कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनन्त

anantaपुं · masc.

In 20 kośas: 47 synonym verses, 12 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.28 · p. 5
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ ।अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥ २६ ॥सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः ।श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २७ ॥धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः ।नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.3 · p. 5
ऋषभो वृषभः श्रेयाञ्श्रेयांसः स्यादनन्तजिदनन्तः ।
आर्या
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.163 · p. 10
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.138 · p. 13
रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ ।रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ २२४ ॥बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.126 · p. 50
शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः ॥ १३०७ ॥स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह व्योमवर्गः Amarakośa 1.2.1
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.4
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.28 · p. 4
बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः ।सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
गीतिःmetre not read in every line
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.161 · p. 80
सहस्रभोगः शुभ्रांशुरुबुरूबुश्च कथ्यते ।अनन्तः पद्मिनीकान्तो वासुकिर्देवकिन्नरः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 13 · p. 2
अनन्तमन्तरिक्षं च तमोगर्भं महाङ्गकम् ।महाछत्रं सत्वगुणं तारकापथमित्यपि ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.22 · p. 3
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.464 · p. 301
यासोऽनन्तो बालपत्रः समुद्रान्तो मरूद्भवः ।त्रिकण्टकः सूक्ष्मपत्रो विषघ्नो विषकण्टकः ॥ ४६४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.7 · p. 364
शेषस्तु नागपर्यायराजार्थोऽनन्त इत्यपि ।विष्णुपर्यायशय्यार्थः सहस्रफणभूधरौ ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.6 · p. 377
क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् ।अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.8 · p. 452
कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः ।सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.44 · p. 12
बलि-बल-बलभद्र-कामपाल-प्रियमधु-सात्वत-राम-रेवतीशाः ।मधुमथन-पुरोज-नीलवासो-मुसलि-हलायुध-सीरपाण्यनन्ताः ॥ ४४ ॥
पुष्पिताग्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.1 · p. 25
व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.13 · p. 303
काद्रवेयाः पुनर्नागास्तेषां भोगवती पुरी ।शेषो नागाधिपोऽनन्त-आलुकौ द्विसहस्रदृक् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.153 · p. 24
स्त्रीलिङ्गे द्योदिवौ देववर्त्मानन्ते विहायसि ।अम्बरं तारकामार्गोऽभ्रमार्गोऽपि निरीक्ष्यते ॥ १५३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.211 · p. 78
भोगावती पुरी तेषां शेषोऽनन्तस्त्वथालुकः ।द्विसहस्राक्ष इत्येवं तथा नागाधिपश्च सः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.7 · p. 2
ऊर्ध्वं लेखगमानन्दमनन्तं सर्वगं पृथु ।पुष्करं दुष्करं निष्कं नभः खं नभसं नभम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.4 · p. 122
तत्र भोगीश्वरोऽनन्तः शेषः शुभ्रः शशिप्रभः ।पतञ्जलिर्मयूरश्च सर्पराजः समातुतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.60 · p. 7
वियद्विहायोऽनन्तं च सुरवर्त्म घनाश्रयः ।आदित्यः सविता सूर्यो रविर्भानुर्दिनेश्वरः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.148 · p. 16
चक्षुःश्रवाः काद्रवेयः सर्पराजस्तु वासुकिः ।शेषो नागाधिपोऽनन्तः सहस्रवदनश्च सः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.13 · p. 3
विमलोऽनन्तधर्मौ च शान्तिः कुन्थुः त्वरो जिनः ।मल्लिनाथो जिनेन्द्रश्च श्रीमुनिसुव्रतो नमिः ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.164 · p. 23
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.306 · p. 40
अनन्तो नीलवस्त्रश्च सङ्कर्षणैककुण्डलौ ।यमुनाभित् तथा फालः रुक्मिभिद्रुक्मिदारणः ॥ ३०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2364 · p. 382
अनन्तो द्विसहस्राक्षः षण्णामानि सन्ति वै ।स च कृष्णोऽथवा शुक्लः सितपङ्कजलाञ्छनः ॥ २३६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.169 · p. 12
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.8 · p. 37
तदीश्वरश्च भोगीन्द्रः शेषोऽनन्तः फणीश्वरः ।वासुकिः सर्पराजः स्याद् वासुकेयोऽपि स स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.19 · p. 164
स्यादखण्डञ्च निःशेषमनन्तं पूर्णमित्यपि ।निरन्तरं घनं सान्द्रं विरलं पेलवं तनु ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.5 · p. 175
वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिन्मतः ।विंशे जिने मुनिस्तद्वद् मुनिसुव्रतसुव्रतौ ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज्य (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.19 · p. 3
विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवोवैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः ।शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर-श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.159 · p. 21
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.300 · p. 41
शेषोऽनन्तो वासुकिरहिराडथ शङ्खतक्षकाश्वतराः ।कम्बलगुलिकस्वस्तिककर्कोटकशङ्खचूडकौरव्याः ॥ ३०० ॥
गीतिः
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात आ Tantrābhidhāna 2.3.9 · p. 6
आ-कारो विजयाऽनन्तौ दीर्घच्छायो विनायकः ।क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.4 · p. 35
नारायणस्तथाऽनन्तो मुखवृत्तं गुरुस्तथा ।विष्णुशय्या तथा शेषो दीर्घ आ-कार एव च ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.18 · p. 36
अनन्तश्च महासेनोऽनिरुद्धो रसव(ना)र्णकः ।कन्यास्तननिभः सर्गो विसर्गश्चान्तिमस्वरः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.53 · p. 39
संवर्तको नृसिंहश्च हृदयान्मुखसंस्थितः ।अनन्तः परमात्मा च वज्रकायोऽन्तिमः क्ष-कः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.3 · p. 41
हृत् तारको गुरुर्दीर्घो नारायण-चतुर्मुखौ ।अनन्तो वासुदेवश्च वेदान्तः कारकः स्मृतः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
अनन्तश्चान्तको वक्त्र-विश्वान्तौ चरुजः स्मृतः ।क्षीरोदधिः पयोदश्च दीर्घच्छायो विनायकः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
मुखवृत्तं गुरुः शेषो दीर्घोऽनन्तो मरुत् तथा ।नारायणो विघ्नराजः प्रतिष्ठा च द्वितीयकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
मेघनादो नभः प्राणो हृदो वामपदस्थितः ।हयग्रीवोऽरुणोऽनन्तो वराहो नकुली शिखा ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.53 · p. 59
हृदयान्मुखगो व्यापी संवर्तक-नृसिंहकौ ।अनन्ताख्यो गणेशश्च मेरुर्वज्रतनुः क्ष-कः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.28 · p. 7
अथ हरितबिन्दुश्रीकरश्रीवराहा-जितपरपुरुषश्रीगर्भषड्बिन्द्वनन्ताः ।नरकजिदृतधामा केशवो जन्मकीलः ऋतुपुरुषनृसिंहश्रन्थजह्नूच्चदेवाः ॥ २८ ॥
मालिनीmetre not read in every linenearly मालिनी
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पातालवर्गः Trikāṇḍaśeṣa 1.7.7 · p. 24
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।कर्कोटिः कुलिकः शंख इत्यष्टौ नागनायकाः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.3 · p. 148
गर्तः पतेरो भूश्वभ्रमवखातोऽवटोऽवधिः ।शेषोऽनन्तो नागराजः सर्पराजस्तु वासुकिः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.81
युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् ।कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.60 · p. 76
अनन्ता दूर्वायां भुवि च हरिणीशारिविकयो-रनन्ता नागेशानवधिहरयोऽनन्तमपि खम् ।निरस्तो निच्यूते त्वरितवचनं क्षिप्तशरयो-र्निरस्तः संत्यक्ते प्रतिहतबले चापि गदितः ॥
शिखरिणी
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.18 · p. 220
संनाहेऽतिदृढे गृ[295a]हे च गदितो न स्त्री निवातोऽन्यव-द्वातोनेऽथ हरौ च शेषभुजगेऽनन्तः पुमान्खेऽन्तिमे ।दूर्वाभूम्यमृतासु गोपतनयाग्निज्वालिकालाङ्गली-षूक्तः स्त्री खगभेदभासखगमेषूक्तः शकुन्तः पुमान् ॥ १८ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.8 · p. 47
अनन्तः पुंसि विष्णौ स्यान्नागराजे हलायुधे ।क्लीबं तु व्योम्न्यनन्ता तु पौर्णमास्यां मरुद्दिशि ॥ ८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.9 · p. 47
शारिवाभूमिदूर्वासु विशल्यानाम्नि चौषधौ ।दुःस्पर्शे च स्त्रियां भेद्यलिङ्गं त्वन्तवि(स?व)र्जिते ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.21 · p. 163
अनन्तस्तु हरौ शेषबलयोरक्षरं शिवे ।परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.22 · p. 163
[13] अनन्तं प्रचुरे व्योम्नि जलेऽनन्ता मही स्मृता ।दूर्वामृतप्यथाङ्कूरमङ्कूरं च नवोद्गते ॥ २२ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तत्रिः Śivakoṣa 12.2.188 · p. 18
द्राक्षाकृष्णाभयाधात्रीछिन्नाकुल्यासु चामृता ।अनन्तः पिप्पलेऽनन्ता दूर्वापथ्याकणासु च ॥ १८८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.75 · p. 218
अनन्तं क्लीबमाकाशे स्यात्पुमान् कृष्णशेषयोः ।अनन्ता सारिवापथ्याविशल्यामलकीषु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2032 · p. 247
अर्जुनी गवि नद्यां स्यादनूरौ भास्करेऽरुणः ।अनन्ता भूरनन्तं खमनन्तो हरिशेषयोः ॥ २०३२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.144 · p. 140
शेषे विष्णावनन्तो ना गुडूचीदूर्वयोः स्त्रियाम् ।क्लीबं खे त्रिष्वनवधावनन्तं मरणेऽशुभे ॥ १४४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.4 · p. 257
अनन्तो नागराड्विष्णुरनन्तं खनिरन्तयोः ।अनन्ता पूर्णिमा दूर्वा यवाषः शारिबा मही ॥ ४ ॥
अनुष्टुप्

अनन्त as a meaning in nānārtha verses