेमिः पि(वि?)नाहस्तस्य दामनी ॥ ६६ ॥
3.66 · p. 131
अनुष्टुप्
खातिते तु तटाकादौ पुष्करिण्यां च पुष्करम् ।परिखायां तु खेयं स्यात्परिवेष्टिः परिक्रिया ॥ ६७ ॥
3.67 · p. 131
अनुष्टुप्
गुण्डने गुण्ड आधार(रः?) पयकं(सां?) यन्त्र(त्र?)धारणम् ।आलवाले तु चावालो(पो?)ऽप्यावालोऽलव(वा?)लोऽपि च ॥ ६८ ॥
3.68 · p. 131
अनुष्टुप्
नद्यां तरङ्गिणी कर्षूस्तटिनी सादिनी धुनी ।ह्रादिनी स्रोतस्विनी च स्रोतस्वी च स्रवन्तिका ॥ ६९ ॥
3.69 · p. 132
अनुष्टुप्
स्रोतस्वती द्वीपवती निम्नगा चापगापगा ।कूलंकषा प्रवाही च झरिणी च सरस्वती ॥ ७० ॥
3.70 · p. 132
अनुष्टुप्
रोधोवक्रा निर्झरिणी रङ्गिणी शैलिनी तथा ।गंगायां कमला सीता त्रिस्रोता भीष्मसूरपि ॥ ७१ ॥
3.71 · p. 132
अनुष्टुप्
धर्मध्वजी शम्भुमौलिः पावनी पापहारिणी ।कालिन्द्यां यमुना नीला सूर्यजा शमनस्वसा ॥ ७२ ॥
3.72 · p. 132
अनुष्टुप्
सोमजा नर्मदा रेवा स्फीता मेघ(ख?)लकन्यका ।करतोया सदानीरा शैवा शिवतनूभवा ॥ ७३ ॥
3.73 · p. 132
अनुष्टुप्
महेश्वरी चार्जुनी च बाहुदा चाप्यगोपदा ।गौतमी त्र्यम्बकोद्भूता गोदा गोदावरी तथा ॥ ७४ ॥
3.74 · p. 132
अनुष्टुप्
हिरण्यबाहुः शोणायां श्यामायां पापनाशनी ।चन्द्रभागा वेत्रवती शुभाङ्गा च शरावती ॥ ७५ ॥
3.75 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
सरस्वती कृष्णवेणी(णा?) कावेरी सरयूरपि ।तुङ्गभद्रा भीमनदी शामिनी भवनाशिनी ॥ ७६ ॥
3.76 · p. 133
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भी (wrong syllable)
मलापहारिणी माया पयोष्णा [च] कुमुद्वती ।शिप्रा प्रणीता सुरसा कौशिकी ताम्रपर्णिका ॥ ७७ ॥
3.77 · p. 133
अनुष्टुप्
निर्विन्ध्या वञ्जुला दैन्या---------- ।पिनाकिनी ब्रह्मनदी गोमती सुरसा नदी ॥ ७८ ॥
3.78 · p. 133
अनुष्टुप्metre not read in every line
कपिशाता गुण्डिका च कमला कर्ममोचनी ।ह्रादिन्यादिमहानद्यः सर्वास्ताः सिन्धुसंगताः ॥ ७९ ॥
3.79 · p. 133
अनुष्टुप्
प्रणाली स्यान्नालमध्यप्रसृता सा द्वयोर्मता ।देविकायां सरय्वां च भवे दाविकसारवौ ॥ ८० ॥
3.80 · p. 133
अनुष्टुप्
सौगन्धिकं तु कह्लारे श्वेते कुमुदकैरवौ(वे?) ।रक्ते तु हल्लकं रक्तसन्ध्यकं कमलं तथा ॥ ८१ ॥
3.81 · p. 133
अनुष्टुप्
एषां कन्दे तु शालूरं(कं?) शालुकं च प्रकीर्तितम् ।कुम्भिका वारिपर्णी च कुम्भिला चापि तुम्बिका ॥ ८२ ॥
3.82 · p. 133
अनुष्टुप्
नलिन्यां बिसिनी प्रोक्ता कुमुदिन्यां कुमुद्वती ।पद्मे महोत्पलं जालं कमलं नलिनं तथा ॥ ८३ ॥
3.83 · p. 134
अनुष्टुप्
सहस्रपत्रं राजीवं शतपत्रं कुशेशयम् ।बिसप्रसून(नं?)तोयोत्थं पुष्करं सरसीरुहम् ॥ ८४ ॥
3.84 · p. 134
अनुष्टुप्
पद्ममूलदलादीनां समूहो षण्डमस्त्रियाम् ।पद्मपत्रे तु निःशकं बाह्यं वैधं च वर्तुलम् ॥ ८५ ॥
3.85 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
इत्यादिजलनाथत्वादप्पतित्वं समुन्नयेत् ।वक्ष्यमाणविशेषाणामन्तः कुत्र प्रदृश्यते ॥ ८६ ॥
3.86 · p. 134
अनुष्टुप्