मयूर
mayūraपुं · masc.In 21 kośas: 28 synonym verses, 5 as a nānārtha head word, 48 as a meaning of another word.
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderपुंmasc.
खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
केकी शिखी शिखण्डी प्रचलाकी वर्हिणः कलापी च ।सर्पाशनो मयूरः शिखावलः श्यामकण्ठश्च ॥ २४१ ॥
आर्या
genderपुंmasc.
मयूरो बर्हिणो बर्ही चित्रपत्रस्तु चन्द्रकी ।वर्षामतिर्भुजङ्गारिः श्यापटिश्चित्रपिङ्गलः ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
कोकिलः कलकण्ठः स्यात् पथिकानलभक्षकः ।मयूरे तु वलीकश्च कालज्ञः सुरनर्तकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः ।गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
प्रियाऽस्य देवसेना स्याच्छस्त्रं शक्तिश्च वाहनम् ।मयूरस्तनयौ शाखविशाखावथ तद्गणाः ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्गात्रापरनासीरमन्दिराणां ततः परम् ।मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
यवानिका[59b] मयूरश्च दीप्यः स्याल्लोचमस्तकः ।यवानो भूकदम्बः स्याद्भूतीको यवसाह्वयः ॥ ९१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वनप्रियः परभृतो रवणो रवथः पिकः ।मयूरो बर्हिणो बर्ही प्रचलाकी च चन्द्रकी ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अजमोदायां तु मोचा मयूरो लोचमस्तकः ।खराश्वा कारवी बस्तगन्धा हस्तिमयूरकः ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा ।नीलकण्ठः कलापी च शिखण्डी तत्पतिर्गुहः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः ।मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
तत्र भोगीश्वरोऽनन्तः शेषः शुभ्रः शशिप्रभः ।पतञ्जलिर्मयूरश्च सर्पराजः समातुतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ ।शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
बप्पीह(?)श्चातकसारङ्गस्तोकको नभोऽम्बुपः ।नीलकण्ठः शिखी केकी मयूरो जलमुक्सुहृत् ॥ ९० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मयूरो मयुकश्चैव मयूको मरुकः पुनः ।बर्ही मार्जारकण्ठश्च मेघनादानुलासकः ॥ २३८६ ॥
अनुष्टुप्
genderपुंmasc.
चाचडा इति विख्याते जलाङ्की जलपिप्पली ।मयूरो दीप्यको दीप्यः कारवी लोचमस्तकः ॥
अनुष्टुप्
genderपुंmasc.
लिङ्का लिका च लीक्षा च लीक्का च लिक्षिकेत्यपि ।स्यान्मयूरः शिखी केकी प्रचलाकी च चन्द्रकी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
अजमोदायां तु मयूरो भवेद्धस्तमयूरकः ।यवानिका यवानी च यमानिका यमान्यपि ॥ २१८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 नि (wrong syllable)
genderपुंmasc.
बाष्पीका पृथु-पृथ्व्यौ च स्यान्मयूरशिखोऽप्यसौ ।मयूरो लोचतः ख्यातो मस्तको मर्कटोऽपि च ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके ।केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥
metre not recognised
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः ।मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥
अनुष्टुप्
genderपुंmasc.
कारवी तु खराश्वा स्यान्मयूरो लोचमस्तकः ।कला तु रोचनी श्यामा चित्रकृष्णा त्रिभण्डिका ॥ १४८९ ॥
अनुष्टुप्
genderपुंmasc.
गोनर्दश्चित्रपक्षस्तु तित्तिरिः स्यात्कपिञ्जलः ।लघुमांसो मयूरस्तु चन्द्रकी चित्रमेखलः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
मयूरश्चटकः शौण्डः पादायुधनखायुधौ ।पारावतः कलरवो रक्तदृष्टिर्मदोत्कटः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कृकरे त्वथ्यैकृणौ दात्यूहे कालकण्ठकः ।मयूरो बर्हिणी बर्ही शुक्लापांगः शिखावलः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ्यै (syllables merged)
genderपुंmasc.
स्तम्बे च तुलसीभेदे चाल्पपत्रसुगन्धिके ।तं मयूरशिखासंज्ञभेषजे रभसोऽपठीत् ॥ १३७४ ॥
अनुष्टुप्
क्ली तु तुत्थाञ्जनेऽथो ना धान्ये मङ्गलसंज्ञके ।केषाञ्चित् स्यान्मयूरोऽयं तथा चर्मासनान्तरे ॥ १३७५ ॥
अनुष्टुप्
व्रीहिकङ्काख्यधान्ये तु मसूरी स्त्री तथा भवेत् ।मारिसंज्ञे रोगभेदे वेश्यायां रभसोऽपठीत् ॥ १३७६ ॥
अनुष्टुप्
meaningsव्रीहिकङ्काख्यधान्य
doubtful
मन्थरः पुंसि मत्थानवाधकोषफलेषु च ।पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः ।मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः ।मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)
मयूर as a meaning in nānārtha verses
- धरणिकोश शिखिन्शिखी वह्नौ मयूरे च व्रतिभेदः शिखी स्मृतः । पद्मी गजे[59]ऽब्जवत्यां च स्त्रीभेदे चापि पद्मिनी ॥ Dharaṇikośa 19.2.15
- धरणिकोश शिखण्डिन्शिखण्डी च मयूरः स्याच्छिखण्डी क्षत्रियान्तरम् । प्रत्यर्थी शत्रुराख्यातः प्रतिवादी च कीर्तितः ॥ Dharaṇikośa 19.2.60
- कोषकल्पतरु ककः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्के सख्यौ तथा चात्मनि धर्मराजे । दक्षे मयूरे नरि कं तु मौलौ नीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥ Koṣakalpataru 6.1.2
- कोषकल्पतरु नीलकण्ठस्या[275a]न्नीलकण्ठोऽपि च कालकण्ठो हरे मयूरे चटकेऽञ्जनाक्षे । दात्यूहके स्यादपि पीतसारे स्याद्धारिकण्ठः पिकवाचको ना ॥ ६६ ॥ Koṣakalpataru 6.11.66
- कोषकल्पतरु अर्जुनस्याद्भाजनं पात्रकयोग्यवाचि स्यादर्जुनो ना ककुभे च पार्थे । मातुस्तथैकात्मजनौ मयूरे माहिष्मतीशे धवले तु भेद्ये ॥ ६१ ॥ Koṣakalpataru 6.21.61
- कोषकल्पतरु कलापिन्पुण्ड्रे प्रभावेऽप्यथ पुंसि षण्ढे ललाममेतत्सममा[23a]मनन्ति । प्रकोष्ठकप्लक्षमयूरवाची भवेत्कलापी शिखरी तु शैले ॥ ३९ ॥ Koṣakalpataru 6.21.39
- कोषकल्पतरु शिखण्डिन्बाणे शिखण्डी च तथा मयूरे गाङ्गेयशत्रौ गदितः कलापे । स्त्री यूथिकायामपि रक्तिकायां तथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥ Koṣakalpataru 6.21.41
- कोषकल्पतरु कञ्जार[57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैः कञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च । कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतो भृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥ Koṣakalpataru 6.27.52
- नानार्थार्णवसंक्षेप शिखिन्परिव्राजि तथा वृक्षविशेषेऽश्मन्तकाह्वये । अथो शिखावति त्रि स्याद् द्वे कुक्कुटमयूरयोः ॥ १३७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1372
- नानार्थार्णवसंक्षेप अहिभुज्द्वे मयूरे भेद्यलिङ्गस्त्वहिभोजिनि कीर्तितः । अंशुमांस्तु पुमान् सूर्ये चन्द्रे चाद्यमहीपतौ ॥ १५९ ॥ Nānārthārṇavasaṃkṣepa 4.159
- नानार्थार्णवसंक्षेप अहिद्विष्अहिद्विड्गरुडे पुंसि शक्रे च नकुले पुनः । द्वे मयूरे त्रिषु पुनरहेर्द्वेषस्य कारिणि ॥ १६५ ॥ Nānārthārṇavasaṃkṣepa 4.165
- नानार्थार्णवसंक्षेप कलापिन्ज्ञेयश्च पर्कटी प्लक्षो द्वे मयूरे स्त्रियां पुनः । कलापिनी स्यात् पार्वत्यां कलापवति तु त्रिषु ॥ ४३० ॥ Nānārthārṇavasaṃkṣepa 4.430
- नानार्थार्णवसंक्षेप कुण्डलिन्कुमुदस्य भवेत् स्तम्बे कुण्डली तु द्वयोरयम् । मयूरे चित्रलमृगे तथैव स्याद्भुजङ्गमे ॥ ५५८ ॥ Nānārthārṇavasaṃkṣepa 4.558
- नानार्थार्णवसंक्षेप चन्द्रकिन्मयूरे चन्द्रकी द्वे तु व्याघ्रेऽथो भेद्यलिङ्गकम् । ज्ञेयं चन्द्रकवत्यर्थे चातुरस्तु पुमानयम् ॥ ७३६ ॥ Nānārthārṇavasaṃkṣepa 4.736
- नानार्थार्णवसंक्षेप जीवथवचायामृषिभेदे तु नाथ कूर्ममयूरयोः । जीवथो द्वे अथ पुमान् जीवन्त ऋषिभेदके ॥ ८०२ ॥ Nānārthārṇavasaṃkṣepa 4.802
- नानार्थार्णवसंक्षेप बर्हिणमयूरे बर्हवति तु भेद्यवद्बदरी पुनः । अजगन्धाह्वयस्तम्वे कुवलीसंज्ञपादपे ॥ १२३२ ॥ Nānārthārṇavasaṃkṣepa 4.1232
- नानार्थार्णवसंक्षेप मेनादमेनादस्तु द्वयोश्छागे स्यान्मार्जारमयूरयोः । मेहघ्नी तु हरिद्रायां स्त्री त्रिर्मेहस्य हन्तरि ॥ १४४७ ॥ Nānārthārṇavasaṃkṣepa 4.1447
- नानार्थार्णवसंक्षेप विष्किरविष्किरस्तु द्वयोः पक्षिमात्रे कुक्कुटपक्षिणि । मयूरे च विरागस्तु वैराग्ये ना त्रिषु त्वयन् ॥ १७०९ ॥ Nānārthārṇavasaṃkṣepa 4.1709
- नानार्थार्णवसंक्षेप शिखण्डिन्मयूरपिञ्छे स्त्री तु स्याच्छिखायां हि शिखण्ड्यसौ । शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुक्कुटे ॥ १८३३ ॥ Nānārthārṇavasaṃkṣepa 4.1833
- नानार्थार्णवसंक्षेप आपतिकपादोष्णके वणिजि च द्वे तु श्येनमयूरयोः । पुंसि कालेऽथापदिको वणिजि त्रि पुमान् पुनः ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 6.63
- नानार्थार्णवसंक्षेप शतपत्रक्ली दार्वाघाटशकुनौ पुनर्द्वे अजयः पुनः । मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥ Nānārthārṇavasaṃkṣepa 6.594
- नानार्थार्णवसंक्षेप शुक्लापाङ्गशुक्लापाङ्गो मयूरे द्वे समासादीनि पूर्ववत् । शुकनासस्तु ना टुण्टुवृक्षेऽगस्त्याख्यपादपे ॥ ६२० ॥ Nānārthārṇavasaṃkṣepa 6.620
- नानार्थार्णवसंक्षेप सहसानसहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः । मयूरे यजमाने तु त्रिर्दृढेऽथ सकृत्प्रजः ॥ ६४९ ॥ Nānārthārṇavasaṃkṣepa 6.649
- नानार्थार्णवसंक्षेप सहसानुसहसानुर्मयूरे च सर्पे चेत्यपरे द्वयोः । स्तब्धरोमा पुनर्द्वे स्याद् वराहे सादि पूर्ववत् ॥ ६५५ ॥ Nānārthārṇavasaṃkṣepa 6.655
- नानार्थार्णवसंक्षेप सितापाङ्गपुमान् स्यालीविलार्हे त्रिः सितापाङ्गः पुनर्दयोः । मयूरे पूर्ववत् साद्यमथो पुंसि सितासितः ॥ ६६७ ॥ Nānārthārṇavasaṃkṣepa 6.667
- नानार्थार्णवसंक्षेप नर्तनप्रियनृपभेदे पञ्चदश्यां (त्रि) तु हर्षस्य वर्धके । वृद्धौ नन्देः क्ली (पुमांस्तु) मयूरे नर्तनप्रियः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 7.59
- परमानन्दीयनाममाला कलकण्ठकूष्माण्डकस्तु कूष्माण्डे विलाडे ? गणभिद्यपि । कलकण्ठः पिके हंसे पारापतमयूरयोः ॥ १४० ॥ Paramānandīyanāmamālā 5.7.140
- परमानन्दीयनाममाला कालकण्ठकालकण्ठः खञ्जरीटे मयूरे कोकिले तथा । कालपृष्ठः स्मृतः कर्णचापे कङ्के मृगान्तरे ॥ १४१ ॥ Paramānandīyanāmamālā 5.7.141
- परमानन्दीयनाममाला कलध्वनिकादम्बरी सुरा वाणी कोकिला सारिकापि च । कलध्वनिः कलायुक्ते परपुष्टमयूरयोः ॥ १४२ ॥ Paramānandīyanāmamālā 5.7.142
- परमानन्दीयनाममाला कृकवाकुकुरुविन्दास्तु कुल्माषमुस्ताहिङ्गुलदर्पणाः । कृकवाकुस्ताम्रचूडे मयूरे कृकलासके ॥ १४३ ॥ Paramānandīyanāmamālā 5.7.143
- शब्दरत्नावली लासकलासकस्तु मयूरे स्यात् लम्पटे लास्यकारिणि । लोचको नेत्रतारायां मांसपिण्डे च कज्जले ॥ Śabdaratnāvalī 7.1.134
- शब्दरत्नावली कृकवाकुमयूरे ताम्रचूडे च कृकवाकुरुदाहृतः । पटोल्ल्यां घोषके स्त्री स्यात् कचे कोषातकः पुमान् ॥ Śabdaratnāvalī 7.1.165
- शब्दरत्नावली अहिभुज्अहिभुक् च मयूरे स्याद् विनतानन्दनेऽपि च ॥ Śabdaratnāvalī 7.8.30
- शब्दरत्नावली कालकण्ठमयूरे च महादेवे पीतिसारे च पुंस्यपि ॥ Śabdaratnāvalī 7.12.17
- शब्दरत्नावली मेनादमेनादो दीनमार्जारमयूरच्छागलेषु च । विशदो धवले व्यक्रे शरत्स्त्री ऋतुवर्षयोः ॥ Śabdaratnāvalī 7.18.20
- शब्दरत्नावली अर्जुनअर्जुनः ककुभे पार्थे मातुरेकसुतेऽपि च । कार्तवीर्ये मयूरे च कुक्कुभे ना सितेऽन्यवत् ॥ Śabdaratnāvalī 7.20.29
- शब्दरत्नावली शिखिन्शिखी वह्णिवलीवर्द-शर-केतुग्रहेषु च । मयूरे कुक्कुटे वृक्षे पुमान् शिखावति त्रिषु ॥ Śabdaratnāvalī 7.20.86
- शब्दरत्नावली कलापिन्आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली प्रचलाकिन्अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
- शब्दरत्नावली शतपुत्रवातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥ विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि । विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥ विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् । शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥ Śabdaratnāvalī 7.27.144
- शब्दरत्नावली अहिद्विष्अहिद्विड्गरुडे शक्ते मयूरे नकुलेऽपि च । अलम्बुषः प्रहस्ते स्याच्छर्दने तालरक्षसोः ॥ Śabdaratnāvalī 7.31.29
- त्रिकाण्डशेष कृकवाकुपुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः । कृकवाकुर्मयूरेऽपि वंशे दैत्ये च कीचकः ॥ १६ ॥ Trikāṇḍaśeṣa 3.3.16
- त्रिकाण्डशेष अर्जुनपार्थे द्रुमे मयूरे ना अर्जुनस्त्रिषु पाण्डरे । अर्जुनी गव्युषायां च भृङ्गवृश्चिकयोरली ॥ २२९ ॥ Trikāṇḍaśeṣa 3.3.229
- त्रिकाण्डशेष शिखण्डिन्क्रमुकश्च सुवेशश्च पार्थेन्द्वोः श्वेतवाहनः । मयूरे भीष्मशत्रौ च शिखण्ड्यथ विहेठनम् ॥ २६५ ॥ Trikāṇḍaśeṣa 3.3.265
- वैजयन्ती शिखिन्कुक्कुटेऽग्नौ मयूरेंऽशौ वृक्षे केतुग्रहे शिखी । पद्ये यशसि च श्लोकः षण्डौ विट्चरपण्डकौ ॥ ६० ॥ Vaijayantī 6.1.60
- वैजयन्ती सहसानुश्रीवत्सांकौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ । सहसानुर्मयूरेऽहौ संप्रयोगो रतेऽन्वये ॥ ४५ ॥ Vaijayantī 8.1.45
- वैजयन्ती वृक्षवृक्षस्य गृहनामान्ता नरः पक्षिमयूरयोः । वीरात्परास्ते भल्लाते ततः शक्राच्च तेऽर्जुने ॥ १८ ॥ Vaijayantī 8.6.18
- वैजयन्ती सर्पनरो भुगन्ताः सर्पस्य राजसर्पमयूरयोः । तार्क्ष्ये चाथारिनामान्ता नकुले केकिताकर्क्ष्ययोः ॥ २१ ॥ Vaijayantī 8.6.21