कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · ऋषिगोत्रब्रह्मप्रकाण्डः (2/2)

निदिध्यासनमप्येतन्मननं त्वात्मचिन्तनम् ।ऋषयो मन्त्रद्रष्टार ऋषयः संशितव्रताः ॥ १२१ ॥
1.5.121 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्त्र (wrong syllable)
शापास्त्राः सत्यवचसो व्यासाद्यास्ते महर्षयः ।देवर्षयः कचाद्याः स्युर्भल्लाद्यास्तु महर्षयः ॥ १२२ ॥
1.5.122 · p. 82
अनुष्टुप्
ऋतुपर्णादयो राजर्षयः काण्डर्षयस्त्वमी ।जैमिन्याद्या नारदस्तु कपिवक्त्रो विधातृभूः ॥ १२३ ॥
1.5.123 · p. 82
अनुष्टुप्
स्याद्ब्रह्मादेवपर्यायपिशुनः कलिकारकः ।देवब्रह्मा देवलः स्याद्दुर्वासास्तु कुशारणिः ॥ १२४ ॥
1.5.124 · p. 82
अनुष्टुप्
प्राचेतसस्तु वाल्मीकिः कविज्येष्ठो वशः कविः ।कुशी च मैत्रावरुणो वाल्मीको वल्मिकोऽपि च ॥ १२५ ॥
1.5.125 · p. 82
अनुष्टुप्
वल्मीकी वाल्मिकी चाथ स स्यात्पाराशरी पुनः ।कृष्णद्वैपायनो वेदव्यासः स्यात्सत्त्वभारतः ॥ १२६ ॥
1.5.126 · p. 82
अनुष्टुप्
व्यासः कृष्णः सात्यवतः कानीनो बादरायणः ।पाराशरो माठरोऽपि पाराशर्यस्ततः पुनः ॥ १२७ ॥
1.5.127 · p. 82
अनुष्टुप्
द्वैपायनोथास्य माता वासवी सत्यवत्यपि ।योजनागन्धपर्याया मत्स्योत्था गन्धकाल्यपि ॥ १२८ ॥
1.5.128 · p. 82
अनुष्टुप्
वासवी मत्स्यगन्धापि दाशेयी शन्तनुप्रिया ।माता विचित्रवीर्यस्य पुनश्चित्राङ्गदस्य च ॥ १२९ ॥
1.5.129 · p. 83
अनुष्टुप्
वसिष्ठोऽरुन्धतीनाथपर्याय्यापव इत्यपि ।स मैत्रावरुणोऽपि स्यादक्षमाला त्वरुन्धती ॥ १३० ॥
1.5.130 · p. 83
अनुष्टुप्
त्रिशङ्कुयाजी गाधेयो विश्वामित्रश्च कौशिकः ।वैश्वामित्रो याज्ञवल्क्यो योगेशो ब्रह्मरात्रिकः ॥ १३१ ॥
1.5.131 · p. 83
अनुष्टुप्
दधीचिश्च दधीचोऽपि वदान्यश्रेष्ठ इत्युत ।यायावरो जरत्कारुर्देवी च मनसा प्रिया ॥ १३२ ॥
1.5.132 · p. 83
अनुष्टुप्
जरत्कारुस्तयोः पुत्र आस्तीकश्चास्तिकोऽपि च ।गौतमस्तु शतानन्दो मातुरीयस्तु पाणिनिः ॥ १३३ ॥
1.5.133 · p. 83
अनुष्टुप्
शालातुरीयो दाक्षेयः शालंकिः पाणिनाहिकौ ।शिवपर्यायभक्तोऽथ गोनर्दीयः पतञ्जलिः ॥ १३४ ॥
1.5.134 · p. 83
अनुष्टुप्
कात्यायनो वररुचिः कायोऽपि च पुनर्वसुः ।मेधापर्यायजिच्चाथ व्याडिर्विन्ध्यनिवास्यपि ॥ १३५ ॥
1.5.135 · p. 83
अनुष्टुप्
नन्दिनीपुत्रपर्यायः कणादः काश्यपोऽपि च ।स्फोटायनस्तु कक्षीवान्पालकाप्ये करेणुभूः ॥ १३६ ॥
1.5.136 · p. 83
अनुष्टुप्
रुचिरातनयार्थः स्याद्गुणवत्यपि पालकी ।वात्स्यायनो महानागः कौटिल्यश्चणकात्मजः ॥ १३७ ॥
1.5.137 · p. 83
अनुष्टुप्
द्राविलः पक्षिलः स्वामी विष्णुगुप्तोङ्गलोपि च ।धन्वन्तरिर्दिवोदासः काशिराजः सुधोद्भवः ॥ १३८ ॥
1.5.138 · p. 84
अनुष्टुप्
ब्रह्मीभूतो द्वैतवादी शंकराचार्य इत्यपि ।उपवर्षो हलभूतिः कृतकोटिरयान्वितः ॥ १३९ ॥
1.5.139 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
चूर्णकृद्भाष्यकारः स्याद् हरिर्भर्तृहरिः समौ ।रघुकारः कालिदासो मेधारुद्रस्तु कोटिकृत् ॥ १४० ॥
1.5.140 · p. 84
अनुष्टुप्
गुणाढ्योप्यथ बाणः स्याद्वक्रगद्यनिबन्धकृत् ।भारविः शत्रुलुम्पः स्याद्भवभूतिस्तु विश्रुतः ॥ १४१ ॥
1.5.141 · p. 84
अनुष्टुप्
भूमिपर्यायगर्भार्थोप्यथ वैयासकिः पुनः ।वेदान्ती ब्रह्मवादी स्यादथ मीमांसकः स च ॥ १४२ ॥
1.5.142 · p. 84
अनुष्टुप्
जैमिनीयोप्यथौलूक्यः स च वैशेषिकोप्यथ ।शम्बुकश्चापि शम्बूक उभौ शूद्रसुतौ समौ ॥ १४३ ॥
1.5.143 · p. 84
अनुष्टुप्
सौगतः शून्यवादी स्याद्वादिकोऽद्वयवाद्यपि ।अर्हतोप्याक्षपादः स्याद्योगो नैयायिकोऽपि च ॥ १४४ ॥
1.5.144 · p. 84
अनुष्टुप्
पातञ्जलो यौगिकः स्यात्कापिलः सांख्य इत्यपि ।लौकायतिकचार्वाकबार्हस्पत्याश्च नास्तिकाः ॥ १४५ ॥
1.5.145 · p. 84
अनुष्टुप्
पाश्चार्थिकः पाशुपतः शैवश्चापि महाऽव्रतः ।कापालिकोऽथ वामी स्याद्वामिकोऽथापि लौकिकः ॥ १४६ ॥
1.5.146 · p. 84
अनुष्टुप्
आम्नायी सामयी माध्वो वैष्णवः पञ्चरात्रिकः ।रक्ताम्बरो भदन्तोऽपि शाक्यभिक्षुश्च वन्दकः ॥ १४७ ॥
1.5.147 · p. 85
अनुष्टुप्
श्वेताम्बरः श्वेतभिक्षुः क्षपणस्तु दिगम्बरः ।नग्नाढश्रमणाह्लीकनिर्ग्रन्था जीवजीवकाः ॥ १४८ ॥
1.5.148 · p. 85
अनुष्टुप्
चेलुकश्चीवरी भिक्षुर्महोपासकमेलिकौ ।वन्यश्चैत्यः श्रामणेरः स च प्रव्रजितः पुनः ॥ १४९ ॥
1.5.149 · p. 85
अनुष्टुप्
तच्छिष्याः श्रावकाः खङ्गाः सुदन्ता एकचारिणः ।बुद्धाः स्वयंभुवस्तेषां भेदाः खरतरादयः ॥ १५० ॥
1.5.150 · p. 85
अनुष्टुप्
धर्मध्वजी लिङ्गवृत्तिः पाखण्डः सर्वलिङ्गिनि ।उरःकटः पञ्चवटो जोटिङ्गश्च महाव्रती ॥ १५१ ॥
1.5.151 · p. 85
अनुष्टुप्
कुहना लोभान्मिथ्येर्या सा स्यादपथकल्पना ।क्षतव्रतोवकीर्णी स्याद्व्रात्यः संस्कारवर्जितः ॥ १५२ ॥
1.5.152 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
जटालजटिलौ तुल्यावथ कर्पटिकार्पटी ।अलाभात्तु स्त्रियस्त्यागस्तदश्वब्रह्मचर्यकम् ॥ १५३ ॥
1.5.153 · p. 85
अनुष्टुप्
यद्रतं यमिनां गुप्तं खञ्जरीटरतं हि तत् ।शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुर्द्विजाधमः ॥ १५४ ॥
1.5.154 · p. 85
अनुष्टुप्
नष्टाग्निर्वीरहा जातिमात्रजीवी द्विजब्रुवः ।अजपस्त्वसदध्येता वेदहीनो निराकृतिः ॥ १५५ ॥
1.5.155 · p. 85
अनुष्टुप्
वान्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ।उच्छिष्टभोजनो देवनैवेद्यकृतभोजनः ॥ १५६ ॥
1.5.156 · p. 86
अनुष्टुप्
शाखारण्डः स्वशाखीयकर्मलुप्तोऽन्यकर्मकृत् ।शाखाहण्डोप्यन्यशाखापाठके स्वीयवर्जके ॥ १५७ ॥
1.5.157 · p. 86
अनुष्टुप्
कनिष्ठस्तु कृताधानो न ज्येष्ठे ह्यग्निहोत्रिणि ।पर्याधाता कनिष्ठः स्याज्ज्येष्ठः पर्याहितः स च ॥ १५८ ॥
1.5.158 · p. 86
अनुष्टुप्
कनिष्ठः सोमयाजी चेन्न ज्येष्ठः सोमयागकृत् ।परियष्टा कनिष्ठः स्यात्परीष्टो ज्येष्ठ इत्यपि ॥ १५९ ॥
1.5.159 · p. 86
अनुष्टुप्
विवाहरहिते ज्येष्ठे कनिष्ठो दारसंग्रही ।परिवेत्ता परिवेदी परिवित्तिस्तु पूर्वजः ॥ १६० ॥
1.5.160 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
परिवित्ता सुतस्तस्य सा स्त्री तु परिवेदिनी ।पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिका ॥ १६१ ॥
1.5.161 · p. 86
अनुष्टुप्
शस्त्राजीवः काण्डपृष्ठो गुरुहा नरकीलकः ।मलोदेवादिपूजायामश्चाद्धोऽथ मलिम्लुचः ॥ १६२ ॥
1.5.162 · p. 86
अनुष्टुप्
पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः ।सुप्ते यस्मिन्नुदेत्यर्कोत्यस्तमेति क्रमेण तौ ॥ १६३ ॥
1.5.163 · p. 86
अनुष्टुप्
अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः ।अग्निहोत्रच्छलाद्याञ्चापरो वीरोपजीवकः ॥ १६४ ॥
1.5.164 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 दि (wrong syllable)
वीरविप्लावको जुह्वद्धनैः शूद्रोपपादितैः ।वैडालव्रतिकः सर्वाभिसंधी छद्मतापसः ॥ १६५ ॥
1.5.165 · p. 87
अनुष्टुप्
त्रिणाचिकेतस्त्रिर्योग्निं चितवांस्त्रिमधुश्च यः ।कर्मविद्यायोनिशुद्धा यस्य तूभयपक्षजाः ॥ १६६ ॥
1.5.166 · p. 87
अनुष्टुप्
बहुदक्षिणयज्वानः सज्ञेयस्त्रिसुपर्णकः ।वैखानसस्तु स्याद्वानप्रस्थो वन्यान्नभोजनः ॥ १६७ ॥
1.5.167 · p. 87
अनुष्टुप्
वन्यैर्गृहस्थधर्माथ तपस्या नियमस्थितिः ।व्रतादानं परिव्रज्या संन्यासोप्यथ योगभित् ॥ १६८ ॥
1.5.168 · p. 87
अनुष्टुप्
अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ।नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥ १६९ ॥
1.5.169 · p. 87
अनुष्टुप्
देवताप्रणिधानं च करणं पुनरासनम् ।प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥ १७० ॥
1.5.170 · p. 87
अनुष्टुप्
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।धारणा स्त्री क्वचिद्धेये चित्तस्य स्थिरबन्धनम् ॥ १७१ ॥
1.5.171 · p. 87
अनुष्टुप्
ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ।समाधि स्त्री तदेवार्थमात्राभासनरूपकम् ॥ १७२ ॥
1.5.172 · p. 87
अनुष्टुप्
एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ।एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः ॥ १७३ ॥
1.5.173 · p. 87
अनुष्टुप्
परिव्राडपि कर्मन्दी तापसो मस्करी यती ।पाराशरी रक्तवस्त्रपर्यायः परिकाङ्क्ष्यपि ॥ १७४ ॥
1.5.174 · p. 88
अनुष्टुप्
वाचंयमो मुनिरपि द्वयोरेव मुनी स्त्रियाम् ।स्यात्परिव्राजकश्चाथ शेते यः स्थण्डिले व्रतात् ॥ १७५ ॥
1.5.175 · p. 88
अनुष्टुप्
स्थाण्डिल्यः स्थण्डिलेशायी स्थण्डिलेशय इत्यपि ।तपःक्लेशसहोदान्तः क्षान्तः शान्तो जितेन्द्रियः ॥ १७६ ॥
1.5.176 · p. 88
अनुष्टुप्
तपस्या तु तपो जप्यं जाप्यं जापो जपः पुनः ।कमण्डलुश्चैत्यमुखः करकः कुण्डिकः स्त्रियाम् ॥ १७७ ॥
1.5.177 · p. 88
अनुष्टुप्
यत्यासने ब्रुसीब्रुष्यौ वृषी वृषिः स्त्रियामिमाः ।त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकः ॥ १७८ ॥
1.5.178 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
बलतुर्याश्चतुर्भद्रमथ देवत्वमित्यपि ।देवसायुज्यमपि च देवभूयादिकं पुनः ॥ १७९ ॥
1.5.179 · p. 88
अनुष्टुप्
प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्गकौ ॥ १८० ॥
1.5.180 · p. 88
अनुष्टुप्
क्लीबे कैवल्यनिर्वाणश्रेयो निःश्रेयसामृते ।संन्यासवत्यनशनव्रते प्रायस्तु न स्त्रियाम् ॥ १८१ ॥
1.5.181 · p. 88
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामसंचयैः ।भूस्कन्धे ब्रह्मकाण्डोऽयं तुर्यः सिद्धिमुपागतः ॥ १८२ ॥
1.5.182 · p. 88
अनुष्टुप्