परिवादिनी
parivādinīस्त्री · fem.In 10 kośas: 10 synonym verses.
वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका ॥ २८७ ॥वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ।
अनुष्टुप्
genderस्त्रीfem.
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रोक्ता घोषवती वीणा विपञ्ची परिवादिनी ।वल्लकी चेति तद्भेदास्तन्त्रीभेदसमुद्भवाः ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
वीणा स्त्रियां घोषवती विपञ्ची कण्ठकूणिका ।वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
वीणा भवेद्घोषवती च वल्लकीस्त्रियां विपञ्ची किल कं[49a]ठकूणिका ।सा सप्ततन्त्रीः परिवादिनी तथानालम्बिका सा गदिता पिनाकिनः ॥ १५ ॥
इन्द्रवंशाmetre not read in every line
genderस्त्रीfem.
विपञ्ची सप्ततन्तीका कथिता परिवादिनी ।नारदस्य च या वीणा महती परिगीयते ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
वल्लकी चाथ तन्त्रीभिः सप्तभिः परिवादिनी ।अनालम्बी शिवस्य स्यात् सरस्वत्याश्च कच्छपी ॥ ४१७ ॥
अनुष्टुप्
genderस्त्रीfem.
विपञ्ची वल्लकी वीणा रङ्गवल्ली विपञ्चिका ।सा वीणा सप्ततन्त्रीभिरुच्यते परिवादिनी ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्रीभिः सप्तभिः सैव संयुता परिवादिनी ।तत्प्रभेदास्तु षड्कर्णः पौणो रावणहस्तकः ॥ ९३७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्कण्ठकूणिका चाथ स्याच्चित्रा परिवादिनी ।तन्त्र्यश्चेत्सप्त ताश्चेत्स्युश्चतुर्दश चतुर्दशी ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.